सूक्त ८१
ऋग्वेदः / संहिता / शाकल / मण्डल ८ / सूक्त ८१
Script
Translation
Previous
सूक्त ८०
Next
सूक्त ८२
९ कुसीदी काण्वः । इन्द्रः । गायत्री ।
आ प्र द्र॑व परा॒वतो॑ऽर्वा॒वत॑श्च वृत्रहन् ।
मध्वः॒ प्रति॒ प्रभ॑र्मणि ॥१॥
ती॒व्राः सोमा॑स॒ आ ग॑हि सु॒तासो॑ मादयि॒ष्णवः॑ ।
पिबा॑ द॒धृग्यथो॑चि॒षे ॥२॥
इ॒षा म॑न्द॒स्वादु॒ तेऽरं॒ वरा॑य म॒न्यवे॑ ।
भुव॑त्त इन्द्र॒ शं हृ॒दे ॥३॥
आ त्व॑शत्र॒वा ग॑हि॒ न्यु१क्थानि॑ च हूयसे ।
उ॒प॒मे रो॑च॒ने दि॒वः ॥४॥
तुभ्या॒यमद्रि॑भिः सु॒तो गोभिः॑ श्री॒तो मदा॑य॒ कम् ।
प्र सोम॑ इन्द्र हूयते ॥५॥
इन्द्र॑ श्रु॒धि सु मे॒ हव॑म॒स्मे सु॒तस्य॒ गोम॑तः ।
वि पी॒तिं तृ॒प्तिम॑श्नुहि ॥६॥
य इ॑न्द्र चम॒सेष्वा सोम॑श्च॒मूषु॑ ते सु॒तः ।
पिबेद॑स्य॒ त्वमी॑शिषे ॥७॥
यो अ॒प्सु च॒न्द्रमा॑ इव॒ सोम॑श्च॒मूषु॒ ददृ॑शे ।
पिबेद॑स्य॒ त्वमी॑शिषे ॥८॥
यं ते॑ श्ये॒नः प॒दाभ॑रत्ति॒रो रजां॒स्यस्पृ॑तम् ।
पिबेद॑स्य॒ त्वमी॑शिषे ॥९॥
Previous
सूक्त ८०
Next
सूक्त ८२