सूक्त १७२

ऋग्वेदः / संहिता / शाकल / मण्डल १० / सूक्त १७२

Back to Veda

Script

Translation

४ संवर्त आंगिरसः । उषाः । द्विपदा विराट् ।
आ या॑हि॒ वन॑सा स॒ह गावः॑ सचन्त वर्त॒निं यदूध॑भिः । १ आ या॑हि॒ वस्व्या॑ धि॒या मंहि॑ष्ठो जार॒यन्म॑खः सु॒दानु॑भिः ॥१॥
२ पि॒तु॒भृतो॒ न तन्तु॒मित्सु॒दान॑वः॒ प्रति॑ दध्मो॒ यजा॑मसि । ३ उ॒षा अप॒ स्वसु॒स्तमः॒ सं व॑र्तयति वर्त॒निं सु॑जा॒तता॑ ॥२॥