सूक्त १०
ऋग्वेदः / संहिता / शाकल / मण्डल ४ / सूक्त १०
Script
Translation
Previous
सूक्त ९
Next
सूक्त ११
८ वामदेवो गौतमः । अग्निः । पादपंक्तिः, ४, ६, ७, उष्णिग्वा, ५ महापदपंक्तिः, ८ त्रिष्टुप् ।
अग्ने॒ तम॒द्याऽश्वं॒ न स्तोमैः॒ क्रतुं॒ न भ॒द्रं हृ॑दि॒स्पृश॑म् ।
ऋ॒ध्यामा॑ त॒ ओहैः॑ ॥१॥
अधा॒ ह्य॑ग्ने॒ क्रतो॑र्भ॒द्रस्य॒ दक्ष॑स्य सा॒धोः ।
र॒थीर्ऋ॒तस्य॑ बृह॒तो ब॒भूथ॑ ॥२॥
ए॒भिर्नो॑ अ॒र्कैर्भवा॑ नो अ॒र्वाङ्स्व१र्ण ज्योतिः॑ ।
अग्ने॒ विश्वे॑भिः सु॒मना॒ अनी॑कैः ॥३॥
आ॒भिष्टे॑ अ॒द्य गी॒र्भिर्गृ॒णन्तोऽग्ने॒ दाशे॑म ।
प्र ते॑ दि॒वो न स्त॑नयन्ति॒ शुष्माः॑ ॥४॥
तव॒ स्वादि॒ष्ठा ऽग्ने॒ संदृ॑ष्टिरि॒दा चि॒दह्न॑ इ॒दा चि॑द॒क्तोः ।
श्रि॒ये रु॒क्मो न रो॑चत उपा॒के ॥५॥
घृ॒तं न पू॒तं त॒नूर॑रे॒पाः शुचि॒ हिर॑ण्यम् ।
तत् ते॑ रु॒क्मो न रो॑चत स्वधावः ॥६॥
कृ॒तं चि॒द्धि ष्मा॒ सने॑मि॒ द्वेषोऽग्न॑ इ॒नोषि॒ मर्ता॑त् ।
इ॒त्था यज॑मानादृतावः ॥७॥
शि॒वा नः॑ स॒ख्या सन्तु॑ भ्रा॒त्रा ऽग्ने॑ दे॒वेषु॑ यु॒ष्मे ।
सा नो॒ नाभिः॒ सद॑ने॒ सस्मि॒न्नूध॑न् ॥८॥
Previous
सूक्त ९
Next
सूक्त ११