सूक्त १५

ऋग्वेदः / संहिता / शाकल / मण्डल ५ / सूक्त १५

Back to Veda

Script

Translation

५ धरुण अङ्गिरसः । अग्निः । त्रिष्टुप् ।
प्र वे॒धसे॑ क॒वये॒ वेद्या॑य॒ गिरं॑ भरे य॒शसे॑ पू॒र्व्याय॑ । घृ॒तप्र॑सत्तो॒ असु॑रः सु॒शेवो॑ रा॒यो ध॒र्ता ध॒रुणो॒ वस्वो॑ अ॒ग्निः ॥१॥
ऋ॒तेन॑ ऋ॒तं ध॒रुणं॑ धारयन्त य॒ज्ञस्य॑ शा॒के प॑र॒मे व्यो॑मन् । दि॒वो धर्म॑न् ध॒रुणे॑ से॒दुषो॒ नॄञ्जा॒तैरजा॑ताँ अ॒भि ये न॑न॒क्षुः ॥२॥
अं॒हो॒युव॑स्त॒न्व॑स्तन्वते॒ वि वयो॑ म॒हद् दु॒ष्टरं॑ पू॒र्व्याय॑ । स सं॒वतो॒ नव॑जातस्तुतुर्यात् सिं॒हं न क्रु॒द्धम॒भितः॒ परि॑ ष्ठुः ॥३॥
मा॒तेव॒ यद् भर॑से पप्रथा॒नो जनं॑जनं॒ धाय॑से॒ चक्ष॑से च । वयो॑वयो जरसे॒ यद्दधा॑नः॒ परि॒ त्मना॒ विषु॑रूपो जिगासि ॥४॥
वाजो॒ नु ते॒ शव॑सस्पा॒त्वन्त॑मु॒रुं दोघं॑ ध॒रुणं॑ देव रा॒यः । प॒दं न ता॒युर्गुहा॒ दधा॑नो म॒हो रा॒ये चि॒तय॒न्नत्रि॑मस्पः ॥५॥