सूक्त १७
ऋग्वेदः / संहिता / शाकल / मण्डल ८ / सूक्त १७
Script
Translation
Previous
सूक्त १६
Next
सूक्त १८
१५ इरिम्बिष्ठिः काण्वः ।इन्द्रः ; १४ वास्तोष्पतिर्वा । गायत्री , प्रगाथः= (१४ बृहती , १५ सतोबृहती ) ।
आ या॑हि सुषु॒मा हि त॒ इन्द्र॒ सोमं॒ पिबा॑ इ॒मम् ।
एदं ब॒र्हिः स॑दो॒ मम॑ ॥१॥
आ त्वा॑ ब्रह्म॒युजा॒ हरी॒ वह॑तामिन्द्र के॒शिना॑ ।
उप॒ ब्रह्मा॑णि नः शृणु ॥२॥
ब्र॒ह्माण॑स्त्वा व॒यं यु॒जा सो॑म॒पामि॑न्द्र सो॒मिनः॑ ।
सु॒ताव॑न्तो हवामहे ॥३॥
आ नो॑ याहि सु॒ताव॑तो॒ऽस्माकं॑ सुष्टु॒तीरुप॑ ।
पिबा॒ सु शि॑प्रि॒न्नन्ध॑सः ॥४॥
आ ते॑ सिञ्चामि कु॒क्ष्योरनु॒ गात्रा॒ वि धा॑वतु ।
गृ॒भा॒य जि॒ह्वया॒ मधु॑ ॥५॥
स्वा॒दुष्टे॑ अस्तु सं॒सुदे॒ मधु॑मान्त॒न्वे॒३ तव॑ ।
सोमः॒ शम॑स्तु ते हृ॒दे ॥६॥
अ॒यमु॑ त्वा विचर्षणे॒ जनी॑रिवा॒भि संवृ॑तः ।
प्र सोम॑ इन्द्र सर्पतु ॥७॥
तु॒वि॒ग्रीवो॑ व॒पोद॑रः सुबा॒हुरन्ध॑सो॒ मदे॑ ।
इन्द्रो॑ वृ॒त्राणि॑ जिघ्नते ॥८॥
इन्द्र॒ प्रेहि॑ पु॒रस्त्वं विश्व॒स्येशा॑न॒ ओज॑सा ।
वृ॒त्राणि॑ वृत्रहञ्जहि ॥९॥
दी॒र्घस्ते॑ अस्त्वङ्कु॒शो येना॒ वसु॑ प्र॒यच्छ॑सि ।
यज॑मानाय सुन्व॒ते ॥१०॥
अ॒यं त॑ इन्द्र॒ सोमो॒ निपू॑तो॒ अधि॑ ब॒र्हिषि॑ ।
एही॑म॒स्य द्रवा॒ पिब॑ ॥११॥
शाचि॑गो॒ शाचि॑पूजना॒ऽयं रणा॑य ते सु॒तः ।
आख॑ण्डल॒ प्र हू॑यसे ॥१२॥
यस्ते॑ शृङ्गवृषो नपा॒त्प्रण॑पात्कुण्ड॒पाय्यः॑ ।
न्य॑स्मिन्दध्र॒ आ मनः॑ ॥१३॥
वास्तो॑ष्पते ध्रु॒वा स्थूणांऽस॑त्रं सो॒म्याना॑म् ।
द्र॒प्सो भे॒त्ता पु॒रां शश्व॑तीना॒मिन्द्रो॒ मुनी॑नां॒ सखा॑ ॥१४॥
पृदा॑कुसानुर्यज॒तो ग॒वेष॑ण॒ एकः॒ सन्न॒भि भूय॑सः ।
भूर्णि॒मश्वं॑ नयत्तु॒जा पु॒रो गृ॒भेन्द्रं॒ सोम॑स्य पी॒तये॑ ॥१५॥
Previous
सूक्त १६
Next
सूक्त १८