सूक्त २५

ऋग्वेदः / संहिता / शाकल / मण्डल ३ / सूक्त २५

Back to Veda

Script

Translation

५ गाथिनो विश्वामित्रः । अग्निः, ४ अग्नीन्द्रौ । विराट् ।
अग्ने॑ दि॒वः सू॒नुर॑सि॒ प्रचे॑ता॒स्तना॑ पृथि॒व्या उ॒त वि॒श्ववे॑दाः । ऋध॑ग्दे॒वाँ इ॒ह य॑जा चिकित्वः ॥१॥
अ॒ग्निः स॑नोति वी॒र्या॑णि वि॒द्वान् त्स॒नोति॒ वाज॑म॒मृता॑य॒ भूष॑न् । स नो॑ दे॒वाँ एह व॑हा पुरुक्षो ॥२॥
अ॒ग्निर्द्यावा॑पृथि॒वी वि॒श्वज॑न्ये॒ आ भा॑ति दे॒वी अ॒मृते॒ अमू॑रः । क्षय॒न् वाजैः॑ पुरुश्च॒न्द्रो नमो॑भिः ॥३॥
अग्न॒ इन्द्र॑श्च दा॒शुषो॑ दुरो॒णे सु॒ताव॑तो य॒ज्ञमि॒होप॑ यातम् । अम॑र्धन्ता सोम॒पेया॑य देवा ॥४॥
अग्ने॑ अ॒पां समि॑ध्यसे दुरो॒णे नित्यः॑ सूनो सहसो जातवेदः । स॒धस्था॑नि म॒हय॑मान ऊ॒ती ॥५॥