सूक्त १४
ऋग्वेदः / संहिता / शाकल / मण्डल ५ / सूक्त १४
Script
Translation
Previous
सूक्त १३
Next
सूक्त १५
६ सुतंभर आत्रेयः । अग्निः । गायत्री ।
अ॒ग्निं स्तोमे॑न बोधय समिधा॒नो अम॑र्त्यम् ।
ह॒व्या दे॒वेषु॑ नो दधत् ॥१॥
तम॑ध्व॒रेष्वी॑ळते दे॒वं मर्ता॒ अम॑र्त्यम् ।
यजि॑ष्ठं॒ मानु॑षे॒ जने॑ ॥२॥
तं हि शश्व॑न्त॒ ईळ॑ते स्रु॒चा दे॒वं घृ॑त॒श्चुता॑ ।
अ॒ग्निं ह॒व्याय॒ वोळह॑वे ॥३॥
अ॒ग्निर्जा॒तो अ॑रोचत॒ घ्नन् दस्यू॒ञ्ज्योति॑षा॒ तमः॑ ।
अवि॑न्द॒द् गा अ॒पः स्वः॑ ॥४॥
अ॒ग्निमी॒ळेन्यं॑ क॒विं घृ॒तपृ॑ष्ठं सपर्यत ।
वेतु॑ मे शृ॒णव॒द्धव॑म् ॥५॥
अ॒ग्निं घृ॒तेन॑ वावृधुः॒ स्तोमे॑भिर्वि॒श्वच॑र्षणिम् ।
स्वा॒धीभि॑र्वच॒स्युभिः॑ ॥६॥
Previous
सूक्त १३
Next
सूक्त १५