सूक्त १८३
ऋग्वेदः / संहिता / शाकल / मण्डल १० / सूक्त १८३
Script
Translation
Previous
सूक्त १८२
Next
सूक्त १८४
३ प्रजावान् प्राजापत्यः । १ यजमानः, २ यजमानपत्नी, ३ होत्राशिवः । त्रिष्टुप् ।
अप॑श्यं त्वा॒ मन॑सा॒ चेकि॑तानं॒ तप॑सो जा॒तं तप॑सो॒ विभू॑तम् ।
इ॒ह प्र॒जामि॒ह र॒यिं ररा॑णः॒ प्र जा॑यस्व प्र॒जया॑ पुत्रकाम ॥१॥
अप॑श्यं त्वा॒ मन॑सा॒ दीध्या॑नां॒ स्वायां॑ त॒नू ऋत्व्ये॒ नाध॑मानाम् ।
उप॒ मामु॒च्चा यु॑व॒तिर्ब॑भूयाः॒ प्र जा॑यस्व प्र॒जया॑ पुत्रकामे ॥२॥
अ॒हं गर्भ॑मदधा॒मोष॑धीष्व॒हं विश्वे॑षु॒ भुव॑नेष्व॒न्तः ।
अ॒हं प्र॒जा अ॑जनयं पृथि॒व्याम॒हं जनि॑भ्यो अप॒रीषु॑ पु॒त्रान् ॥३॥
Previous
सूक्त १८२
Next
सूक्त १८४