सूक्त १८
ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त १८
Script
Translation
Previous
सूक्त १७
Next
सूक्त १९
७ काश्यपोऽसितो देवलो वा । पवमानः सोमः । गायत्री ।
परि॑ सुवा॒नो गि॑रि॒ष्ठाः प॒वित्रे॒ सोमो॑ अक्षाः ।
मदे॑षु सर्व॒धा अ॑सि ॥१॥
त्वं विप्र॒स्त्वं क॒विर्मधु॒ प्र जा॒तमन्ध॑सः ।
मदे॑षु सर्व॒धा अ॑सि ॥२॥
तव॒ विश्वे॑ स॒जोष॑सो दे॒वासः॑ पी॒तिमा॑शत ।
मदे॑षु सर्व॒धा अ॑सि ॥३॥
आ यो विश्वा॑नि॒ वार्या॒ वसू॑नि॒ हस्त॑योर्द॒धे ।
मदे॑षु सर्व॒धा अ॑सि ॥४॥
य इ॒मे रोद॑सी म॒ही सं मा॒तरे॑व॒ दोह॑ते ।
मदे॑षु सर्व॒धा अ॑सि ॥५॥
परि॒ यो रोद॑सी उ॒भे स॒द्यो वाजे॑भि॒रर्ष॑ति ।
मदे॑षु सर्व॒धा अ॑सि ॥६॥
स शु॒ष्मी क॒लशे॒ष्वा पु॑ना॒नो अ॑चिक्रदत् ।
मदे॑षु सर्व॒धा अ॑सि ॥७॥
Previous
सूक्त १७
Next
सूक्त १९