वाल्मीकिप्रत्ययदानम्
उत्तरकाण्डः / वाल्मीकिप्रत्ययदानम्
Script
Translation
Previous
वाल्मीकिदूतप्रेषणम्
Next
सीतारसातलप्रवेशः
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे वाल्मीकिप्रत्ययदानम् नाम षण्णवतितमः सर्गः ॥७-९६॥
तस्यां रजन्यां व्युष्टायां यज्ञवाटगतो नृपः ।
ऋषीन्सर्वान्महातेजाः शब्दापयति राघवः ॥७-९६-१॥
वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ।
विश्वामित्रो दीर्घतपा दुर्वासाश्च महातपाः ॥७-९६-२॥
पुलस्त्योऽपि तथा शक्तिर्भार्गवश्चैव वामनः ।
मार्कण्डेयश्च दीर्घायुर्मौद्गल्यश्च महायशाः ॥७-९६-३॥
गर्गश्च च्यवनश्चैव शतानन्दश्च धर्मवित् ।
भरद्वाजश्च तेजस्वी ह्यग्निपुत्रश्च सुप्रभः ॥७-९६-४॥
नारदः पर्वतश्चैव गौतमश्च महायशाः ।
कात्यायनः सुयज्ञश्च ह्यगस्त्यस्तपसां निधिः ॥७-९६-५॥
एते चान्ये च बहवो मुनयः संशितव्रताः ।
कौतूहलसमाविष्टाः सर्व एव समागताः ॥७-९६-६॥
राक्षसाश्च महावीर्या वानराश्च महाबलाः ।
सर्व एव समाजग्मुर्महात्मानः कुतूहलात् ॥७-९६-७॥
क्षत्रिया ये च शूद्राश्च वैश्याश्चैव सहस्रशः ।
नानादेशगताश्चैव ब्राह्मणाः संशितव्रताः ॥७-९६-८॥
ज्ञाननिष्ठाः कर्मनिष्ठाः योगनिष्ठास्तथापरे ।
सीताशपथवीक्षार्थं सर्व एव समागताः ॥७-९६-९॥
तदा समागतं सर्वमश्मभूतमिवाचलम् ।
श्रुत्वा मुनिवरस्तूर्णं ससीतः समुपागमत् ॥७-९६-१०॥
तमृषिं पृष्ठतः सीता त्वन्वगच्छदवाङ्मुखी ।
कृताञ्जलिर्बाष्पगला कृत्वा रामं मनोगतम् ॥७-९६-११॥
दृष्ट्वा श्रुतिमिवायान्तीं ब्रह्माणमनुगामिनीम् ।
वाल्मीकेः पृष्ठतः सीतां साधुवादो महानभूत् ॥७-९६-१२॥
ततो हलहलाशब्दः सर्वेषामेवमाबभौ ।
दुःखजन्मविशालेन शोकेनाकुलितात्मनाम् ॥७-९६-१३॥
साधु रामेति केचित्तु साधु सीतेति चापरे ।
उभावेव च तत्रान्ये प्रेक्षकाः सम्प्रचुक्रुशुः ॥७-९६-१४॥
ततो मध्ये जनौघस्य प्रविश्य मुनिपुङ्गवः ।
सीतासहायो वाल्मीकिरिति होवाच राघवम् ॥७-९६-१५॥
इयं दाशरथे सीता सुव्रता धर्मचारिणी ।
अपवादैः परित्यक्ता ममाश्रमसमीपतः ॥७-९६-१६॥
लोकापवादभीतस्य तव राम महाव्रत ।
प्रत्ययं दास्यते सीता तदनुज्ञातुमर्हसि ॥७-९६-१७॥
इमौ तु जानकीपुत्रावुभौ च यमजातकौ ।
सुतौ तवैव दुर्धर्षौ सत्यमेतद्ब्रवीमि ते ॥७-९६-१८॥
प्रचेतसोऽहं दशमः पुत्रो राघवनन्दन ।
न स्मराम्यनृतं वाक्यमिमौ तु तव पुत्रकौ ॥७-९६-१९॥
बहुवर्षसहस्राणि तपश्चर्या मया कृता ।
नोपाश्नीयां फलं तस्या दुष्टेयं यदि मैथिली ॥७-९६-२०॥
मनसा कर्मणा वाचा भूतपूर्वं न किल्बिषम् ।
तस्याः फलमुपाश्नीयामपापा मैथिली यदि ॥७-९६-२१॥
अहं पञ्चसु भूतेषु मनष्षष्ठेषु राघव ।
विचिन्त्य सीतां शुद्धेति जग्राह वननिर्झरे ॥७-९६-२२॥
इयं शुद्धसमाचारा अपापा पतिदेवता ।
लोकापवादभीतस्य प्रत्ययं तव दास्यति ॥७-९६-२३॥
तस्मादियं नरवरात्मज शुद्धभावा दिव्येन दृष्टिविषयेण तदा प्रविष्टा ।
लोकापवादकलुषीकृतचेतसा या त्यक्ता त्वया प्रियतमा विदिताऽपि शुद्धा ॥७-९६-२४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे वाल्मीकिप्रत्ययदानम् नाम षण्णवतितमः सर्गः ॥७-९६॥
Previous
वाल्मीकिदूतप्रेषणम्
Next
सीतारसातलप्रवेशः