सीतारसातलप्रवेशः
उत्तरकाण्डः / सीतारसातलप्रवेशः
Script
Translation
Previous
वाल्मीकिप्रत्ययदानम्
Next
रामकोपोपशमः
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे सीतारसातलप्रवेशः नाम सप्तनवतितमः सर्गः ॥७-९७॥
वाल्मीकिनैवमुक्तस्तु राघवः प्रत्यभाषत ।
प्राञ्जलिर्जगतो मध्ये दृष्ट्वा तां वरवर्णिनीम् ॥७-९७-१॥
एवमेतन्महाभाग यथा वदसि धर्मवित् ।
प्रत्ययस्तु मम ब्रह्मंस्तव वाक्यैरकल्मषैः ॥७-९७-२॥
प्रत्ययस्तु पुरा वृत्तो वैदेह्याः सुरसन्निधौ ।
शपथस्तु कृतस्तत्र तेन वेश्म प्रवेशिता ।
लोकापवादो बलवान्येन त्यक्ता हि मैथिली ॥७-९७-३॥
सेयं लोकभयाद्ब्रह्मन्नपापेत्यभिजानता ।
परित्यक्ता मया सीता तद्भावन्क्षन्तुमर्हति ॥७-९७-४॥
जानामि चेमौ पुत्रौ मे यमजातौ कुशीलवौ ।
शुद्धायां जगतो मध्ये मैथिल्यां प्रीतिरस्तु मे ॥७-९७-५॥
अभिप्रायं तु विज्ञाय रामस्य सुरसत्तमाः ।
सीतायाः शपथे तस्मिन् महेन्द्राद्या महौजसः ॥७-९७-६॥
पितामहं पुरस्कृत्य सर्व एव समागताः ॥७-९७-७॥
आदित्या वसवो रुद्रा ह्यश्विनौ समरुद्गणाः ।
गन्धर्वाप्सरसश्चैव सर्व एव समागताः ॥७-९७-८॥
साध्याश्च विश्वेदेवाश्च सर्वे च परमर्षयः ।
नागाः सुपर्णाः सिद्धाश्च ते सर्वे हृष्टमानसाः ।
सीताशपथसम्भ्रान्ताः सर्व एव समागताः ॥७-९७-९॥
दृष्ट्वा देवानृषींश्चैव राघवः पुनरब्रवीत् ।
प्रत्ययो मे नरश्रेष्ठा ऋषिवाक्यैरकल्मषैः ॥७-९७-१०॥
शुद्धायां जगतो मध्ये वैदेह्यां प्रीतिरस्तु मे ॥७-९७-११॥
ततो वायुः शुभः पुण्यो दिव्यगन्धो मनोरमः ।
तज्जनौघं सुरश्रेष्ठो ह्लादयामास सर्वतः ॥७-९७-१२॥
तदद्भुतमिवाचिन्त्यं निरैक्षन्त समागताः ।
मानवाः सर्वराष्ट्रेभ्यः पूर्वं कृतयुगे यथा ॥७-९७-१३॥
सर्वान्समागतान्दृष्ट्वा सीता काषायवासिनी ।
अब्रवीत्प्राञ्जलिर्वाक्यमधोदृष्टिरवाङ्मुखी ॥७-९७-१४॥
यथाऽहं राघवादन्यं मनसापि न चिन्तये ।
तथा मे माधवी देवी विवरं दातुमर्हति ॥७-९७-१५॥
मनसा कर्मणा वाचा यथा रामं समर्चये ।
तथा मे माधवी देवी विवरं दातुमर्हति ॥७-९७-१६॥
यथैतत्सत्यमुक्तं मे वेद्मि रामात्परं न च ।
तथा मे माधवी देवी विवरं दातुमर्हति ॥७-९७-१७॥
तथा शपन्त्यां वैदेह्यां प्रादुरासीत्तदद्भुतम् ।
भूतलादुत्थितं दिव्यं सिंहासनमनुत्तमम् ॥७-९७-१८॥
ध्रियमाणं शिरोभिस्तु नागैरमितविक्रमैः ।
दिव्यं दिव्येन वपुषा दिव्यरत्नविभूषितैः ॥७-९७-१९॥
तस्मिंस्तु धरणी देवी बाहुभ्यां गृह्य मैथिलीम् ।
स्वागतेनाभिनन्द्यैनामासने चोपवेशयत् ॥७-९७-२०॥
तामासनगतां दृष्ट्वा प्रविशन्तीं रसातलम् ।
पुष्पवृष्टिरविच्छिन्ना दिव्या सीतामवाकिरत् ॥७-९७-२१॥
साधुकारश्च सुमहान्देवानां सहसोत्थितः ।
साधु साध्विति वै सीते यस्यास्ते शीलमीदृशम् ॥७-९७-२२॥
एवं बहुविधा वाचो ह्यन्तरिक्षगताः सुराः ।
व्याजह्रुर्हृष्टमनसो दृष्ट्वा सीताप्रवेशनम् ॥७-९७-२३॥
यज्ञवाटगताश्चापि मुनयः सर्व एव ते ।
राजानश्च नरव्याघ्रा विस्मयान्नोपरेमिरे ॥७-९७-२४॥
अन्तरिक्षे च भूमौ च सर्वे स्थावरजङ्गमाः ।
दानवाश्च महाकायाः पाताले पन्नगाधिपाः ॥७-९७-२५॥
केचिद्विनेदुः संहृष्टाः केचिद्ध्यानपरायणाः ।
केचिद्रामं निरीक्षन्ते केचित्सीतामचेतनाः ॥७-९७-२६॥
सीताप्रवेशनं दृष्ट्वा तेषामासीत्समागमः ।
तन्मुहूर्तमिवात्यर्थं समं सम्मोहितं जगत् ॥७-९७-२७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सीतारसातलप्रवेशः नाम सप्तनवतितमः सर्गः ॥७-९७॥
Previous
वाल्मीकिप्रत्ययदानम्
Next
रामकोपोपशमः