सूक्त २४
ऋग्वेदः / संहिता / शाकल / मण्डल ३ / सूक्त २४
Script
Translation
Previous
सूक्त २३
Next
सूक्त २५
५ गाथिनो विश्वामित्रः । अग्निः । गायत्री, १ अनुष्टुप् ।
अग्ने॒ सह॑स्व॒ पृत॑ना अ॒भिमा॑ती॒रपा॑स्य ।
दु॒ष्टर॒स्तर॒न्नरा॑ती॒र्वर्चो॑ धा य॒ज्ञवा॑हसे ॥१॥
अग्न॑ इ॒ळा समि॑ध्यसे वी॒तिहो॑त्रो॒ अम॑र्त्यः ।
जु॒षस्व॒ सू नो॑ अध्व॒रम् ॥२॥
अग्ने॑ द्यु॒म्नेन॑ जागृवे॒ सह॑सः सूनवाहुत ।
एदं ब॒र्हिः स॑दो॒ मम॑ ॥३॥
अग्ने॒ विश्वे॑भिर॒ग्निभि॑र्दे॒वेभि॑र्महया॒ गिरः॑ ।
य॒ज्ञेषु॒ य उ॑ चा॒यवः॑ ॥४॥
अग्ने॒ दा दा॒शुषे॑ र॒यिं वी॒रव॑न्तं॒ परी॑णसम् ।
शि॒शी॒हि नः॑ सूनु॒मतः॑ ॥५॥
Previous
सूक्त २३
Next
सूक्त २५