सूक्त २४
ऋग्वेदः / संहिता / शाकल / मण्डल ८ / सूक्त २४
Script
Translation
Previous
सूक्त २३
Next
सूक्त २५
३० विश्वमना वैयश्वः । इन्द्रः, २८-३० वरुः सौषाम्णिः । उष्णिक्, ३० अनुष्टुप् ।
सखा॑य॒ आ शि॑षामहि॒ ब्रह्मेन्द्रा॑य व॒ज्रिणे॑ ।
स्तु॒ष ऊ॒ षु वो॒ नृत॑माय धृ॒ष्णवे॑ ॥१॥
शव॑सा॒ ह्यसि॑ श्रु॒तो वृ॑त्र॒हत्ये॑न वृत्र॒हा ।
म॒घैर्म॒घोनो॒ अति॑ शूर दाशसि ॥२॥
स नः॒ स्तवा॑न॒ आ भ॑र र॒यिं चि॒त्रश्र॑वस्तमम् ।
नि॒रे॒के चि॒द्यो ह॑रिवो॒ वसु॑र्द॒दिः ॥३॥
आ नि॑रे॒कमु॒त प्रि॒यमिन्द्र॒ दर्षि॒ जना॑नाम् ।
धृ॒ष॒ता धृ॑ष्णो॒ स्तव॑मान॒ आ भ॑र ॥४॥
न ते॑ स॒व्यं न दक्षि॑णं॒ हस्तं॑ वरन्त आ॒मुरः॑ ।
न प॑रि॒बाधो॑ हरिवो॒ गवि॑ष्टिषु ॥५॥
आ त्वा॒ गोभि॑रिव व्र॒जं गी॒र्भिॠ॑णोम्यद्रिवः ।
आ स्मा॒ कामं॑ जरि॒तुरा मनः॑ पृण ॥६॥
विश्वा॑नि वि॒श्वम॑नसो धि॒या नो॑ वृत्रहन्तम ।
उग्र॑ प्रणेत॒रधि॒ षू व॑सो गहि ॥७॥
व॒यं ते॑ अ॒स्य वृ॑त्रहन्वि॒द्याम॑ शूर॒ नव्य॑सः ।
वसोः॑ स्पा॒र्हस्य॑ पुरुहूत॒ राध॑सः ॥८॥
इन्द्र॒ यथा॒ ह्यस्ति॒ तेऽप॑रीतं नृतो॒ शवः॑ ।
अमृ॑क्ता रा॒तिः पु॑रुहूत दा॒शुषे॑ ॥९॥
आ वृ॑षस्व महामह म॒हे नृ॑तम॒ राध॑से ।
दृ॒ळ्हश्चि॑द्दृह्य मघवन्म॒घत्त॑ये ॥१०॥
नू अ॒न्यत्रा॑ चिदद्रिव॒स्त्वन्नो॑ जग्मुरा॒शसः॑ ।
मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तिभिः॑ ॥११॥
न॒ह्य१ङ्ग नृ॑तो॒ त्वद॒न्यं वि॒न्दामि॒ राध॑से ।
रा॒ये द्यु॒म्नाय॒ शव॑से च गिर्वणः ॥१२॥
एन्दु॒मिन्द्रा॑य सिञ्चत॒ पिबा॑ति सो॒म्यं मधु॑ ।
प्र राध॑सा चोदयाते महित्व॒ना ॥१३॥
उपो॒ हरी॑णां॒ पतिं॒ दक्षं॑ पृ॒ञ्चन्त॑मब्रवम् ।
नू॒नं श्रु॑धि स्तुव॒तो अ॒श्व्यस्य॑ ॥१४॥
न॒ह्य१ङ्ग पु॒रा च॒न ज॒ज्ञे वी॒रत॑र॒स्त्वत् ।
नकी॑ रा॒या नैवथा॒ न भ॒न्दना॑ ॥१५॥
एदु॒ मध्वो॑ म॒दिन्त॑रं सि॒ञ्च वा॑ध्वर्यो॒ अन्ध॑सः ।
ए॒वा हि वी॒रः स्तव॑ते स॒दावृ॑धः ॥१६॥
इन्द्र॑ स्थातर्हरीणां॒ नकि॑ष्टे पू॒र्व्यस्तु॑तिम् ।
उदा॑नंश॒ शव॑सा॒ न भ॒न्दना॑ ॥१७॥
तं वो॒ वाजा॑नां॒ पति॒महू॑महि श्रव॒स्यवः॑ ।
अप्रा॑युभिर्य॒ज्ञेभि॑र्वावृ॒धेन्य॑म् ॥१८॥
एतो॒ न्विन्द्रं॒ स्तवा॑म॒ सखा॑यः॒ स्तोम्यं॒ नर॑म् ।
कृ॒ष्टीर्यो विश्वा॑ अ॒भ्यस्त्येक॒ इत् ॥१९॥
अगो॑रुधाय ग॒विषे॑ द्यु॒क्षाय॒ दस्म्यं॒ वचः॑ ।
घृ॒तात्स्वादी॑यो॒ मधु॑नश्च वोचत ॥२०॥
यस्यामि॑तानि वी॒र्या॒३ न राधः॒ पर्ये॑तवे ।
ज्योति॒र्न विश्व॑म॒भ्यस्ति॒ दक्षि॑णा ॥२१॥
स्तु॒हीन्द्रं॑ व्यश्व॒वदनू॑र्मिं वा॒जिनं॒ यम॑म् ।
अ॒र्यो गयं॒ मंह॑मानं॒ वि दा॒शुषे॑ ॥२२॥
ए॒वा नू॒नमुप॑ स्तुहि॒ वैय॑श्व दश॒मं नव॑म् ।
सुवि॑द्वांसं च॒र्कृत्यं॑ च॒रणी॑नाम् ॥२३॥
वेत्था॒ हि निॠ॑तीनां॒ वज्र॑हस्त परि॒वृज॑म् ।
अह॑रहः शु॒न्ध्युः प॑रि॒पदा॑मिव ॥२४॥
तदि॒न्द्राव॒ आ भ॑र॒ येना॑ दंसिष्ठ॒ कृत्व॑ने ।
द्वि॒ता कुत्सा॑य शिश्नथो॒ नि चो॑दय ॥२५॥
तमु॑ त्वा नू॒नमी॑महे॒ नव्यं॑ दंसिष्ठ॒ सन्य॑से ।
स त्वं नो॒ विश्वा॑ अ॒भिमा॑तीः स॒क्षणिः॑ ॥२६॥
य ऋक्षा॒दंह॑सो मु॒चद्यो वार्या॑त्स॒प्त सिन्धु॑षु ।
वध॑र्दा॒सस्य॑ तुविनृम्ण नीनमः ॥२७॥
यथा॑ वरो सु॒षाम्णे॑ स॒निभ्य॒ आव॑हो र॒यिम् ।
व्य॑श्वेभ्यः सुभगे वाजिनीवति ॥२८॥
आ ना॒र्यस्य॒ दक्षि॑णा॒ व्य॑श्वाँ एतु सो॒मिनः॑ ।
स्थू॒रं च॒ राधः॑ श॒तव॑त्स॒हस्र॑वत् ॥२९॥
यत्त्वा॑ पृ॒च्छादी॑जा॒नः कु॑ह॒या कु॑हयाकृते ।
ए॒षो अप॑श्रितो व॒लो गो॑म॒तीमव॑ तिष्ठति ॥३०॥
Previous
सूक्त २३
Next
सूक्त २५