सूक्त १४
ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त १४
Script
Translation
Previous
सूक्त १३
Next
सूक्त १५
८ काश्यपोऽसितो देवलो वा । पवमानः सोमः । गायत्री ।
परि॒ प्रासि॑ष्यदत्क॒विः सिन्धो॑रू॒र्मावधि॑ श्रि॒तः ।
का॒रं बिभ्र॑त्पुरु॒स्पृह॑म् ॥१॥
गि॒रा यदी॒ सब॑न्धवः॒ पञ्च॒ व्राता॑ अप॒स्यवः॑ ।
प॒रि॒ष्कृ॒ण्वन्ति॑ धर्ण॒सिम् ॥२॥
आद॑स्य शु॒ष्मिणो॒ रसे॒ विश्वे॑ दे॒वा अ॑मत्सत ।
यदी॒ गोभि॑र्वसा॒यते॑ ॥३॥
नि॒रि॒णा॒नो वि धा॑वति॒ जह॒च्छर्या॑णि॒ तान्वा॑ ।
अत्रा॒ सं जि॑घ्नते यु॒जा ॥४॥
न॒प्तीभि॒र्यो वि॒वस्व॑तः शु॒भ्रो न मा॑मृ॒जे युवा॑ ।
गाः कृ॑ण्वा॒नो न नि॒र्णिज॑म् ॥५॥
अति॑ श्रि॒ती ति॑र॒श्चता॑ ग॒व्या जि॑गा॒त्यण्व्या॑ ।
व॒ग्नुमि॑यर्ति॒ यं वि॒दे ॥६॥
अ॒भि क्षिपः॒ सम॑ग्मत म॒र्जय॑न्तीरि॒षस्पति॑म् ।
पृ॒ष्ठा गृ॑भ्णत वा॒जिनः॑ ॥७॥
परि॑ दि॒व्यानि॒ मर्मृ॑श॒द्विश्वा॑नि सोम॒ पार्थि॑वा ।
वसू॑नि याह्यस्म॒युः ॥८॥
Previous
सूक्त १३
Next
सूक्त १५