Saundarya Lahari

Script

Translation

॥ सौंदर्य लहरी ॥
॥ प्रथमः भागः - आनंदलहरी (१-४१) ॥
भूमौ स्खलितपादानां भूमिरेवावलम्बनं । त्वयि जातापराधानां त्वमेव शरणं शिवे ॥
शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि । अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥१॥
तनीयांसं पांसुं तव चरणपङ्केरुहभवं विरिञ्चिस्सञ्चिन्वन् विरचयति लोकानविकलम् । वहत्येनं शौरिः कथमपि सहस्रेण शिरसां हरस्संक्षुद्यैनं भजति भसितोद्धूळनविधिम् ॥२॥
अविद्यानामन्तस्तिमिरमिहिरद्वीपनगरी जडानां चैतन्यस्तबकमकरन्दस्रुतिझरी । दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवति ॥३॥
त्वदन्यः पाणिभ्याम् अभयवरदो दैवतगणः त्वमेका नैवासि प्रकटितवराभीत्यभिनया । भयात् त्रातुं दातुं फलमपि च वाञ्छासमधिकं शरण्ये लोकानां तव हि चरणावेव निपुणौ ॥४॥
हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत् । स्मरोऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा मुनीनामप्यन्तः प्रभवति हि मोहाय महताम् ॥५॥
धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखाः वसन्तः सामन्तो मलयमरुदायोधनरथः । तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपाम् अपाङ्गात्ते लब्ध्वा जगदिदमनङ्गो विजयते ॥६॥
क्वणत्काञ्चीदामा करिकलभकुम्भस्तननता परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना । धनुर्बाणान् पाशं सृणिमपि दधाना करतलैः पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका ॥७॥
सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृते मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे । शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम् ॥८॥
महीं मूलाधारे कमपि मणिपूरे हुतवहं स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि । मनोऽपि भ्रूमध्ये सकलमपि भित्वा कुलपथं सहस्रारे पद्मे सह रहसि पत्या विहरसे ॥९॥
सुधाधारासारैः चरणयुगळान्तर्विगळितैः प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः । अवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥१०॥
चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि प्रभिन्नाभिः शम्भोर्नवभिरपि मूलप्रकृतिभिः । चतुश्चत्वारिंशद्वसुदळकळाश्रत्रिवलय त्रिरेखाभिः सार्धं तव शरणकोणाः परिणताः ॥११॥
त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं कवीन्द्राः कल्पन्ते कथमपि विरिञ्चिप्रभृतयः । यदालोकौत्सुक्यात् अमरललना यान्ति मनसा तपोभिर्दुष्प्रापाम् अपि गिरिशसायुज्यपदवीम् ॥१२॥
नरं वर्षीयांसं नयनविरसं नर्मसु जडं तवापाङ्गालोके पतितमनुधावन्ति शतशः । गळद्वेणीबन्धाः कुचकलशविस्रस्तसिचया हठात् त्रुट्यत्काञ्च्यो विगळितदुकूला युवतयः ॥१३॥
क्षितौ षट्पञ्चाशद् द्विसमधिकपञ्चाशदुदके हुताशे द्वाषष्टिश्चतुरधिकपञ्चाशदनिले । दिवि द्विष्षट्त्रिंशन्मनसि च चतुष्षष्टिरिति ये मयूखास्तेषामप्युपरि तव पादाम्बुजयुगम् ॥१४॥
शरज्ज्योत्स्नाशुद्धां शशियुतजटाजूटमकुटां वरत्रासत्राणस्फटिकघटिकापुस्तककराम् । सकृन्न त्वा नत्वा कथमिव सतां सन्निदधते मधुक्षीरद्राक्षामधुरिमधुरीणाः फणितयः ॥१५॥
कवीन्द्राणां चेतःकमलवनबालातपरुचिं भजन्ते ये सन्तः कतिचिदरुणामेव भवतीम् । विरिञ्चिप्रेयस्यास्तरुणतरशृङ्गारलहरी गभीराभिर्वाग्भिर्विदधति सतां रञ्जनममी ॥१६॥
सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभिः वशिन्याद्याभिस्त्वां सह जननि संचिन्तयति यः । स कर्ता काव्यानां भवति महतां भङ्गिरुचिभिः वचोभिर्वाग्देवीवदनकमलामोदमधुरैः ॥१७॥
तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभिः दिवं सर्वामुर्वीम् अरुणिमनिमग्नां स्मरति यः । भवन्त्यस्य त्रस्यद्वनहरिणशालीननयनाः सहोर्वश्या वश्याः कति कति न गीर्वाणगणिकाः ॥१८॥
मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकळाम् । स सद्यः संक्षोभं नयति वनिता इत्यतिलघु त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम् ॥१९॥
किरन्तीमङ्गेभ्यः किरणनिकुरम्बामृतरसं हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः । स सर्पाणां दर्पं शमयति शकुन्ताधिप इव ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया ॥२०॥
तटिल्लेखातन्वीं तपनशशिवैश्वानरमयीं निषण्णां षण्णामप्युपरि कमलानां तव कळाम् । महापद्माटव्यां मृदितमलमायेन मनसा महान्तः पश्यन्तो दधति परमाह्लादलहरीम् ॥२१॥
भवानि त्वं दासे मयि वितर दृष्टिं सकरुणाम् इति स्तोतुं वाञ्छन् कथयति भवानि त्वमिति यः । तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं मुकुन्दब्रह्मेन्द्रस्फुटमकुटनीराजितपदाम् ॥२२॥
त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा शरीरार्धं शम्भोरपरमपि शङ्के हृतमभूत् । यदेतत्त्वद्रूपं सकलमरुणाभं त्रिनयनं कुचाभ्यामानम्रं कुटिलशशिचूडालमकुटम् ॥२३॥
जगत्सूते धाता हरिरवति रुद्रः क्षपयते तिरस्कुर्वन्नेतत् स्वमपि वपुरीशस्तिरयति । सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिवः तवाज्ञामालम्ब्य क्षणचलितयोर्भ्रूलतिकयोः ॥२४॥
त्रयाणां देवानां त्रिगुणजनितानां तव शिवे भवेत् पूजा पूजा तव चरणयोर्या विरचिता । तथा हि त्वत्पादोद्वहनमणिपीठस्य निकटे स्थिता ह्येते शश्वन् मुकुळितकरोत्तंसमकुटाः ॥२५॥
विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिं विनाशं कीनाशो भजति धनदो याति निधनम् । वितन्द्री माहेन्द्री विततिरपि संमीलितदृशा महासंहारेऽस्मिन् विहरति सति त्वत्पतिरसौ ॥२६॥
जपो जल्पः शिल्पं सकलमपि मुद्राविरचना गतिः प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः । प्रणामस्संवेशः सुखमखिलमात्मार्पणदृशा सपर्यापर्यायस्तव भवतु यन्मे विलसितम् ॥२७॥
सुधामप्यास्वाद्य प्रतिभयजरामृत्युहरिणीं विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः । कराळं यत्क्ष्वेळं कबळितवतः कालकलना न शम्भोस्तन्मूलं तव जननि ताटङ्कमहिमा ॥२८॥
किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः कठोरे कोटीरे स्खलसि जहि जम्भारिमकुटम् । प्रणम्रेष्वेतेषु प्रसभमुपयातस्य भवनं भवस्याभ्युत्थाने तव परिजनोक्तिर्विजयते ॥२९॥
स्वदेहोद्भूताभिर्घृणिभिरणिमाद्याभिरभितो निषेव्ये नित्ये त्वाम् अहमिति सदा भावयति यः । किमाश्चर्यं तस्य त्रिनयनसमृद्धिं तृणयतो महासंवर्ताग्निर्विरचयति निराजनविधिम् ॥३०॥
चतुष्षष्ट्या तन्त्रैः सकलमतिसंधाय भुवनं स्थितस्तत्तत्सिद्धिप्रसवपरतन्त्रैः पशुपतिः । पुनस्त्वन्निर्बन्धात् अखिलपुरुषार्थैकघटना स्वतन्त्रं ते तन्त्रं क्षितितलमवातीतरदिदम् ॥३१॥
शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरणः स्मरो हंसः शक्रस्तदनु च परामारहरयः । अमी हृल्लेखाभिस्तिसृभिरवसानेषु घटिता भजन्ते वर्णास्ते तव जननि नामावयवताम् ॥३२॥
स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनो र्निधायैके नित्ये निरवधिमहाभोगरसिकाः । भजन्ति त्वां चिन्तामणिगुननिबद्धाक्षवलयाः शिवाग्नौ जुह्वन्तः सुरभिघृतधाराहुतिशतैः ॥३३॥
शरीरं त्वं शम्भोः शशिमिहिरवक्षोरुहयुगं तवात्मानं मन्ये भगवति नवात्मानमनघम् । अतश्शेषश्शेषीत्ययमुभयसाधारणतया स्थितः संबन्धो वां समरसपरानन्दपरयोः ॥३४॥
मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि त्वमापस्त्वं भूमिः त्वयि परिणतायां न हि परम् । त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा चिदानन्दाकारं शिवयुवति भावेन बिभृषे ॥३५॥
तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरं परं शम्भुं वन्दे परिमिळितपार्श्वं परचिता । यमाराध्यन् भक्त्या रविशशिशुचीनामविषये निरालोकेऽलोके निवसति हि भालोकभुवने ॥३६॥
विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं शिवं सेवे देवीम् अपि शिवसमानव्यवसिताम् । ययोः कान्त्या यान्त्याः शशिकिरणसारूप्यसरणे विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती ॥३७॥
समुन्मीलत् संवित् कमलमकरन्दैकरसिकं भजे हंसद्वन्द्वं किमपि महतां मानसचरम् । यदालापादष्टादशगुणितविद्यापरिणतिः यदादत्ते दोषाद् गुणमखिलमद्भ्यः पय इव ॥३८॥
तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं तमीडे संवर्तं जननि महतीं तां च समयाम् । यदालोके लोकान् दहति महति क्रोधकलिते दयार्द्रा या दृष्टिः शिशिरमुपचारं रचयति ॥३९॥
तटित्त्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम् । तव श्यामं मेघं कमपि मणिपूरैकशरणं निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम् ॥४०॥
तवाधारे मूले सह समयया लास्यपरया नवात्मानं मन्ये नवरसमहाताण्डवनटम् । उभाभ्यामेताभ्याम् उदयविधिमुद्दिश्य दयया सनाथाभ्यां जज्ञे जनकजननीमज्जगदिदम् ॥४१॥
॥ द्वितीयो भागः - सौन्दर्यलहरी (४०-१००) ॥
गतैर्माणिक्यत्वं गगनमणिभिः सान्द्रघटितं किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः । स नीडेयच्छायाच्छुरणशबलं चन्द्रशकलं धनुः शौनासीरं किमिति न निबध्नाति धिषणाम् ॥४२॥
धुनोतु ध्वान्तं नः तुळितदळितेन्दीवरवनं घनस्निग्धश्लक्ष्णं चिकुरनिकुरुम्बं तव शिवे । यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो वसन्त्यस्मिन् मन्ये वलमथनवाटीविटपिनाम् ॥४३॥
तनोतु क्षेमं नः तव वदनसौन्दर्यलहरी परीवाहस्रोतः सरणिरिव सीमन्तसरणिः । वहन्ती सिन्दूरं प्रबलकबरीभारतिमिर द्विषां बृन्दैर्बन्दीकृतमिव नवीनार्ककिरणम् ॥४४॥
अराळैः स्वाभाव्यत् अळिकलभसश्रीभिरलकैः परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम् । दरस्मेरे यस्मिन् दशनरुचिकिञ्जल्करुचिरे सुगन्धौ माद्यन्ति स्मरदहनचक्षुर्मधुलिहः ॥४५॥
ललाटं लावण्यद्युतिविमलमाभाति तव यत् द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम् । विपर्यासन्यासात् उभयमपि संभूय च मिथः सुधालेपस्यूतिः परिणमति राकाहिमकरः ॥४६॥
भ्रुवौ भुग्ने किंचिद्भुवनभयभङ्गव्यसनिनि त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम् । धनुर्मन्ये सव्येतरकरगृहीतं रतिपतेः प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमुमे ॥४७॥
अहः सूते सव्यं तव नयनमर्कात्मकतया त्रियामां वामं ते सृजति रजनीनायकतया । तृतीया ते दृष्टिः दरदळितहेमाम्बुजरुचिः समाधत्ते संध्यां दिवसनिशयोरन्तरचरीम् ॥४८॥
विशाला कळ्याणी स्फुटरुचिरयोध्या कुवलयैः कृपाधाराधारा किमपि मधुराभोगवतिका । अवन्ती दृष्टिस्ते बहुनगरविस्तारविजया ध्रुवं तत्तन्नामव्यवहरणयोग्या विजयते ॥४९॥
कवीनां संदर्भस्तबकमकरन्दैकरसिकं कटाक्षव्याक्षेपभ्रमरकलभौ कर्णयुगळम् । अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वादतरळौ असूयासंसर्गात् अळिकनयनं किंचिदरुणम् ॥५०॥
शिवे शृङ्गारार्द्रा तदितरजने कुत्सनपरा सरोषा गङ्गायां गिरिशचरिते विस्मयवती । हराहिभ्यो भीता सरसिरुहसौभाग्यजयिनी सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा ॥५१॥
गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती पुरां भेत्तुश्चित्तप्रशमरसविद्रावणफले । इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके तवाकर्णाकृष्टस्मरशरविलासं कलयतः ॥५२॥
विभक्तत्रैवर्ण्यं व्यतिकरितलीलाञ्जनतया विभाति त्वन्नेत्रत्रितयमिदमीशानदयिते । पुनः स्रष्टुं देवान् द्रुहिणहरिरुद्रानुपरतान् रजः सत्त्वं बिभ्रत्तम इति गुणानां त्रयमिव ॥५३॥
पवित्रीकर्तुं नः पशुपतिपराधीनहृदये दयामित्रैर्नेत्रैररुणधवळश्यामरुचिभिः । नदः शोणो गङ्गा तपनतनयेति ध्रुवममुं त्रयाणां तीर्थानाम् उपनयसि संभेदमनघम् ॥५४॥
निमेषोन्मेषाभ्यां प्रळयमुदयं याति जगती तवेत्याहुः सन्तो धरणिधरराजन्यतनये । त्वदुन्मेषाज्जातं जगदिदमशेषं प्रळयतः परित्रातुं शङ्के परिहृतनिमेषास्तव दृशः ॥५५॥
तवापर्णे कर्णे जपनयनपैशुन्यचकिता निलीयन्ते तोये नियतमनिमेषाः शफरिकाः । इयं च श्रीर्बद्धच्छदपुटकवाटं कुवलयम् जहाति प्रत्यूषे निशि च विघटय्य प्रविशति ॥५६॥
दृशा द्राघीयस्या दरदळितनीलोत्पलरुचा दवीयांसं दीनं स्नपय कृपया मामपि शिवे । अनेनायं धन्यो भवति न च ते हानिरियता वने वा हर्म्ये वा समकरनिपातो हिमकरः ॥५७॥
अराळं ते पाळीयुगळमगराजन्यतनये न केषामाधत्ते कुसुमशरकोदण्डकुतुकम् । तिरश्चीनो यत्र श्रवणपथमुल्लङ्घ्य विलसन् अपाङ्गव्यासङ्गो दिशति शरसंधानधिषणाम् ॥५८॥
स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगळं चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम् । यमारुह्य द्रुह्यत्यवनिरथमर्केन्दुचरणं महावीरो मारः प्रमथपतये सज्जितवते ॥५९॥
सरस्वत्याः सूक्तीरमृतलहरीकौशलहरीः पिबन्त्याः शर्वाणि श्रवणचुलुकाभ्यामविरळम् । चमत्कारश्लाघाचलितशिरसः कुण्डलगणो झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते ॥६०॥
असौ नासावंशस्तुहिनगिरिवंशध्वजपटि त्वदीयो नेदीयः फलतु फलमस्माकमुचितम् । वहन्नन्तर्मुक्ताः शिशिरतरनिश्वासगळितं समृद्ध्या यत्तासां बहिरपि स मुक्तामणिधरः ॥६१॥
प्रकृत्या रक्तायास्तव सुदति दन्तच्छदरुचेः प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता । न बिम्बं तद्बिम्बप्रतिफलनरागादरुणितं तुलामध्यारोढुं कथमिव न लज्जेत कलया ॥६२॥
स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां चकोराणामासीत् अतिरसतया चञ्चुजडिमा । अतस्ते शीतांशोरमृतलहरीमाम्लरुचयः पिबन्ति स्वच्छन्दं निशि निशि भृशं काञ्चिकधिया ॥६३॥
अविश्रान्तं पत्युर्गुणगणकथाम्रेडनजपा जपापुष्पच्छाया तव जननि जिह्वा जयति सा । यदग्रासीनायाः स्फटिकदृषदच्छच्छविमयी सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ॥६४॥
रणे जित्वा दैत्यान् अपहृतशिरस्त्रैः कवचिभिः निवृत्तैश्चण्डांशत्रिपुरहरनिर्माल्यविमुखैः । विशाखेन्द्रोपेन्द्रैः शशिविशदकर्पूरशकला विलीयन्ते मातस्तव वदनताम्बूलकबलाः ॥६५॥
विपञ्च्या गायन्ती विविधमपदानं पशुपतेः त्वयारब्धे वक्तुं चलितशिरसा साधुवचने । तदीयैर्माधुर्यैरपलपिततन्त्रीकलरवां निजां वीणां वाणी निचुळयति चोळेन निभृतम् ॥६६॥
कराग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया गिरीशेनोदस्तं मुहुरधरपानाकुलतया । करग्राह्यं शम्भोर्मुखमुकुरवृन्तं गिरिसुते कथङ्कारं ब्रूमस्तव चुबुकमौपम्यरहितम् ॥६७॥
भुजाश्लेषान् नित्यं पुरदमयितुः कण्टकवती तव ग्रीवा धत्ते मुखकमलनाळश्रियमियम् । स्वतः श्वेता कालागुरुबहुळजम्बालमलिना मृणाळीलालित्यम् वहति यदधो हारलतिका ॥६८॥
गळे रेखास्तिस्रो गतिगमकगीतैकनिपुणे विवाहव्यानद्धप्रगुणगुणसंख्याप्रतिभुवः । विराजन्ते नानाविधमधुररागाकरभुवां त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते ॥६९॥
मृणाळीमृद्वीनां तव भुजलतानां चतसृणां चतुर्भिः सौन्दर्यं सरसिजभवः स्तौति वदनैः । नखेभ्यः सन्त्रस्यन् प्रथममथनादन्धकरिपोः चतुर्णां शीर्षाणां सममभयहस्तार्पणधिया ॥७०॥
नखानामुद्द्योतैर्नवनळिनरागं विहसतां कराणां ते कान्तिं कथय कथयामः कथमुमे । कयाचिद्वा साम्यं भजतु कलया हन्त कमलं यदि क्रीडल्लक्ष्मीचरणतललाक्षारसचणम् ॥७१॥
समं देवि स्कन्दद्विपवदनपीतं स्तनयुगं तवेदं नः खेदं हरतु सततं प्रस्नुतमुखम् । यदालोक्याशङ्काकुलितहृदयो हासजनकः स्वकुम्भौ हेरम्बः परिमृशति हस्तेन झटिति ॥७२॥
अमू ते वक्षोजावमृतरसमाणिक्यकुतुपौ न संदेहस्पन्दो नगपतिपताके मनसि नः । पिबन्तौ तौ यस्मात् अविदितवधूसङ्गरसिकौ कुमारावद्यापि द्विरदवदनक्रौञ्चदळनौ ॥७३॥
वहत्यम्ब स्तम्बेरमदनुजकुम्भप्रकृतिभिः समारब्धां मुक्तामणिभिरमलां हारलतिकाम् । कुचाभोगो बिम्बाधररुचिभिरन्तः शबलितां प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव ते ॥७४॥
तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः पयःपारावारः परिवहति सारस्वतमिव । दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव यत् कवीनां प्रौढानाम् अजनि कमनीयः कवयिता ॥७५॥
हरक्रोधज्वालावळिभिरवलीढेन वपुषा गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः । समुत्तस्थौ तस्मात् अचलतनये धूमलतिका जनस्तां जानीते तव जननि रोमावळिरिति ॥७६॥
यदेतत् काळिन्दीतनुतरतरङ्गाकृति शिवे कृशे मध्ये किंचित् जननि तव यद्भाति सुधियाम् । विमर्दादन्योऽन्यं कुचकलशयोरन्तरगतं तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम् ॥७७॥
स्थिरो गङ्गावर्तः स्तनमुकुळरोमावळिलता कलावालं कुण्डं कुसुमशरतेजोहुतभुजः । रतेर्लीलागारं किमपि तव नाभिर्गिरिसुते बिलद्वारं सिद्धेर्गिरिशनयनानां विजयते ॥७८॥
निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो नमन्मूर्तेनारीतिलक शनकैस्त्रुट्यत इव । चिरं ते मध्यस्य त्रुटिततटिनीतीरतरुणा समावस्थास्थेम्नो भवतु कुशलं शैलतनये ॥७९॥
कुचौ सद्यःस्विद्यत्तटघटितकूर्पासभिदुरौ कषन्तौ दोर्मूले कनककलशाभौ कलयता । तव त्रातुं भङ्गादलमिति वलग्नं तनुभुवा त्रिधा नद्धं देवि त्रिवळिलवळीवल्लिभिरिव ॥८०॥
गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजात् नितम्बादाच्छिद्य त्वयि हरणरूपेण निदधे । अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं नितम्बप्राग्भारः स्थगयति लघुत्वं नयति च ॥८१॥
करीन्द्राणां शुण्डान् कनककदळीकाण्डपटलीम् उभाभ्यामूरुभ्याम् उभयमपि निर्जित्य भवती । सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते विधिज्ञे जानुभ्यां विबुधकरिकुम्भद्वयमसि ॥८२॥
पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते निषङ्गौ जङ्घे ते विषमविशिखो बाढमकृत । यदग्रे दृश्यन्ते दशशरफलाः पादयुगळी नखाग्रच्छद्मानः सुरमकुटशाणैकनिशिताः ॥८३॥
श्रुतीनां मूर्धानो दधति तव यौ शेखरतया ममाप्येतौ मातः शिरसि दयया धेहि चरणौ । ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी ययोर्लाक्षालक्ष्मीररुणहरिचूडामणिरुचिः ॥८४॥
नमोवाकं ब्रूमो नयनरमणीयाय पदयोः तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते । असूयत्यत्यन्तं यदभिहननाय स्पृहयते पशूनामीशानः प्रमदवनकङ्केळितरवे ॥८५॥
मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितं ललाटे भर्तारं चरणकमले ताडयति ते । चिरादन्तःशल्यं दहनकृतमुन्मूलितवता तुलाकोटिक्वाणैः किलिकिलितमीशानरिपुणा ॥८६॥
हिमानीहन्तव्यं हिमगिरिनिवासैकचतुरौ निशायां निद्राणं निशि चरमभागे च विशदौ । वरं लक्ष्मीपात्रं श्रियमतिसृजन्तौ समयिनां सरोजं त्वत्पादौ जननि जयतश्चित्रमिह किम् ॥८७॥
पदं ते कीर्तीनां प्रपदमपदं देवि विपदां कथं नीतं सद्भिः कठिनकमठीकर्परतुलाम् । कथं वा बाहुभ्याम् उपयमनकाले पुरभिदा यदादाय न्यस्तं दृषदि दयमानेन मनसा ॥८८॥
नखैर्नाकस्त्रीणां करकमलसंकोचशशिभिः तरूणां दिव्यानां हसत इव ते चण्डि चरणौ । फलानि स्वःस्थेभ्यः किसलयकराग्रेण ददतां दरिद्रेभ्यो भद्रां श्रियमनिशमह्नाय ददतौ ॥८९॥
ददाने दीनेभ्यः श्रियमनिशमाशानुसदृशीम् अमन्दं सौन्दर्यप्रकरमकरन्दम् विकिरति । तवास्मिन् मन्दारस्तबकसुभगे यातु चरणे निमज्जन्मज्जीवः करणचरणैः षट्चरणताम् ॥९०॥
पदन्यासक्रीडापरिचयमिवारब्धुमनसः स्खलन्तस्ते खेलं भवनकलहंसा न जहति । अतस्तेषां शिक्षां सुभगमणिमञ्जीररणित च्छलादाचक्षाणं चरणकमलं चारुचरिते ॥९१॥
गतास्ते मञ्चत्वं द्रुहिणहरिरुद्रेश्वरभृतः शिवः स्वच्छच्छायाघटितकपटप्रच्छदपटः । त्वदीयानां भासां प्रतिफलनरागारुणतया शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम् ॥९२॥
अराळा केशेषु प्रकृतिसरळा मन्दहसिते शिरीषाभा चित्ते दृषदुपलशोभा कुचतटे । भृशं तन्वी मध्ये पृथुरुरसिजारोहविषये जगत्त्रातुं शम्भोर्जयति करुणा काचिदरुणा ॥९३॥
कळङ्कः कस्तूरी रजनिकरबिम्बं जलमयं कळाभिः कर्पूरैर्मरकतकरण्डं निबिडितम् । अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरम् विधिर्भूयो भूयो निबिडयति नूनं तव कृते ॥९४॥
पुरारातेरन्तःपुरमसि ततस्त्वच्चरणयोः सपर्यामर्यादा तरळकरणानामसुलभा । तथा ह्येते नीताः शतमखमुखाः सिद्धिमतुलां तव द्वारोपान्तस्थितिभिरणिमाद्याभिरमराः ॥९५॥
कळत्रं वैधात्रं कतिकति भजन्ते न कवयः श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः । महादेवं हित्वा तव सति सतीनामचरमे कुचाभ्यामासङ्गः कुरवकतरोरप्यसुलभः ॥९६॥
गिरामाहुर्देवीं द्रुहिणगृहिणीमागमविदो हरेः पत्नीं पद्मां हरसहचरीमद्रितनयाम् । तुरीया कापि त्वं दुरधिगमनिःसीममहिमा महामाया विश्वं भ्रमयसि परब्रह्ममहिषि ॥९७॥
कदा काले मातः कथय कलितालक्तकरसम् पिबेयं विद्यार्थी तव चरणनिर्णेजनजलम् । प्रकृत्या मूकानामपि च कविताकारणतया कदा धत्ते वाणीमुखकमलताम्बूलरसताम् ॥९८॥
सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते रतेः पातिव्रत्यं शिथिलयति रम्येण वपुषा । चिरं जीवन्नेव क्षपितपशुपाशव्यतिकरः परानन्दाभिख्यम् रसयति रसं त्वद्भजनवान् ॥९९॥
प्रदीपज्वालाभिः दिवसकरनीराजनविधिः सुधासूतेश्चन्द्रोपलजललवैरर्घ्यरचना । स्वकीयैरम्भोभिः सलिलनिधिसौहित्यकरणं त्वदीयाभिर्वाग्भिः तव जननि वाचां स्तुतिरियम् ॥१००॥
॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ सौन्दर्यलहरी समाप्ता ॥