सूक्त १७१
ऋग्वेदः / संहिता / शाकल / मण्डल १० / सूक्त १७१
Script
Translation
Previous
सूक्त १७०
Next
सूक्त १७२
४ इटो भार्गवः । इन्द्रः । गायत्री ।
त्वं त्यमि॒टतो॒ रथ॒मिन्द्र॒ प्रावः॑ सु॒ताव॑तः ।
अशृ॑णोः सो॒मिनो॒ हव॑म् ॥१॥
त्वं म॒खस्य॒ दोध॑तः॒ शिरोऽव॑ त्व॒चो भ॑रः ।
अग॑च्छः सो॒मिनो॑ गृ॒हम् ॥२॥
त्वं त्यमि॑न्द्र॒ मर्त्य॑मास्त्रबु॒ध्नाय॑ वे॒न्यम् ।
मुहुः॑ श्रथ्ना मन॒स्यवे॑ ॥३॥
त्वं त्यमि॑न्द्र॒ सूर्यं॑ प॒श्चा सन्तं॑ पु॒रस्कृ॑धि ।
दे॒वानां॑ चित्ति॒रो वश॑म् ॥४॥
Previous
सूक्त १७०
Next
सूक्त १७२