सूक्त १८
ऋग्वेदः / संहिता / शाकल / मण्डल ८ / सूक्त १८
Script
Translation
Previous
सूक्त १७
Next
सूक्त १९
२२ इरिम्बिष्ठिः काण्वः ।आदित्याः ;४,६,७, अदितिः; ८ अश्विनौ; ९ अग्निसूर्यानिला ः । उष्णिक् ।
इ॒दं ह॑ नू॒नमे॑षां सु॒म्नं भि॑क्षेत॒ मर्त्यः॑ ।
आ॒दि॒त्याना॒मपू॑र्व्यं॒ सवी॑मनि ॥१॥
अ॒न॒र्वाणो॒ ह्ये॑षां॒ पन्था॑ आदि॒त्याना॑म् ।
अद॑ब्धाः॒ सन्ति॑ पा॒यवः॑ सुगे॒वृधः॑ ॥२॥
तत्सु नः॑ सवि॒ता भगो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
शर्म॑ यच्छन्तु स॒प्रथो॒ यदीम॑हे ॥३॥
दे॒वेभि॑र्देव्यदि॒तेऽरि॑ष्टभर्म॒न्ना ग॑हि ।
स्मत्सू॒रिभिः॑ पुरुप्रिये सु॒शर्म॑भिः ॥४॥
ते हि पु॒त्रासो॒ अदि॑तेर्वि॒दुर्द्वेषां॑सि॒ योत॑वे ।
अं॒होश्चि॑दुरु॒चक्र॑योऽने॒हसः॑ ॥५॥
अदि॑तिर्नो॒ दिवा॑ प॒शुमदि॑ति॒र्नक्त॒मद्व॑याः ।
अदि॑तिः पा॒त्वंह॑सः स॒दावृ॑धा ॥६॥
उ॒त स्या नो॒ दिवा॑ म॒तिरदि॑तिरू॒त्या ग॑मत् ।
सा शंता॑ति॒ मय॑स्कर॒दप॒ स्रिधः॑ ॥७॥
उ॒त त्या दैव्या॑ भि॒षजा॒ शं नः॑ करतो अ॒श्विना॑ ।
यु॒यु॒याता॑मि॒तो रपो॒ अप॒ स्रिधः॑ ॥८॥
शम॒ग्निर॒ग्निभिः॑ कर॒च्छं न॑स्तपतु॒ सूर्यः॑ ।
शं वातो॑ वात्वर॒पा अप॒ स्रिधः॑ ॥९॥
अपामी॑वा॒मप॒ स्रिध॒मप॑ सेधत दुर्म॒तिम् ।
आदि॑त्यासो यु॒योत॑ना नो॒ अंह॑सः ॥१०॥
यु॒योता॒ शरु॑म॒स्मदाँ आदि॑त्यास उ॒ताम॑तिम् ।
ऋध॒ग्द्वेषः॑ कृणुत विश्ववेदसः ॥११॥
तत्सु नः॒ शर्म॑ यच्छ॒ताऽऽदि॑त्या॒ यन्मुमो॑चति ।
एन॑स्वन्तं चि॒देन॑सः सुदानवः ॥१२॥
यो नः॒ कश्चि॒द्रिरि॑क्षति रक्ष॒स्त्वेन॒ मर्त्यः॑ ।
स्वैः ष एवै॑ रिरिषीष्ट॒ युर्जनः॑ ॥१३॥
समित्तम॒घम॑श्नवद्दुः॒शंसं॒ मर्त्यं॑ रि॒पुम् ।
यो अ॑स्म॒त्रा दु॒र्हणा॑वाँ॒ उप॑ द्व॒युः ॥१४॥
पा॒क॒त्रा स्थ॑न देवा हृ॒त्सु जा॑नीथ॒ मर्त्य॑म् ।
उप॑ द्व॒युं चाद्व॑युं च वसवः ॥१५॥
आ शर्म॒ पर्व॑ताना॒मोतापां वृ॑णीमहे ।
द्यावा॑क्षामा॒रे अ॒स्मद्रप॑स्कृतम् ॥१६॥
ते नो॑ भ॒द्रेण॒ शर्म॑णा यु॒ष्माकं॑ ना॒वा व॑सवः ।
अति॒ विश्वा॑नि दुरि॒ता पि॑पर्तन ॥१७॥
तु॒चे तना॑य॒ तत्सु नो॒ द्राघी॑य॒ आयु॑र्जी॒वसे॑ ।
आदि॑त्यासः सुमहसः कृ॒णोत॑न ॥१८॥
य॒ज्ञो ही॒ळो वो॒ अन्त॑र॒ आदि॑त्या॒ अस्ति॑ मृ॒ळत॑ ।
यु॒ष्मे इद्वो॒ अपि॑ ष्मसि सजा॒त्ये॑ ॥१९॥
बृ॒हद्वरू॑थं म॒रुतां॑ दे॒वं त्रा॒तार॑म॒श्विना॑ ।
मि॒त्रमी॑महे॒ वरु॑णं स्व॒स्तये॑ ॥२०॥
अ॒ने॒हो मि॑त्रार्यमन्नृ॒वद्व॑रुण॒ शंस्य॑म् ।
त्रि॒वरू॑थं मरुतो यन्त नश्छ॒र्दिः ॥२१॥
ये चि॒द्धि मृ॒त्युब॑न्धव॒ आदि॑त्या॒ मन॑वः॒ स्मसि॑ ।
प्र सू न॒ आयु॑र्जी॒वसे॑ तिरेतन ॥२२॥
Previous
सूक्त १७
Next
सूक्त १९