सूक्त ४६
ऋग्वेदः / संहिता / शाकल / मण्डल ८ / सूक्त ४६
Script
Translation
Previous
सूक्त ४५
Next
सूक्त ४७
३३ वशोऽश्व्यः । इन्द्रः; २१ -२४ कानीतः पृथुश्रवाः; २५-२८ , ३२ वायुः । गायत्री , १ पादनिचृत् ; ५ ककुप् ,७ बृहती , ८ अनुष्टुप् , ९ सतोबृहती, ११-१२ विपरीतोत्तरः प्रगाथः = ( बृहती, विपरीता ), १३ द्विपदा जगती , १४ बृहती पिपीलिकमध्या, १५ ककुम्न्यंकुशिरा, १६ विराट्, १७ जगती, १८ उपरिष्टाद् बृहती ,१९ बृहती , २० विषमपदा बृहती ; २१ ,२४ पंक्तिः; २२ संस्तारपंक्तिः , २४ -२८ ; प्रगाथः = ( बृहती , सतोबृहती ), ३० द्विपदा विराट् , ३१ उष्णिक् , ३२ पंक्तिः ।
त्वाव॑तः पुरूवसो व॒यमि॑न्द्र प्रणेतः ।
स्मसि॑ स्थातर्हरीणाम् ॥१॥
त्वां हि स॒त्यम॑द्रिवो वि॒द्म दा॒तार॑मि॒षाम् ।
वि॒द्म दा॒तारं॑ रयी॒णाम् ॥२॥
आ यस्य॑ ते महि॒मानं॒ शत॑मूते॒ शत॑क्रतो ।
गी॒र्भिर्गृ॒णन्ति॑ का॒रवः॑ ॥३॥
सु॒नी॒थो घा॒ स मर्त्यो॒ यं म॒रुतो॒ यम॑र्य॒मा ।
मि॒त्रः पान्त्य॒द्रुहः॑ ॥४॥
दधा॑नो॒ गोम॒दश्व॑वत्सु॒वीर्य॑मादि॒त्यजू॑त एधते ।
सदा॑ रा॒या पु॑रु॒स्पृहा॑ ॥५॥
तमिन्द्रं॒ दान॑मीमहे शवसा॒नमभी॑र्वम् ।
ईशा॑नं रा॒य ई॑महे ॥६॥
तस्मि॒न्हि सन्त्यू॒तयो॒ विश्वा॒ अभी॑रवः॒ सचा॑ ।
तमा व॑हन्तु॒ सप्त॑यः पुरू॒वसुं॒ मदा॑य॒ हर॑यः सु॒तम् ॥७॥
यस्ते॒ मदो॒ वरे॑ण्यो॒ य इ॑न्द्र वृत्र॒हन्त॑मः ।
य आ॑द॒दिः स्व१र्नृभि॒र्यः पृत॑नासु दु॒ष्टरः॑ ॥८॥
यो दु॒ष्टरो॑ विश्ववार श्र॒वाय्यो॒ वाजे॒ष्वस्ति॑ तरु॒ता ।
स नः॑ शविष्ठ॒ सव॒ना व॑सो गहि ग॒मेम॒ गोम॑ति व्र॒जे ॥९॥
ग॒व्यो षु णो॒ यथा॑ पु॒राऽश्व॒योत र॑थ॒या ।
व॒रि॒व॒स्य म॑हामह ॥१०॥
न॒हि ते॑ शूर॒ राध॒सोऽन्तं॑ वि॒न्दामि॑ स॒त्रा ।
द॒श॒स्या नो॑ मघव॒न्नू चि॑दद्रिवो॒ धियो॒ वाजे॑भिराविथ ॥११॥
य ऋ॒ष्वः श्रा॑व॒यत्स॑खा॒ विश्वेत्स वे॑द॒ जनि॑मा पुरुष्टु॒तः ।
तं विश्वे॒ मानु॑षा यु॒गेन्द्रं॑ हवन्ते तवि॒षं य॒तस्रु॑चः ॥१२॥
स नो॒ वाजे॑ष्ववि॒ता पु॑रू॒वसुः॑ पुरस्था॒ता म॒घवा॑ वृत्र॒हा भु॑वत् ॥१३॥
अ॒भि वो॑ वी॒रमन्ध॑सो॒ मदे॑षु गाय गि॒रा म॒हा विचे॑तसम् ।
इन्द्रं॒ नाम॒ श्रुत्यं॑ शा॒किनं॒ वचो॒ यथा॑ ॥१४॥
द॒दी रेक्ण॑स्त॒न्वे॑ द॒दिर्वसु॑ द॒दिर्वाजे॑षु पुरुहूत वा॒जिन॑म् ।
नू॒नमथ॑ ॥१५॥
विश्वे॑षामिर॒ज्यन्तं॒ वसू॑नां सास॒ह्वांसं॑ चिद॒स्य वर्प॑सः ।
कृ॒प॒य॒तो नू॒नमत्यथ॑ ॥१६॥
म॒हः सु वो॒ अर॑मिषे॒ स्तवा॑महे मी॒ळ्हुषे॑ अरंग॒माय॒ जग्म॑ये ।
य॒ज्ञेभि॑र्गी॒र्भिर्वि॒श्वम॑नुषां म॒रुता॑मियक्षसि॒ गाये॑ त्वा॒ नम॑सा गि॒रा ॥१७॥
ये पा॒तय॑न्ते॒ अज्म॑भिर्गिरी॒णां स्नुभि॑रेषाम् ।
य॒ज्ञं म॑हि॒ष्वणी॑नां सु॒म्नं तु॑वि॒ष्वणी॑नां॒ प्राध्व॒रे ॥१८॥
प्र॒भ॒ङ्गं दु॑र्मती॒नामिन्द्र॑ शवि॒ष्ठा भ॑र ।
र॒यिम॒स्मभ्यं॒ युज्यं॑ चोदयन्मते॒ ज्येष्ठं॑ चोदयन्मते ॥१९॥
सनि॑तः॒ सुस॑नित॒रुग्र॒ चित्र॒ चेति॑ष्ठ॒ सूनृ॑त ।
प्रा॒सहा॑ सम्रा॒ट् सहु॑रिं॒ सह॑न्तं भु॒ज्युं वाजे॑षु॒ पूर्व्य॑म् ॥२०॥
आ स ए॑तु॒ य ईव॒दाँ अदे॑वः पू॒र्तमा॑द॒दे ।
यथा॑ चि॒द्वशो॑ अ॒श्व्यः पृ॑थु॒श्रव॑सि कानी॒ते॒३ऽस्या व्युष्या॑द॒दे ॥२१॥
ष॒ष्टिं स॒हस्राश्व्य॑स्या॒युता॑सन॒मुष्ट्रा॑नां विंश॒तिं श॒ता ।
दश॒ श्यावी॑नां श॒ता दश॒ त्र्य॑रुषीणां॒ दश॒ गवां॑ स॒हस्रा॑ ॥२२॥
दश॑ श्या॒वा ऋ॒धद्र॑यो वी॒तवा॑रास आ॒शवः॑ ।
म॒थ्रा ने॒मिं नि वा॑वृतुः ॥२३॥
दाना॑सः पृथु॒श्रव॑सः कानी॒तस्य॑ सु॒राध॑सः ।
रथं॑ हिर॒ण्ययं॒ दद॒न्मंहि॑ष्ठः सू॒रिर॑भू॒द्वर्षि॑ष्ठमकृत॒ श्रवः॑ ॥२४॥
आ नो॑ वायो म॒हे तने॑ या॒हि म॒खाय॒ पाज॑से ।
व॒यं हि ते॑ चकृ॒मा भूरि॑ दा॒वने॑ स॒द्यश्चि॒न्महि॑ दा॒वने॑ ॥२५॥
यो अश्वे॑भि॒र्वह॑ते॒ वस्त॑ उ॒स्रास्त्रिः स॒प्त स॑प्तती॒नाम् ।
ए॒भिः सोमे॑भिः सोम॒सुद्भिः॑ सोमपा दा॒नाय॑ शुक्रपूतपाः ॥२६॥
यो म॑ इ॒मं चि॑दु॒ त्मनाम॑न्दच्चि॒त्रं दा॒वने॑ ।
अ॒र॒ट्वे अक्षे॒ नहु॑षे सु॒कृत्व॑नि सु॒कृत्त॑राय सु॒क्रतुः॑ ॥२७॥
उ॒च॒थ्ये॒३ वपु॑षि॒ यः स्व॒राळु॒त वा॑यो घृत॒स्नाः ।
अश्वे॑षितं॒ रजे॑षितं॒ शुने॑षितं॒ प्राज्म॒ तदि॒दं नु तत् ॥२८॥
अध॑ प्रि॒यमि॑षि॒राय॑ ष॒ष्टिं स॒हस्रा॑सनम् ।
अश्वा॑ना॒मिन्न वृष्णा॑म् ॥२९॥
गावो॒ न यू॒थमुप॑ यन्ति॒ वध्र॑य॒ उप॒ मा य॑न्ति॒ वध्र॑यः ॥३०॥
अध॒ यच्चार॑थे ग॒णे श॒तमुष्ट्राँ॒ अचि॑क्रदत् ।
अध॒ श्वित्ने॑षु विंश॒तिं श॒ता ॥३१॥
श॒तं दा॒से ब॑ल्बू॒थे विप्र॒स्तरु॑क्ष॒ आ द॑दे ।
ते ते॑ वायवि॒मे जना॒ मद॒न्तीन्द्र॑गोपा॒ मद॑न्ति दे॒वगो॑पाः ॥३२॥
अध॒ स्या योष॑णा म॒ही प्र॑ती॒ची वश॑म॒श्व्यम् ।
अधि॑रुक्मा॒ वि नी॑यते ॥३३॥
Previous
सूक्त ४५
Next
सूक्त ४७