सूक्त १८४

ऋग्वेदः / संहिता / शाकल / मण्डल १० / सूक्त १८४

Back to Veda

Script

Translation

३ त्वष्टा गर्भकर्ता, विष्णुर्वाप्राजापत्यः । १ विष्णु-त्वष्ट्ट-प्रजापति-धातारः, २ सिनीवाली- सरस्वत्यश्विनः, ३ अश्विनौ । अनुष्टुप् ।
विष्णु॒र्योनिं॑ कल्पयतु॒ त्वष्टा॑ रू॒पाणि॑ पिंशतु । आ सि॑ञ्चतु प्र॒जाप॑तिर्धा॒ता गर्भं॑ दधातु ते ॥१॥
गर्भं॑ धेहि सिनीवालि॒ गर्भं॑ धेहि सरस्वति । गर्भं॑ ते अ॒श्विनौ॑ दे॒वावा ध॑त्तां॒ पुष्क॑रस्रजा ॥२॥
हि॒र॒ण्ययी॑ अ॒रणी॒ यं नि॒र्मन्थ॑तो अ॒श्विना॑ । तं त॒त गर्भं॑ हवामहे दश॒मे मा॒सि सूत॑वे ॥३॥