इलस्त्रीत्वप्राप्तिः
उत्तरकाण्डः / इलस्त्रीत्वप्राप्तिः
Script
Translation
Previous
ब्रह्महत्यातरणम्
Next
बुधसमागमः
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे इलस्त्रीत्वप्राप्तिः नाम सप्ताशीतितमः सर्गः ॥७-८७॥
तच्छ्रुत्वा लक्ष्मणेनोक्तं वाक्यं वाक्यविशारदः ।
प्रत्युवाच महातेजाः प्रहसन्राघवो वचः ॥७-८७-१॥
एवमेव नरश्रेष्ठ यथा वदसि लक्ष्मण ।
वृत्रघातमशेषेण वाजिमेधफलं च यत् ॥७-८७-२॥
श्रूयते हि पुरा सौम्य कर्दमस्य प्रजापतेः ।
पुत्रो बाह्लीश्वरः श्रीमानिलो नाम महाशयाः ॥७-८७-३॥
स राजा पृथिवीं सर्वां वशे कृत्वा सुधार्मिकः ।
राज्यं चैव नरव्याघ्र पुत्रवत्पर्यपालयत् ॥७-८७-४॥
सुरैश्च परमोदारैर्दैतेयैश्च महाधनैः ।
नागराक्षसगन्धर्वैर्यक्षैश्च सुमहात्मभिः ॥७-८७-५॥
पूज्यते नित्यशः सौम्य भयार्तै रघुनन्दन ।
अबिभ्यंश्च त्रयो लोकाः सरोषस्य महात्मनः ॥७-८७-६॥
स राजा तादृशो ह्यासीद्धर्मे वीर्ये च निष्ठितः ।
बुद्ध्या च परमोदारो बाह्लीकेशो महायशाः ॥७-८७-७॥
स प्रचक्रे महाबाहुर्मृगयां रुचिरे वने ।
चैत्रे मनोरमे मासि सभृत्यबलवाहनः ॥७-८७-८॥
प्रजघ्ने च नृपोऽरण्ये मृगाञ्छतसहस्रशः ।
हत्वैव तृप्तिर्नाभूच्च राज्ञस्तस्य महात्मनः ॥७-८७-९॥
नानामृगाणामयुतं वध्यमानं महात्मना ।
यत्र जातो माहासेनस्तं देशमुपचक्रमे ॥७-८७-१०॥
तस्मिन्प्रदेशे देवेश शैलराजसुतां हरः ।
रमयामास दुर्धर्षः सर्वैरनुचरैः सह ॥७-८७-११॥
कृत्वा स्त्रीरूपमात्मानमुमेशो गोपतिध्वजः ।
देव्याः प्रियचिकीर्षुः संस्तस्मिन्पर्वतनिर्झरे ॥७-८७-१२॥
ये तु तत्र वनोद्देशे सत्त्वाः पुरुषवादिनः ।
वृक्षाः पुरुषनामानस्तेऽभवन् स्त्रीजनास्तदा ॥७-८७-१३॥
यच्च किञ्चन तत्सर्वं नारीसञ्ज्ञं बभूव ह ।
एतस्मिन्नन्तरे राजा स इलः कर्दमात्मजः ।
निघ्नन्मृगसहस्राणि तं देशमुपचक्रमे ॥७-८७-१४॥
स दृष्ट्वा स्त्रीकृतं सर्वं सव्यालमृगपक्षकम् ।
आत्मनं स्त्रीकृतं चैव सानुगं रघुनन्दन ॥७-८७-१५॥
तस्य दुःखं महच्चासीद्दृष्ट्वाऽऽत्मानं तथागतम् ।
उमापतेश्च तत्कर्म ज्ञात्वा त्रासमुपागमत् ॥७-८७-१६॥
ततो देवं महात्मानं शितिकण्ठं कपर्दिनम् ।
जगाम शरणं राजा सभृत्यबलवाहनः ॥७-८७-१७॥
ततः प्रहस्य वरदः सह देव्या महेश्वरः ।
प्रजापतिसुतं वाक्यमुवाच वरदः स्वयम् ॥७-८७-१८॥
उत्तिष्ठोत्तिष्ठ राजर्षे कार्दमेय महाबल ।
पुरुषत्वमृते सौम्य वरं वरय सुव्रत ॥७-८७-१९॥
ततः स राजा दुःखार्तः प्रत्याख्यातो महात्मना ।
न च जग्राह स्त्रीभूतो वरमन्यं सुरोत्तमात् ॥७-८७-२०॥
ततः शोकेन महता शैलराजसुतां नृपः ।
प्रणिपत्य ह्युमां देवीं सर्वेणैवान्तरात्मना ॥७-८७-२१॥
ईशे वराणां वरदे लोकानामसि भामिनी ।
अमोघदर्शने देवी भज सौम्येन चक्षुषा ॥७-८७-२२॥
हृद्गतं तस्य राजर्षेर्विज्ञाय हरसन्निधौ ।
प्रत्युवाच शुभं वाक्यं देवी रुद्रस्य संमता ॥७-८७-२३॥
अर्धस्य देवो वरदो वरार्धस्य तव ह्यहम् ।
तस्मादर्धं गृहाण त्वं स्त्रीपुंसोर्यावदिच्छसि ॥७-८७-२४॥
तदद्भुततरं श्रुत्वा देव्या वरमनुत्तमम् ।
सम्प्रहृष्टमना भूत्वा राजा वाक्यमथाब्रवीत् ॥७-८७-२५॥
यदि देवि प्रसन्ना मे रूपेणाप्रतिमा भुवि ।
मासं स्त्रीत्वमुपासित्वा मासं स्यां पुरुषः पुनः ॥७-८७-२६॥
ईप्सितं तस्य विज्ञाय देवी सुरुचिरानना ।
प्रत्युवाच शुभं वाक्यमेवमेव भविष्यति ॥७-८७-२७॥
राजन्पुरुषभूतस्त्वं स्त्रीभावं न स्मरिष्यसि ।
स्त्रीभूतश्च परं मासं न स्मरिष्यसि पौरुषम् ॥७-८७-२८॥
एवं स राजा पुरुषो मासं भूत्वाथ कार्दमिः ।
त्रैलोक्यसुन्दरी नारी मासमेकमिलाऽभवत् ॥७-८७-२९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे इलस्त्रीत्वप्राप्तिः नाम सप्ताशीतितमः सर्गः ॥७-८७॥
Previous
ब्रह्महत्यातरणम्
Next
बुधसमागमः