सूक्त १३
ऋग्वेदः / संहिता / शाकल / मण्डल ९ / सूक्त १३
Script
Translation
Previous
सूक्त १२
Next
सूक्त १४
९ काश्यपोऽसितो देवलो वा । पवमानः सोमः । गायत्री ।
सोमः॑ पुना॒नो अ॑र्षति स॒हस्र॑धारो॒ अत्य॑विः ।
वा॒योरिन्द्र॑स्य निष्कृ॒तम् ॥१॥
पव॑मानमवस्यवो॒ विप्र॑म॒भि प्र गा॑यत ।
सु॒ष्वा॒णं दे॒ववी॑तये ॥२॥
पव॑न्ते॒ वाज॑सातये॒ सोमाः॑ स॒हस्र॑पाजसः ।
गृ॒णा॒ना दे॒ववी॑तये ॥३॥
उ॒त नो॒ वाज॑सातये॒ पव॑स्व बृह॒तीरिषः॑ ।
द्यु॒मदि॑न्दो सु॒वीर्य॑म् ॥४॥
ते नः॑ सह॒स्रिणं॑ र॒यिं पव॑न्ता॒मा सु॒वीर्य॑म् ।
सु॒वा॒ना दे॒वास॒ इन्द॑वः ॥५॥
अत्या॑ हिया॒ना न हे॒तृभि॒रसृ॑ग्रं॒ वाज॑सातये ।
वि वार॒मव्य॑मा॒शवः॑ ॥६॥
वा॒श्रा अ॑र्ष॒न्तीन्द॑वो॒ऽभि व॒त्सं न धे॒नवः॑ ।
द॒ध॒न्वि॒रे गभ॑स्त्योः ॥७॥
जुष्ट॒ इन्द्रा॑य मत्स॒रः पव॑मान॒ कनि॑क्रदत् ।
विश्वा॒ अप॒ द्विषो॑ जहि ॥८॥
अ॒प॒घ्नन्तो॒ अरा॑व्णः॒ पव॑मानाः स्व॒र्दृशः॑ ।
योना॑वृ॒तस्य॑ सीदत ॥९॥
Previous
सूक्त १२
Next
सूक्त १४