सूक्त १५८
ऋग्वेदः / संहिता / शाकल / मण्डल १० / सूक्त १५८
Script
Translation
Previous
सूक्त १५७
Next
सूक्त १५९
५ चक्षुः सौर्यः । सूर्यः । गायत्री, २ स्वराट् ।
सूर्यो॑ नो दि॒वस्पा॑तु॒ वातो॑ अ॒न्तरि॑क्षात् ।
अ॒ग्निर्नः॒ पार्थि॑वेभ्यः ॥१॥
जोषा॑ सवित॒र्यस्य॑ ते॒ हरः॑ श॒तं स॒वाँ अर्ह॑ति ।
पा॒हि नो॑ दि॒द्युतः॒ पत॑न्त्याः ॥२॥
चक्षु॑र्नो दे॒वः स॑वि॒ता चक्षु॑र्न उ॒त पर्व॑तः ।
चक्षु॑र्धा॒ता द॑धातु नः ॥३॥
चक्षु॑र्नो धेहि॒ चक्षु॑षे॒ चक्षु॑र्वि॒ख्यै त॒नूभ्यः॑ ।
सं चे॒दं वि च॑ पश्येम ॥४॥
सु॒सं॒दृशं॑ त्वा व॒यं प्रति॑ पश्येम सूर्य ।
वि प॑श्येम नृ॒चक्ष॑सः ॥५॥
Previous
सूक्त १५७
Next
सूक्त १५९