सूक्त ४२
ऋग्वेदः / संहिता / शाकल / मण्डल ३ / सूक्त ४२
Script
Translation
Previous
सूक्त ४१
Next
सूक्त ४३
९ गाथिनो विश्वामित्रः । इन्द्रः । गायत्री ।
उप॑ नः सु॒तमा ग॑हि॒ सोम॑मिन्द्र॒ गवा॑शिरम् ।
हरि॑भ्यां॒ यस्ते॑ अस्म॒युः ॥ १॥
तमि॑न्द्र॒ मद॒मा ग॑हि बर्हिः॒ष्ठां ग्राव॑भिः सु॒तम् ।
कु॒विन्न्व॑स्य तृ॒प्णवः॑ ॥२॥
इन्द्र॑मि॒त्था गिरो॒ ममाच्छा॑गुरिषि॒ता इ॒तः ।
आ॒वृते॒ सोम॑पीतये ॥३॥
इन्द्रं॒ सोम॑स्य पी॒तये॒ स्तोमै॑रि॒ह ह॑वामहे ।
उ॒क्थेभिः॑ कु॒विदा॒गम॑त् ॥४॥
इन्द्र॒ सोमाः॑ सु॒ता इ॒मे तान् द॑धिष्व शतक्रतो ।
ज॒ठरे॑ वाजिनीवसो ॥५॥
वि॒द्मा हि त्वा॑ धनंज॒यं वाजे॑षु दधृ॒षं क॑वे ।
अधा॑ ते सु॒म्नमी॑महे ॥६॥
इ॒ममि॑न्द्र॒ गवा॑शिरं॒ यवा॑शिरं च नः पिब ।
आ॒गत्या॒ वृष॑भिः सु॒तम् ॥७॥
तुभ्येदि॑न्द्र॒ स्व ओ॒क्ये॒३ सोमं॑ चोदामि पी॒तये॑ ।
ए॒ष रा॑रन्तु ते हृ॒दि ॥८॥
त्वां सु॒तस्य॑ पी॒तये॑ प्र॒त्नमि॑न्द्र हवामहे ।
कु॒शि॒कासो॑ अव॒स्यवः॑ ॥९॥
Previous
सूक्त ४१
Next
सूक्त ४३