सूक्त ६७
ऋग्वेदः / संहिता / शाकल / मण्डल ५ / सूक्त ६७
Script
Translation
Previous
सूक्त ६६
Next
सूक्त ६८
५ यजत आत्रेयः । मित्रावरुणौ । अनुष्टुप् ।
बळि॒त्था दे॑व निष्कृ॒तमादि॑त्या यज॒तं बृ॒हत् ।
वरु॑ण॒ मित्रार्य॑म॒न् वर्षि॑ष्ठं क्ष॒त्रमा॑शाथे ॥१॥
आ यद् योनिं॑ हिर॒ण्ययं॒ वरु॑ण॒ मित्र॒ सद॑थः ।
ध॒र्तारा॑ चर्षणी॒नां य॒न्तं सु॒म्नं रि॑शादसा ॥२॥
विश्वे॒ हि वि॒श्ववे॑दसो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।
व्र॒ता प॒देव॑ सश्चिरे॒ पान्ति॒ मर्त्यं॑ रि॒षः ॥३॥
ते हि स॒त्या ऋ॑त॒स्पृश॑ ऋ॒तावा॑नो॒ जने॑जने ।
सु॒नी॒थासः॑ सु॒दान॑वों॒ऽहोश्चि॑दुरु॒चक्र॑यः ॥४॥
को नु वां॑ मि॒त्रास्तु॑तो॒ वरु॑णो वा त॒नूना॑म् ।
तत् सु वा॒मेष॑ते म॒तिरत्रि॑भ्य॒ एष॑ते म॒तिः ॥५॥
Previous
सूक्त ६६
Next
सूक्त ६८