सूक्त ४५
ऋग्वेदः / संहिता / शाकल / मण्डल ८ / सूक्त ४५
Script
Translation
Previous
सूक्त ४४
Next
सूक्त ४६
४२ त्रिशोकः काण्वः । इन्द्रः; १ अग्नीन्द्रौ ।गायत्री ।
आ घा॒ ये अ॒ग्निमि॑न्ध॒ते स्तृ॒णन्ति॑ ब॒र्हिरा॑नु॒षक् ।
येषा॒मिन्द्रो॒ युवा॒ सखा॑ ॥१॥
बृ॒हन्निदि॒ध्म ए॑षां॒ भूरि॑ श॒स्तं पृ॒थुः स्वरुः॑ ।
येषा॒मिन्द्रो॒ युवा॒ सखा॑ ॥२॥
अयु॑द्ध॒ इद्यु॒धा वृतं॒ शूर॒ आज॑ति॒ सत्व॑भिः ।
येषा॒मिन्द्रो॒ युवा॒ सखा॑ ॥३॥
आ बु॒न्दं वृ॑त्र॒हा द॑दे जा॒तः पृ॑च्छ॒द्वि मा॒तर॑म् ।
क उ॒ग्राः के ह॑ शृण्विरे ॥४॥
प्रति॑ त्वा शव॒सी व॑दद्गि॒रावप्सो॒ न यो॑धिषत् ।
यस्ते॑ शत्रु॒त्वमा॑च॒के ॥५॥
उ॒त त्वं म॑घवञ्छृणु॒ यस्ते॒ वष्टि॑ व॒वक्षि॒ तत् ।
यद्वी॒ळया॑सि वी॒ळु तत् ॥६॥
यदा॒जिं यात्या॑जि॒कृदिन्द्रः॑ स्वश्व॒युरुप॑ ।
र॒थीत॑मो र॒थीना॑म् ॥७॥
वि षु विश्वा॑ अभि॒युजो॒ वज्रि॒न्विष्व॒ग्यथा॑ वृह ।
भवा॑ नः सु॒श्रव॑स्तमः ॥८॥
अ॒स्माकं॒ सु रथं॑ पु॒र इन्द्रः॑ कृणोतु सा॒तये॑ ।
न यं धूर्व॑न्ति धू॒र्तयः॑ ॥९॥
वृ॒ज्याम॑ ते॒ परि॒ द्विषोऽरं॑ ते शक्र दा॒वने॑ ।
ग॒मेमेदि॑न्द्र॒ गोम॑तः ॥१०॥
शनै॑श्चि॒द्यन्तो॑ अद्रि॒वोऽश्वा॑वन्तः शत॒ग्विनः॑ ।
वि॒वक्ष॑णा अने॒हसः॑ ॥११॥
ऊ॒र्ध्वा हि ते॑ दि॒वेदि॑वे स॒हस्रा॑ सू॒नृता॑ श॒ता ।
ज॒रि॒तृभ्यो॑ वि॒मंह॑ते ॥१२॥
वि॒द्मा हि त्वा॑ धनंज॒यमिन्द्र॑ दृ॒ळ्हा चि॑दारु॒जम् ।
आ॒दा॒रिणं॒ यथा॒ गय॑म् ॥१३॥
क॒कु॒हं चि॑त्त्वा कवे॒ मन्द॑न्तु धृष्ण॒विन्द॑वः ।
आ त्वा॑ प॒णिं यदीम॑हे ॥१४॥
यस्ते॑ रे॒वाँ अदा॑शुरिः प्रम॒मर्ष॑ म॒घत्त॑ये ।
तस्य॑ नो॒ वेद॒ आ भ॑र ॥१५॥
इ॒म उ॑ त्वा॒ वि च॑क्षते॒ सखा॑य इन्द्र सो॒मिनः॑ ।
पु॒ष्टाव॑न्तो॒ यथा॑ प॒शुम् ॥१६॥
उ॒त त्वाब॑धिरं व॒यं श्रुत्क॑र्णं॒ सन्त॑मू॒तये॑ ।
दू॒रादि॒ह ह॑वामहे ॥१७॥
यच्छु॑श्रू॒या इ॒मं हवं॑ दु॒र्मर्षं॑ चक्रिया उ॒त ।
भवे॑रा॒पिर्नो॒ अन्त॑मः ॥१८॥
यच्चि॒द्धि ते॒ अपि॒ व्यथि॑र्जग॒न्वांसो॒ अम॑न्महि ।
गो॒दा इदि॑न्द्र बोधि नः ॥१९॥
आ त्वा॑ र॒म्भं न जिव्र॑यो रर॒भ्मा श॑वसस्पते ।
उ॒श्मसि॑ त्वा स॒धस्थ॒ आ ॥२०॥
स्तो॒त्रमिन्द्रा॑य गायत पुरुनृ॒म्णाय॒ सत्व॑ने ।
नकि॒र्यं वृ॑ण्व॒ते यु॒धि ॥२१॥
अ॒भि त्वा॑ वृषभा सु॒ते सु॒तं सृ॑जामि पी॒तये॑ ।
तृ॒म्पा व्य॑श्नुही॒ मद॑म् ॥२२॥
मा त्वा॑ मू॒रा अ॑वि॒ष्यवो॒ मोप॒हस्वा॑न॒ आ द॑भन् ।
माकीं॑ ब्रह्म॒द्विषो॑ वनः ॥२३॥
इ॒ह त्वा॒ गोप॑रीणसा म॒हे म॑न्दन्तु॒ राध॑से ।
सरो॑ गौ॒रो यथा॑ पिब ॥२४॥
या वृ॑त्र॒हा प॑रा॒वति॒ सना॒ नवा॑ च चुच्यु॒वे ।
ता सं॒सत्सु॒ प्र वो॑चत ॥२५॥
अपि॑बत्क॒द्रुवः॑ सु॒तमिन्द्रः॑ स॒हस्र॑बाह्वे ।
अत्रा॑देदिष्ट॒ पौंस्य॑म् ॥२६॥
स॒त्यं तत्तु॒र्वशे॒ यदौ॒ विदा॑नो अह्नवा॒य्यम् ।
व्या॑नट् तु॒र्वणे॒ शमि॑ ॥२७॥
त॒रणिं॑ वो॒ जना॑नां त्र॒दं वाज॑स्य॒ गोम॑तः ।
स॒मा॒नमु॒ प्र शं॑सिषम् ॥२८॥
ऋ॒भु॒क्षणं॒ न वर्त॑व उ॒क्थेषु॑ तुग्र्या॒वृध॑म् ।
इन्द्रं॒ सोमे॒ सचा॑ सु॒ते ॥२९॥
यः कृ॒न्तदिद्वि यो॒न्यं त्रि॒शोका॑य गि॒रिं पृ॒थुम् ।
गोभ्यो॑ गा॒तुं निरे॑तवे ॥३०॥
यद्द॑धि॒षे म॑न॒स्यसि॑ मन्दा॒नः प्रेदिय॑क्षसि ।
मा तत्क॑रिन्द्र मृ॒ळय॑ ॥३१॥
द॒भ्रं चि॒द्धि त्वाव॑तः कृ॒तं शृ॒ण्वे अधि॒ क्षमि॑ ।
जिगा॑त्विन्द्र ते॒ मनः॑ ॥३२॥
तवेदु॒ ताः सु॑की॒र्तयोऽस॑न्नु॒त प्रश॑स्तयः ।
यदि॑न्द्र मृ॒ळया॑सि नः ॥३३॥
मा न॒ एक॑स्मि॒न्नाग॑सि॒ मा द्वयो॑रु॒त त्रि॒षु ।
वधी॒र्मा शू॑र॒ भूरि॑षु ॥३४॥
बि॒भया॒ हि त्वाव॑त उ॒ग्राद॑भिप्रभ॒ङ्गिणः॑ ।
द॒स्माद॒हमृ॑ती॒षहः॑ ॥३५॥
मा सख्युः॒ शून॒मा वि॑दे॒ मा पु॒त्रस्य॑ प्रभूवसो ।
आ॒वृत्व॑द्भूतु ते॒ मनः॑ ॥३६॥
को नु म॑र्या॒ अमि॑थितः॒ सखा॒ सखा॑यमब्रवीत् ।
ज॒हा को अ॒स्मदी॑षते ॥३७॥
ए॒वारे॑ वृषभा सु॒तेऽसि॑न्व॒न्भूर्या॑वयः ।
श्व॒घ्नीव॑ नि॒वता॒ चर॑न् ॥३८॥
आ त॑ ए॒ता व॑चो॒युजा॒ हरी॑ गृभ्णे सु॒मद्र॑था ।
यदीं॑ ब्र॒ह्मभ्य॒ इद्ददः॑ ॥३९॥
भि॒न्धि विश्वा॒ अप॒ द्विषः॒ परि॒ बाधो॑ ज॒ही मृधः॑ ।
वसु॑ स्पा॒र्हं तदा भ॑र ॥४०॥
यद्वी॒ळावि॑न्द्र॒ यत्स्थि॒रे यत्पर्शा॑ने॒ परा॑भृतम् ।
वसु॑ स्पा॒र्हं तदा भ॑र ॥४१॥
यस्य॑ ते वि॒श्वमा॑नुषो॒ भूरे॑र्द॒त्तस्य॒ वेद॑ति ।
वसु॑ स्पा॒र्हं तदा भ॑र ॥४२॥
Previous
सूक्त ४४
Next
सूक्त ४६