सूक्त ४२
ऋग्वेदः / संहिता / शाकल / मण्डल ६ / सूक्त ४२
Script
Translation
Previous
सूक्त ४१
Next
सूक्त ४३
४ बार्हस्पत्यो भरद्वाजः । इन्द्रः । अनुष्टुप्, ४ बृहती ।
प्रत्य॑स्मै॒ पिपी॑षते॒ विश्वा॑नि वि॒दुषे॑ भर ।
अ॒रं॒ग॒माय॒ जग्म॒येऽप॑श्चाद्दघ्वने॒ नरे॑ ॥१॥
एमे॑नं प्र॒त्येत॑न॒ सोमे॑भिः सोम॒पात॑मम् ।
अम॑त्रेभिर्ॠजी॒षिण॒मिन्द्रं॑ सु॒तेभि॒रिन्दु॑भिः ॥२॥
यदी॑ सु॒तेभि॒रिन्दु॑भिः॒ सोमे॑भिः प्रति॒भूष॑थ ।
वेदा॒ विश्व॑स्य॒ मेधि॑रो धृ॒षत्तंत॒मिदेष॑ते ॥३॥
अ॒स्माअ॑स्मा॒ इदन्ध॒सोऽध्व॑र्यो॒ प्र भ॑रा सु॒तम् ।
कु॒वित्स॑मस्य॒ जेन्य॑स्य॒ शर्ध॑तो॒ऽभिश॑स्तेरव॒स्पर॑त् ॥४॥
Previous
सूक्त ४१
Next
सूक्त ४३