सूक्त १९
ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त १९
Script
Translation
Previous
सूक्त १८
Next
सूक्त २०
७ काश्यपोऽसितो देवलो वा । पवमानः सोमः । गायत्री ।
यत्सो॑म चि॒त्रमु॒क्थ्यं॑ दि॒व्यं पार्थि॑वं॒ वसु॑ ।
तन्नः॑ पुना॒न आ भ॑र ॥१॥
यु॒वं हि स्थः स्व॑र्पती॒ इन्द्र॑श्च सोम॒ गोप॑ती ।
ई॒शा॒ना पि॑प्यतं॒ धियः॑ ॥२॥
वृषा॑ पुना॒न आ॒युषु॑ स्त॒नय॒न्नधि॑ ब॒र्हिषि॑ ।
हरिः॒ सन्योनि॒मास॑दत् ॥३॥
अवा॑वशन्त धी॒तयो॑ वृष॒भस्याधि॒ रेत॑सि ।
सू॒नोर्व॒त्सस्य॑ मा॒तरः॑ ॥४॥
कु॒विद्वृ॑ष॒ण्यन्ती॑भ्यः पुना॒नो गर्भ॑मा॒दध॑त् ।
याः शु॒क्रं दु॑ह॒ते पयः॑ ॥५॥
उप॑ शिक्षापत॒स्थुषो॑ भि॒यस॒मा धे॑हि॒ शत्रु॑षु ।
पव॑मान वि॒दा र॒यिम् ॥६॥
नि शत्रोः॑ सोम॒ वृष्ण्यं॒ नि शुष्मं॒ नि वय॑स्तिर ।
दू॒रे वा॑ स॒तो अन्ति॑ वा ॥७॥
Previous
सूक्त १८
Next
सूक्त २०