शत्रुघ्नप्रस्थानम्
उत्तरकाण्डः / शत्रुघ्नप्रस्थानम्
Script
Translation
Previous
लवणवधोपायकथनम्
Next
सौदासकथा
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे शत्रुघ्नप्रस्थानम् नाम चतुःषष्ठितमः सर्गः ॥७-६४॥
एवमुक्त्वा च काकुत्स्थं प्रशस्य च पुनः पुनः ।
पुनरेवापरं वाक्यमुवाच रघुनन्दनः ॥७-६४-१॥
इमान्यश्वसहस्राणि चत्वारि पुरुषर्षभ ।
रथानां द्वे सहस्रे च गजानां शतमुत्तमम् ॥७-६४-२॥
अन्तरा पणवीथ्यश्च नानापण्योपशोभिताः ।
अनुगच्छन्तु काकुत्स्थं तथैव नटनर्तकाः ॥७-६४-३॥
हिरण्यस्य सुवर्णस्य नियुतं पुरुषर्षभ ।
आदाय गच्छ शत्रुघ्न पर्याप्तधनवाहनः ॥७-६४-४॥
बलं च सुभृतं वीर हृष्टपुष्टमनुद्धतम् ।
सम्भाषासम्प्रदानेन रञ्जयस्व नगेत्तम ॥७-६४-५॥
न ह्यर्थास्तत्र तिष्ठन्ति न दारा न च बान्धवाः ।
सुप्रीतो भृत्यवर्गश्च यत्र तिष्ठसि राघव ॥७-६४-६॥
ततो हृष्टजनाकीर्णां प्रस्थाप्य महतीं चमूम् ।
एक एव धनुष्पाणिर्गच्छ त्वं मधुनो वनम् ॥७-६४-७॥
यथा त्वां न प्रजानाति गच्छन्तं युद्धकाङ्क्षिणम् ।
लवणस्तु मधोः पुत्रस्तथा गच्छेरशङ्कितम् ॥७-६४-८॥
न तस्य मूत्युरन्योऽस्ति कश्चिद्धि पुरुषर्षभ ।
दर्शनं योऽभिगच्छेत स वध्यो लवणेन हि ॥७-६४-९॥
स हि ग्रीष्मोऽपयाते तु वर्षारात्र उपागते ।
हन्यास्त्वं लवणं सौम्य सहि कालोऽस्य दुर्मतेः ॥७-६४-१०॥
महर्षींस्तु पुरत्कृत्य प्रयान्तु तव सौनिकाः ।
यथा ग्रीष्मावशेषेण तरेयुर्जाह्नवीजलम् ॥७-६४-११॥
तत्र स्थाप्य बलं सर्वं नदीतीरे समाहितः ।
अग्रतो धनुषा सार्धं गच्छ त्वं लघुविक्रमः ॥७-६४-१२॥
एवमुक्तस्तु रामेण शत्रुघ्नस्तान्महाबलान् ।
सेनामुख्यान्समानीय ततो वाक्यमुवाच ह ॥७-६४-१३॥
एते वो गणिता वासा यत्र तत्र निवत्स्यथ ।
स्थातव्यं चाविरोधेन यथा बाधा न कस्यचित् ॥७-६४-१४॥
तथा तांस्तु समाज्ञाप्य प्रस्थाप्य च महद्बलम् ।
कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत् ॥७-६४-१५॥
रामं प्रदक्षिणीकृत्य शिरसाऽभिप्रणम्य च ।
रामेण चाभ्यनुज्ञातः शत्रुघ्नः शत्रुतापनः ॥७-६४-१६॥
लक्ष्मणं भरतं चैव प्रणिपत्य कृताञ्जलिः ।
पुरोहितं वसिष्ठं च शत्रुघ्नः प्रयतात्मवान् ।
प्रदक्षिणमथो कृत्वा निर्जगाम महाबलः ॥७-६४-१७॥
प्रस्थाप्य सेनामथ सोऽग्रतस्तदा गजेन्द्रवाजिप्रवरौघसङ्कुलाम् ।
उपास मासं तु नरेन्द्रपार्श्वतस्त्वथ प्रयातो रघुवंशवर्धनः ॥७-६४-१८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे शत्रुघ्नप्रस्थानम् नाम चतुःषष्ठितमः सर्गः ॥७-६४॥
Previous
लवणवधोपायकथनम्
Next
सौदासकथा