सूक्त ४३
ऋग्वेदः / संहिता / शाकल / मण्डल ६ / सूक्त ४३
Script
Translation
Previous
सूक्त ४२
Next
सूक्त ४४
४ बार्हस्पत्यो भरद्वाजः । इन्द्रः ।उष्णिक् ।
यस्य॒ त्यच्छम्ब॑रं॒ मदे॒ दिवो॑दासाय र॒न्धयः॑ ।
अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥१॥
यस्य॑ तीव्र॒सुतं॒ मदं॒ मध्य॒मन्तं॑ च॒ रक्ष॑से ।
अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥२॥
यस्य॒ गा अ॒न्तरश्म॑नो॒ मदे॑ दृ॒ळ्हा अ॒वासृ॑जः ।
अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥३॥
यस्य॑ मन्दा॒नो अन्ध॑सो॒ माघो॑नं दधि॒षे शवः॑ ।
अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥४॥
Previous
सूक्त ४२
Next
सूक्त ४४