बुधसमागमः
उत्तरकाण्डः / बुधसमागमः
Script
Translation
Previous
इलस्त्रीत्वप्राप्तिः
Next
पुरूरवोजननम्
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे बुधसमागमः नाम अष्टाशीतितमः सर्गः ॥७-८८॥
तां कथामिलसम्बद्धां रामेण समुदीरिताम् ।
लक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ ॥७-८८-१॥
तौ रामं प्राञ्जली भूत्वा तस्य राज्ञो महात्मनः ।
विस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः ॥७-८८-२॥
कथं स राजा स्त्रीभूतो वर्तयामास दुर्गतिः ।
पुरुषः स यदा भूतः कां वृत्तिं वर्तयत्यसौ ॥७-८८-३॥
तयोस्तद्भाषितं श्रुत्वा कौतूहलसमन्वितम् ।
कथयामास काकुत्स्थस्तस्य राज्ञो यथागतम् ॥७-८८-४॥
तमेव प्रथमं मासं स्त्रीभूता लोकसुन्दरी ।
ताभिः परिवृता स्त्रीभिर्ये च पूर्वपदानुगाः ॥७-८८-५॥
तत्काननं विगाह्वाशु विजह्रे लोकसुन्दरी ।
द्रुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा ॥७-८८-६॥
वाहनानि च सर्वाणि सा त्यक्त्वा वै समन्ततः ।
पर्वताभोगविवरे तस्मिन्रेमे इला तदा ॥७-८८-७॥
अथ तस्मिन्वनोद्देशे पर्वतस्याविदूरतः ।
सरः सुरुचिरप्रख्यं नानापक्षिगणैर्युतम् ॥७-८८-८॥
ददर्श सा त्विला तस्मिन्बुधं सोमसुतं तदा ।
ज्वलन्तं स्वेन वपुषा पूर्णसोममिवोदितम् ॥७-८८-९॥
तपन्तं च तपस्तीव्रमम्भोमध्ये दुरासदम् ।
यशस्करं कामकरं कारुण्ये पर्यवस्थितम् ॥७-८८-१०॥
सा तं जलाशयं सर्वं क्षोभयामास विस्मिता ।
सहगैः पूर्वपुरुषैः स्त्रीभूतै रघुनन्दन ॥७-८८-११॥
बुधस्तु तां समीक्ष्यैव कामबाणवशं गतः ।
नोपलेभे तदाऽऽत्मानं सञ्चचाल तदाऽऽम्भसि ॥७-८८-१२॥
इलां निरीक्षमाणस्तु त्रैलोक्याभ्यधिकां शुभाम् ।
चिन्तां समभ्यतिक्रामत् का न्वियं देवताधिका ॥७-८८-१३॥
न देवीषु न नागीषु नासुरीष्वप्सरःसु च ।
दृष्टपूर्वा मया काचिद्रूपेणानेन शोभिता ॥७-८८-१४॥
सदृशीयं मम भवेद्यदि नान्यपरिग्रहः ।
इति बुद्धिं समास्थाय जलात्कूलमुपागमत् ॥७-८८-१५॥
आश्रमं समुपागम्य ततस्ताः प्रमदोत्तमाः ।
शब्दापयत धर्मात्मा ताश्चैनं च ववन्दिरे ॥७-८८-१६॥
स ताः पप्रच्छ धर्मात्मा कस्यैषा लोकसुन्दरी ।
किमर्थमागता चैव सर्वमाख्यात मा चिरम् ॥७-८८-१७॥
शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम् ।
श्रुत्वा स्त्रियश्च ताः सर्वा ऊचुर्मधुरया गिरा ॥७-८८-१८॥
अस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदा ।
अपतिः काननान्तेषु सहास्माभिश्चरत्यसौ ॥७-८८-१९॥
तद्वाक्यमव्यक्तपदं तासां स्त्रीणां निशम्य च ।
विद्यामावर्तनीं पुण्यामावर्तयत स द्विजः ॥७-८८-२०॥
सोऽर्थं विदित्वा सकलं तस्य राज्ञो यथागतम् ।
सर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुङ्गवः ॥७-८८-२१॥
अत्र किम्पुरुषीर्भूत्वा शैलरोधसि वत्स्यथ ।
आवासस्तु गिरावस्मिञ्छीघ्रमेव विधीयताम् ॥७-८८-२२॥
मूलपत्रफलैः सर्वा वर्तयिष्यथ नित्यदा ।
स्त्रियः किम्पुरुषान्नाम भर्तऽन्समुपलप्स्यथ ॥७-८८-२३॥
ताः श्रुत्वा सोमपुत्रस्य वाचं किम्पुरुषीकृताः ।
उपासाञ्चक्रिरे शैलं वध्वस्ता बहुलास्तदा ॥७-८८-२४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे बुधसमागमः नाम अष्टाशीतितमः सर्गः ॥७-८८॥
Previous
इलस्त्रीत्वप्राप्तिः
Next
पुरूरवोजननम्