सूक्त ९
ऋग्वेदः / संहिता / शाकल / मण्डल ४ / सूक्त ९
Script
Translation
Previous
सूक्त ८
Next
सूक्त १०
८ वामदेवो गौतमः । अग्निः ।गायत्री ।
अग्ने॑ मृ॒ळ म॒हाँ अ॑सि॒ य ई॒मा दे॑व॒युं जन॑म् ।
इ॒येथ॑ ब॒र्हिरा॒सद॑म् ॥१॥
स मानु॑षीषु दू॒ळभो॑ वि॒क्षु प्रा॒वीरम॑र्त्यः ।
दू॒तो विश्वे॑षां भुवत् ॥२॥
स सद्म॒ परि॑ णीयते॒ होता॑ म॒न्द्रो दिवि॑ष्टिषु ।
उ॒त पोता॒ नि षी॑दति ॥३॥
उ॒त ग्ना अ॒ग्निर॑ध्व॒र उ॒तो गृ॒हप॑ति॒र्दमे॑ ।
उ॒त ब्र॒ह्मा नि षी॑दति ॥४॥
वेषि॒ ह्य॑ध्वरीय॒तामु॑पव॒क्ता जना॑नाम् ।
ह॒व्या च॒ मानु॑षाणाम् ॥५॥
वेषीद्व॑स्य दू॒त्यं१ यस्य॒ जुजो॑षो अध्व॒रम् ।
ह॒व्यं मर्त॑स्य॒ वोळह॑वे ॥६॥
अ॒स्माकं॑ जोष्यध्व॒रम॒स्माकं॑ य॒ज्ञम॑ङ्गिरः ।
अ॒स्माकं॑ शृणुधी॒ हव॑म् ॥७॥
परि॑ ते दू॒ळभो॒ रथो॒ऽस्माँ अ॑श्नोतु वि॒श्वतः॑ ।
येन॒ रक्ष॑सि दा॒शुषः॑ ॥८॥
Previous
सूक्त ८
Next
सूक्त १०