सूक्त २५
ऋग्वेदः / संहिता / शाकल / मण्डल ८ / सूक्त २५
Script
Translation
Previous
सूक्त २४
Next
सूक्त २६
२४ विश्वमना वैयश्वः । मित्रावरुणौ, १०-१२ विश्वे देवा ः । उष्णिक् ,२३ उष्णिग्गर्भा ।
ता वां॒ विश्व॑स्य गो॒पा दे॒वा दे॒वेषु॑ य॒ज्ञिया॑ ।
ऋ॒तावा॑ना यजसे पू॒तद॑क्षसा ॥१॥
मि॒त्रा तना॒ न र॒थ्या॒३ वरु॑णो॒ यश्च॑ सु॒क्रतुः॑ ।
स॒नात्सु॑जा॒ता तन॑या धृ॒तव्र॑ता ॥२॥
ता मा॒ता वि॒श्ववे॑दसाऽसु॒र्या॑य॒ प्रम॑हसा ।
म॒ही ज॑जा॒नादि॑तिॠ॒ताव॑री ॥३॥
म॒हान्ता॑ मि॒त्रावरु॑णा स॒म्राजा॑ दे॒वावसु॑रा ।
ऋ॒तावा॑नावृ॒तमा घो॑षतो बृ॒हत् ॥४॥
नपा॑ता॒ शव॑सो म॒हः सू॒नू दक्ष॑स्य सु॒क्रतू॑ ।
सृ॒प्रदा॑नू इ॒षो वास्त्वधि॑ क्षितः ॥५॥
सं या दानू॑नि ये॒मथु॑र्दि॒व्याः पार्थि॑वी॒रिषः॑ ।
नभ॑स्वती॒रा वां॑ चरन्तु वृ॒ष्टयः॑ ॥६॥
अधि॒ या बृ॑ह॒तो दि॒वो॒३ऽभि यू॒थेव॒ पश्य॑तः ।
ऋ॒तावा॑ना स॒म्राजा॒ नम॑से हि॒ता ॥७॥
ऋ॒तावा॑ना॒ नि षे॑दतुः॒ साम्रा॑ज्याय सु॒क्रतू॑ ।
धृ॒तव्र॑ता क्ष॒त्रिया॑ क्ष॒त्रमा॑शतुः ॥८॥
अ॒क्ष्णश्चि॑द्गातु॒वित्त॑रानुल्ब॒णेन॒ चक्ष॑सा ।
नि चि॑न्मि॒षन्ता॑ निचि॒रा नि चि॑क्यतुः ॥९॥
उ॒त नो॑ दे॒व्यदि॑तिरुरु॒ष्यतां॒ नास॑त्या ।
उ॒रु॒ष्यन्तु॑ म॒रुतो॑ वृ॒द्धश॑वसः ॥१०॥
ते नो॑ ना॒वमु॑रुष्यत॒ दिवा॒ नक्तं॑ सुदानवः ।
अरि॑ष्यन्तो॒ नि पा॒युभिः॑ सचेमहि ॥११॥
अघ्न॑ते॒ विष्ण॑वे व॒यमरि॑ष्यन्तः सु॒दान॑वे ।
श्रु॒धि स्व॑यावन्त्सिन्धो पू॒र्वचि॑त्तये ॥१२॥
तद्वार्यं॑ वृणीमहे॒ वरि॑ष्ठं गोप॒यत्य॑म् ।
मि॒त्रो यत्पान्ति॒ वरु॑णो॒ यद॑र्य॒मा ॥१३॥
उ॒त नः॒ सिन्धु॑र॒पां तन्म॒रुत॒स्तद॒श्विना॑ ।
इन्द्रो॒ विष्णु॑र्मी॒ढ्वांसः॑ स॒जोष॑सः ॥१४॥
ते हि ष्मा॑ व॒नुषो॒ नरो॒ऽभिमा॑तिं॒ कय॑स्य चित् ।
ति॒ग्मं न क्षोदः॑ प्रति॒घ्नन्ति॒ भूर्ण॑यः ॥१५॥
अ॒यमेक॑ इ॒त्था पु॒रूरु च॑ष्टे॒ वि वि॒श्पतिः॑ ।
तस्य॑ व्र॒तान्यनु॑ वश्चरामसि ॥१६ अनु॒ पूर्वा॑ण्यो॒क्या॑ साम्रा॒ज्यस्य॑ सश्चिम ।
मि॒त्रस्य॑ व्र॒ता वरु॑णस्य दीर्घ॒श्रुत् ॥१७॥
परि॒ यो र॒श्मिना॑ दि॒वोऽन्ता॑न्म॒मे पृ॑थि॒व्याः ।
उ॒भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा ॥१८॥
उदु॒ ष्य श॑र॒णे दि॒वो ज्योति॑रयंस्त॒ सूर्यः॑ ।
अ॒ग्निर्न शु॒क्रः स॑मिधा॒न आहु॑तः ॥१९॥
वचो॑ दी॒र्घप्र॑सद्म॒नीशे॒ वाज॑स्य॒ गोम॑तः ।
ईशे॒ हि पि॒त्वो॑ऽवि॒षस्य॑ दा॒वने॑ ॥२०॥
तत्सूर्यं॒ रोद॑सी उ॒भे दो॒षा वस्तो॒रुप॑ ब्रुवे ।
भो॒जेष्व॒स्माँ अ॒भ्युच्च॑रा॒ सदा॑ ॥२१॥
ऋ॒ज्रमु॑क्ष॒ण्याय॑ने रज॒तं हर॑याणे ।
रथं॑ यु॒क्तम॑सनाम सु॒षाम॑णि ॥२२॥
ता मे॒ अश्व्या॑नां॒ हरी॑णां नि॒तोश॑ना ।
उ॒तो नु कृत्व्या॑नां नृ॒वाह॑सा ॥२३॥
स्मद॑भीशू॒ कशा॑वन्ता॒ विप्रा॒ नवि॑ष्ठया म॒ती ।
म॒हो वा॒जिना॒वर्व॑न्ता॒ सचा॑सनम् ॥२४॥
Previous
सूक्त २४
Next
सूक्त २६