लवणवधोपायकथनम्
उत्तरकाण्डः / लवणवधोपायकथनम्
Script
Translation
Previous
शत्रुघ्नप्रार्थना
Next
शत्रुघ्नप्रस्थानम्
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे लवणवधोपायकथनम् नाम त्रिषष्ठितमः सर्गः ॥७-६३॥
एवमुक्तस्तु रामेण परां व्रीडामुपागमत् ।
शत्रुघ्नो वीर्यसम्पन्नो मन्दं मन्दमुवाच ह ॥७-६३-१॥
अधर्मं विद्म काकुत्स्थ ह्यस्मिन्नर्थे नरेश्वर ।
कथं तिष्ठत्सु ज्येष्ठेषु कनीयानभिषिच्यते ॥७-६३-२॥
अवश्यं करणीयं च शासनं पुरुषर्षभ ।
तव चैव महाभाग शासनं दुरतिक्रमम् ॥७-६३-३॥
त्वत्तो मया श्रुतं वीर श्रुतिभ्यश्च मया श्रुतम् ।
नोत्तरं हि मया वाच्यं मध्यमे प्रतिजानति ॥७-६३-४॥
व्याहृतं दुर्वचो घोरं हन्तास्मि लवणं मृधे ।
तस्यैवं मे दुरुक्तस्य दुर्गतिः पुरुषर्षभ ॥७-६३-५॥
उत्तरं नहि वक्तव्यं ज्येष्ठेनाभिहिते पुनः ।
अधर्मसहितं चैव परलोकविवर्जितम् ॥७-६३-६॥
सोऽहं द्वितीयं काकुत्स्थ न वक्ष्यामि तवोत्तरम् ।
मा द्वितीयेन दण्डो वै निपतेन्मयि मानद ॥७-६३-७॥
कामकारो ह्यहं राजंस्तवास्मि पुरुषर्षभ ।
अधर्मं जहि काकुत्स्थ मत्कृते रघुनन्दन ॥७-६३-८॥
एवमुक्ते तु शूरेण शत्रुघ्नेन महात्मना ।
उवाच रामः संहृष्टो भरतं लक्ष्मणं तथा ॥७-६३-९॥
सम्भारानभिषेकस्य आनयध्वं समाहिताः ।
अद्यैव पुरुषव्याघ्रमभिषेक्ष्यामि राघवम् ॥७-६३-१०॥
पुरोहितं च काकुत्स्थं नैगमानृत्विजस्तथा ।
मन्त्रिणश्चैव तान्सर्वानानयध्वं ममाज्ञया ॥७-६३-११॥
राज्ञः शासनमाज्ञाय तथाऽकुर्वन्महारथाः ।
अभिषेकसमारम्भं पुरस्कृत्य पुरोधसम् ।
प्रविष्टा राजभवनं राजानो ब्राह्मणास्तथा ॥७-६३-१२॥
तथोऽभिषेको ववृधे शत्रुघ्नस्य महात्मनः ।
सम्प्रहर्षकरः श्रीमान्राघवस्य पुरस्य च ॥७-६३-१३॥
अभिषिक्तस्तु शत्रुघ्नो बभौ चादित्यसन्निभः ।
अभिषिक्तः पुरा स्कन्दः सेन्द्रैरिव मरुद्गणैः ॥७-६३-१४॥
अभिषिक्ते तु शत्रुघ्ने रामेणाक्लिष्टकर्मणा ।
पौराः प्रमुदिताश्चासन्ब्राह्मणाश्च बहुश्रुताः ॥७-६३-१५॥
कौसल्या च सुमित्रा च मङ्गलं केकयी तथा ।
चक्रुस्ता राजभवने याश्चान्या राजयोषितः ॥७-६३-१६॥
ऋषयश्च महात्मानो यमुनातीरवासिनः ।
हतं लवणमाशंसुः शत्रुघ्नस्याभिषेचनात् ॥७-६३-१७॥
ततोऽभिषिक्तं शत्रुघ्नमङ्कमारोप्य राघवः ।
उवाच मधुरां वाणीं तेजस्तस्याभिपूरयन् ॥७-६३-१८॥
अयं शरस्त्वमोघस्ते दिव्यः परपुरञ्जयः ।
अनेन लवणं सौम्य हन्ताऽसि रघुनन्दन ॥७-६३-१९॥
सृष्टः शरोऽयं काकुत्स्थ यदा शेते महार्णवे ॥७-६३-२०॥
स्वयम्भूरजितो देवो यन्नापश्यन्सुरासुराः ।
अदृश्यः सर्वभूतानां तेनायं तु शरोत्तमः ॥७-६३-२१॥
सृष्टः क्रोधाभिभूतेन विनाशार्थं दुरात्मनोः ।
मधुकैटभयोर्वीर विघाते वर्तमानयोः ।
स्रष्टुकामेन लोकांस्त्रींस्तौ चानेन हतौ युधि ॥७-६३-२२॥
तौ हत्वा जनभोगार्थं कैटभं तु मधुं तथा ।
अनेन शरमुख्येन ततो लोकांश्चकार सः ॥७-६३-२३॥
नायं मया शरः पूर्वं रावणस्य वधार्थिना ।
मुक्तः शत्रुघ्न भूतानां महांस्त्रासो भवेदिति ॥७-६३-२४॥
यच्च तस्य महच्छूलं त्र्यम्बकेण महात्मना ।
दत्तं शत्रुविनाशाय मधोरायुधमुत्तमम् ॥७-६३-२५॥
स तं निक्षिप्य भवने पूज्यमान पुनः पुनः ।
दिशः सर्वाः समासाद्य प्राप्नोत्याहारमुत्तमम् ॥७-६३-२६॥
यदा तु युद्धमाकाङ्क्षन् कश्चिदेनं समाह्वयेत् ।
तदा शूलं गहीत्वा तं भस्म रक्षः करोति हि ॥७-६३-२७॥
स त्वं पुरुषशार्दूल तमायुधविनाकृतम् ।
अप्रविष्टं पुरं पूर्वं द्वारि तिष्ठ धृतायुधः ॥७-६३-२८॥
अप्रविष्टं च भवनं युद्धाय पुरुषर्षभ ।
आह्वयेथा महाबाहो ततो हन्तासि राक्षसम् ॥७-६३-२९॥
अन्यथा क्रियमाणे तु अवध्यः स भविष्यति ।
यदि त्वेवं कृते वीर विनाशमुपयास्यति ॥७-६३-३०॥
एतत्ते सर्वमाख्यातं शूलस्य च विपर्ययः ।
श्रीमतः शितिकण्ठस्य कृत्यं हि दुरतिक्रमम् ॥७-६३-३१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे लवणवधोपायकथनम् नाम त्रिषष्ठितमः सर्गः ॥७-६३॥
Previous
शत्रुघ्नप्रार्थना
Next
शत्रुघ्नप्रस्थानम्