सूक्त १५७

ऋग्वेदः / संहिता / शाकल / मण्डल १० / सूक्त १५७

Back to Veda

Script

Translation

५ भुवन आप्त्यः, साधनो वा भौवनः ।विश्वेदेवाः । द्विपदा त्रिष्टुप् ।
इ॒मा नु कं॒ भुव॑ना सीषधा॒मेन्द्र॑श्च॒ विश्वे॑ च दे॒वाः ॥१ य॒ज्ञं च॑ नस्त॒न्वं॑ च प्र॒जां चा॑ऽऽदि॒त्यैरिन्द्रः॑ स॒ह ची॑कॢपाति ॥१॥
२ आ॒दि॒त्यैरिन्द्रः॒ सग॑णो म॒रुद्भि॑र॒स्माकं॑ भूत्ववि॒ता त॒नूना॑म् ॥३ ह॒त्वाय॑ दे॒वा असु॑रा॒न्यदाय॑न्दे॒वा दे॑व॒त्वम॑भि॒रक्ष॑माणाः ॥२॥
४ प्र॒त्यञ्च॑म॒र्कम॑नय॒ञ्छची॑भि॒रादित्स्व॒धामि॑षि॒रां पर्य॑पश्यन् ॥३॥