सूक्त ८०
ऋग्वेदः / संहिता / शाकल / मण्डल ८ / सूक्त ८०
Script
Translation
Previous
सूक्त ७९
Next
सूक्त ८१
९ कुसीदी काण्वः । इन्द्रः । गायत्री ।
आ तू न॑ इन्द्र क्षु॒मन्तं॑ चि॒त्रं ग्रा॒भं सं गृ॑भाय ।
म॒हा॒ह॒स्ती दक्षि॑णेन ॥१॥
वि॒द्मा हि त्वा॑ तुविकू॒र्मिं तु॒विदे॑ष्णं तु॒वीम॑घम् ।
तु॒वि॒मा॒त्रमवो॑भिः ॥२॥
न॒हि त्वा॑ शूर दे॒वा न मर्ता॑सो॒ दित्स॑न्तम् ।
भी॒मं न गां वा॒रय॑न्ते ॥३॥
एतो॒ न्विन्द्रं॒ स्तवा॒मेशा॑नं॒ वस्वः॑ स्व॒राज॑म् ।
न राध॑सा मर्धिषन्नः ॥४॥
प्र स्तो॑ष॒दुप॑ गासिष॒च्छ्रव॒त्साम॑ गी॒यमा॑नम् ।
अ॒भि राध॑सा जुगुरत् ॥५॥
आ नो॑ भर॒ दक्षि॑णेना॒ऽभि स॒व्येन॒ प्र मृ॑श ।
इन्द्र॒ मा नो॒ वसो॒र्निर्भा॑क् ॥६॥
उप॑ क्रम॒स्वा भ॑र धृष॒ता धृ॑ष्णो॒ जना॑नाम् ।
अदा॑शूष्टरस्य॒ वेदः॑ ॥७॥
इन्द्र॒ य उ॒ नु ते॒ अस्ति॒ वाजो॒ विप्रे॑भिः॒ सनि॑त्वः ।
अ॒स्माभिः॒ सु तं स॑नुहि ॥८॥
स॒द्यो॒जुव॑स्ते॒ वाजा॑ अ॒स्मभ्यं॑ वि॒श्वश्च॑न्द्राः ।
वशै॑श्च म॒क्षू ज॑रन्ते ॥१३॥
Previous
सूक्त ७९
Next
सूक्त ८१