सूक्त ६६
ऋग्वेदः / संहिता / शाकल / मण्डल ५ / सूक्त ६६
Script
Translation
Previous
सूक्त ६५
Next
सूक्त ६७
६ रातहव्य आत्रेयः । मित्रावरुणौ । अनुष्टुप् ।
आ चि॑कितान सु॒क्रतू॑ दे॒वौ म॑र्त रि॒शाद॑सा ।
वरु॑णाय ऋ॒तपे॑शसे दधी॒त प्रय॑से म॒हे ॥१॥
ता हि क्ष॒त्रमवि॑ह्रुतं स॒म्यग॑सु॒र्य१माशा॑ते ।
अध॑ व्र॒तेव॒ मानु॑षं॒ स्व१र्ण धा॑यि दर्श॒तम् ॥२॥
ता वा॒मेषे॒ रथा॑नामु॒र्वीं गव्यू॑तिमेषाम् ।
रा॒तह॑व्यस्य सुष्टु॒तिं द॒धृक् स्तोमै॑र्मनामहे ॥३॥
अधा॒ हि काव्या॑ यु॒वं दक्ष॑स्य पू॒र्भिर॑द्भुता ।
नि के॒तुना॒ जना॑नां चि॒केथे॑ पूतदक्षसा ॥४॥
तदृ॒तं पृ॑थिवि बृ॒हच्छ्र॑वए॒ष ऋषी॑णाम् ।
ज्र॒य॒सा॒नावरं॑ पृ॒थ्वति॑ क्षरन्ति॒ याम॑भिः ॥५॥
आ यद् वा॑मीयचक्षसा॒ मित्र॑ व॒यं च॑ सू॒रयः॑ ।
व्यचि॑ष्ठे बहु॒पाय्ये॒ यते॑महि स्व॒राज्ये॑ ॥६॥
Previous
सूक्त ६५
Next
सूक्त ६७