सूक्त ४१
ऋग्वेदः / संहिता / शाकल / मण्डल ३ / सूक्त ४१
Script
Translation
Previous
सूक्त ४०
Next
सूक्त ४२
९ गाथिनो विश्वामित्रः । इन्द्रः । गायत्री ।
आ तू न॑ इन्द्र म॒द्र्य॑ग्घुवा॒नः सोम॑पीतये ।
हरि॑भ्यां याह्यद्रिवः ॥१॥
स॒त्तो होता॑ न ऋ॒त्विय॑स्तिस्ति॒रे ब॒र्हिरा॑नु॒षक् ।
अयु॑ज्रन्प्रा॒तरद्र॑यः ॥२॥
इ॒मा ब्रह्म॑ ब्रह्मवाहः क्रि॒यन्त॒ आ ब॒र्हिः सी॑द ।
वी॒हि शू॑र पुरो॒ळाश॑म् ॥३॥
रा॒र॒न्धि सव॑नेषु ण ए॒षु स्तोमे॑षु वृत्रहन् ।
उ॒क्थेष्वि॑न्द्र गिर्वणः ॥४॥
म॒तयः॑ सोम॒पामु॒रुं रि॒हन्ति॒ शव॑स॒स्पति॑म् ।
इन्द्रं॑ व॒त्सं न मा॒तरः॑ ॥५॥
स म॑न्दस्वा॒ ह्यन्ध॑सो॒ राध॑से त॒न्वा॑ म॒हे ।
न स्तो॒तारं॑ नि॒दे क॑रः ॥६॥
व॒यमि॑न्द्र त्वा॒यवो॑ ह॒विष्म॑न्तो जरामहे ।
उ॒त त्वम॑स्म॒युर्व॑सो ॥७॥
मारे अ॒स्मद् वि मु॑मुचो॒ हरि॑प्रिया॒र्वाङ् या॑हि ।
इन्द्र॑ स्वधावो॒ मत्स्वे॒ह ॥८॥
अ॒र्वाञ्चं॑ त्वा सु॒खे रथे॒ वह॑तामिन्द्र के॒शिना॑ ।
घृ॒तस्नू॑ ब॒र्हिरा॒सदे॑ ॥९॥
Previous
सूक्त ४०
Next
सूक्त ४२