हनूमद्वरप्राप्त्यादि

उत्तरकाण्डः / हनूमद्वरप्राप्त्यादि

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे हनूमद्वरप्राप्त्यादि नाम षड्त्रिंशः सर्गः ॥७-३६॥
ततः पितामहं दृष्ट्वा वायुः पुत्रवधार्दितः । शिशुकं तं समादाय उत्तस्थौ धातुरग्रतः ॥७-३६-१॥
चलकुण्डलमौलिस्रक्तपनीयविभूषणः । पादयोर्न्यपतद्वायुस्तिस्रोपस्थाय वेधसे ॥७-३६-२॥
तं तु वेदविदा तेन लम्बाभरणशोभिना । वायुमुत्थाप्य हस्तेन शिशुं तं परिमृष्टवान् ॥७-३६-३॥
स्पृष्टमात्रस्ततः सोऽथ सलीलं पद्मयोनिना । जलसिक्तं यथा सस्यं पुनर्जीवितमाप्तवान् ॥७-३६-४॥
प्राणवन्तमिमं दृष्ट्वा प्राणो गन्धवहो मुदा । चचार सर्वभूतेषु सन्निरुद्धं यथा पुरा ॥७-३६-५॥
मरुद्रोधाद्विनिर्मुक्तास्ताः प्रजा मुदिताऽभवन् । शीतदाहविनिर्मुक्ताः पद्मिन्य इव साम्बुजाः ॥७-३६-६॥
ततस्त्रियुग्मस्त्रिककुत्त्रिधामा त्रिदशार्चितः । उवाच देवता ब्रह्मा मारुतप्रियकाम्यया ॥७-३६-७॥
भो महेन्द्रेशवरुणप्रजेश्वरधनेश्वराः । जानतामपि वः सर्वं वक्ष्यामि श्रूयतां हितम् ॥७-३६-८॥
अनेन शिशुना कार्यं कर्तव्यं वो भविष्यति । तद्वदध्वं वरान्सर्वे मारुतस्यास्य तुष्टये ॥७-३६-९॥
ततः सहस्रनयनः प्रीतियुक्तः शुभाननः । कुशेशयमयीं मालामुत्क्षिप्येदं वचोऽब्रवीत् ॥७-३६-१०॥
मत्करोत्सृष्टवज्रेण हनुरस्य यथा हतः । नाम्ना वै कपिशार्दूलो भविता हनुमानिति ॥७-३६-११॥
अहमस्य प्रदास्यामि परमं वरमद्भुतम् । इतः प्रभृति वज्रस्य ममावध्यो भविष्यति ॥७-३६-१२॥
मार्तण्डस्त्वब्रवीत्तत्र भगवांस्तिमिरापहः । तेजसोऽस्य मदीयस्य ददामि शतिकां कलाम् ॥७-३६-१३॥
यदा तु शास्त्राण्यध्येतुं शक्तिरस्य भविष्यति । तदास्य शास्त्रं दास्यामि येन वाग्ग्मी भविष्यति ॥७-३६-१४॥
नचास्य भविता कश्चित्सदृशः शास्त्रदर्शने । वरुणश्च वरं प्रादान्नास्य मृत्युर्भविष्यति । वर्षायुतशतेनापि मत्पाशादुदकादपि ॥७-३६-१५॥
यमो दण्डादवध्यत्वमरोगत्वं च नित्यशः । वरं ददामि सन्तुष्ट अविषादं च संयुगे ॥७-३६-१६॥
गदेयं मामिका नैनं संयुगेषु वधिष्यति । इत्येवं वरदः प्राह तदा ह्येकाक्षिपिङ्गलः ॥७-३६-१७॥
मत्तो मदायुधानां च न वध्योऽयं भविष्यति । इत्येवं शङ्करेणापि दत्तोऽस्य परमो वरः ॥७-३६-१८॥
सर्वेषां ब्रह्मदण्डानामवध्योऽयं भविष्यति । दीर्घायुश्च महात्मा च इति ब्रह्माब्रवीद्वचः ॥७-३६-१९॥
विश्वकर्मा च दृष्ट्वैनं बालसूर्योपमं शिशुम् । शिल्पिनां प्रवरः प्रादाद्वरमस्य महामतिः ॥७-३६-२०॥
मत्कृतानि च शस्त्राणि यानि दिव्यानि संयुगे । तैरवध्यत्वमापन्नश्चिरजीवी भविष्यति ॥७-३६-२१॥
ततः सुराणां तु वरैर्दृष्ट्वा ह्येनमलङ्कृतम् । चतुर्मुखस्तुष्टमना वायुमाह जगद्गुरुः ॥७-३६-२२॥
अमित्राणां भयकरो मित्राणामभयङ्करः । अजेयो भविता पुत्रस्तव मारुत मारुतिः ॥७-३६-२३॥
कामरूपः कामचारी कामगः प्लवतां वरः । भवत्यव्याहतगतिः कीर्तिमांश्च भविष्यति ॥७-३६-२४॥
रावणोत्सादनार्थानि रामप्रियकरणि च । रोमहर्षकराण्येष कर्ता कर्माणि संयुगे ॥७-३६-२५॥
एवमुक्त्वा तमामन्त्र्य मारुतं त्वमरैः सह । यथागतं ययुः सर्वे पितामहपुरोगमाः ॥७-३६-२६॥
सोऽपि गन्धवहः पुत्रं प्रगृह्य गृहमानयत् । अञ्जनायास्तमाचख्यौ वरदत्तं विनिर्गतः ॥७-३६-२७॥
प्राप्य राम वरानेष वरदानसमन्वितः । बलेनात्मनि संस्थेन सोऽपूर्यत यथाऽर्णवः ॥७-३६-२८॥
तरसा पूर्यमाणोऽपि तदा वानरपुङ्गवः । आश्रमेषु महर्षीणामपराध्यति निर्भयः ॥७-३६-२९॥
स्रुग्भाण्डान्यग्निहोत्रं च वल्कलाजिनसञ्चयान् । भग्नविच्छिन्नविध्वस्तान्संशान्तानां करोत्ययम् ॥७-३६-३०॥
एवंविधानि कर्माणि प्रावर्तत महाबलः । सर्वेषां ब्रह्मदण्डानामवध्यः शम्भुना कृतः ॥७-३६-३१॥
जानन्त ऋषयस्तं वै सहन्ते तस्य शक्तितः ॥७-३६-३२॥
यथा केसरिणा त्वेष वायुना सोऽञ्जनासुतः । प्रतिषिद्धोऽपि मर्यादां लङ्घयत्येव वानरः ॥७-३६-३३॥
ततो महर्षयः क्रुद्धा भृग्वङ्गिरसवंशजाः । शेपुरेनं रघुश्रेष्ठ नातिक्रुद्धातिमन्यवः ॥७-३६-३४॥
बाधसे यत्समाश्रित्य बलमस्मान्प्लवङ्गम । तद्दीर्घकालं वेत्तासि नास्माकं शापमोहितः । यदा ते स्मार्यते कीर्तिस्तदा ते वर्धते बलम् ॥७-३६-३५॥
ततस्स हृततेजौजा महर्षिवचनौजसा । एषोश्रमाणि तान्येव मृदुभावं गतोऽचरत् ॥७-३६-३६॥
अथर्क्षरजसो नाम वालिसुग्रीवयोः पिता । सर्ववानरराजाऽऽसीत्तेजसा भास्करप्रभः ॥७-३६-३७॥
स तु राज्यं चिरं कृत्वा वानराणां हरीश्वरः । स च ऋक्षरजा नाम कालधर्मेण सङ्गतः ॥७-३६-३८॥
तस्मिन्नस्तमिते चाथ मन्त्रिभिर्मन्त्रकोविदैः । पित्र्ये पदे कृतो वाली सुग्रीवो वालिनः पदे ॥७-३६-३९॥
सुग्रीवेण समं त्वस्य अद्वैधं छिद्रवर्जितम् । आबाल्यं सख्यमभवदनिलस्याग्निना यथा ॥७-३६-४०॥
एष शापवशादेव न वेद बलमात्मनः । वालिसुग्रीवयोर्वैरं यदा राम समुत्थितम् ॥७-३६-४१॥
न ह्येष राम सुग्रीवो भ्राम्यमाणोऽपि वालिना ॥७-३६-४२॥
देव जानाति न ह्येष बलमात्मनि मारुतिः । ऋषिशापाहृतबलस्तदैष कपिसत्तमः ॥७-३६-४३॥
सिंहः कुञ्जररुद्धो वा आस्थितः सहितो रणे ॥७-३६-४४॥
पराक्रमोत्साहमतिप्रतापसौशील्यमाधुर्यनयानयैश्च । गाम्भीर्यचातुर्यसुवीर्यधैर्यैर्हनूमतः कोऽभ्यधिकोऽस्ति लोके ॥७-३६-४५॥
असौ पुनर्व्याकरणं ग्रहीष्यन्सूर्योन्मुखः प्रष्टुमना कपीन्द्रः । उद्यद्गिरेरस्तगिरिं जगाम ग्रन्थं महद्धारयनप्रमेयः ॥७-३६-४६॥
ससूत्रवृत्त्यर्थपदं महार्थं ससङ्ग्रहं साद्ध्यति वै कपीन्द्रः । नह्यस्य कश्चित्सदृशोऽस्ति शास्त्रे वैशारदे च्छन्दगतौ तथैव ॥७-३६-४७॥
सर्वासु विद्यासु तपोविधाने प्रस्पर्धतेऽयो हि गुरुं सुराणाम् । सोऽयं नवव्याकरणार्थवेत्ता ब्रह्मा भविष्यत्यपि ते प्रसादात् ॥७-३६-४८॥
प्रवीविवक्षोरिव सागरस्य लोकान्दिधक्षोरिव पावकस्य युगक्षये ह्येव यथान्तकस्य हनूमतः स्थास्यति कः पुरस्तात् ॥७-३६-४९॥
एषेव चान्ये च महाकपीन्द्राः सुग्रीवमैन्दद्विविदाः सनीलाः । सतारतारेयनलाः सरम्भास्त्वत्कारणाद्राम सुरैर्हि सृष्टाः ॥७-३६-५०॥
तदेत्कथितं सर्वं यन्मां त्वं परिपृच्छसि । हनूमतो बालभावे कर्मैतत्कथितं मया ॥७-३६-५१॥
श्रुत्वाऽगस्त्यस्य कथितं रामः सौमित्रिरेव च । विस्मयं परमं जग्मुर्वानरा राक्षसैः सह ॥७-३६-५२॥
अगस्त्यस्त्वब्रवीद्रामं सर्वमेतछ्रुतं त्वया । दृष्टः सम्भाषितश्चासि राम गच्छामहे वयम् ॥७-३६-५३॥
श्रुत्वैतद्राघवो वाक्यमगस्त्यस्योग्रतेजसः । प्राञ्जलिः प्रणतश्चापि महर्षिमिदमब्रवीत् ॥७-३६-५४॥
अद्य मे देवता हृष्टाः पितरः प्रपितामहाः । युष्माकं दर्शनादेव नित्यं तुष्टाः सबान्धवाः ॥७-३६-५५॥
विज्ञाप्यं तु ममैतद्धि यद्वदाम्यागतस्पृहः । तद्भवद्भिर्मम कृते कर्तव्यमनुकम्पया ॥७-३६-५६॥
पौरजानपदान्स्थाप्य स्वकार्येष्वहमागतः । क्रतूनेव करिष्यामि प्रभावाद्भवतां सताम् ॥७-३६-५७॥
सदस्या मम यज्ञेषु भवन्तो नित्यमेव तत् । भविष्यथ महावीर्या ममानुग्रहकाङ्क्षिणः ॥७-३६-५८॥
अहं युष्मान्समाश्रित्य तपोनिर्धूतकल्मषान् । अनुग्रहीतः पितृभिर्भविष्यामि सुनिर्वृतः ॥७-३६-५९॥
तदागन्तव्यमनिशं भवद्भिरिह सङ्गतैः । अगस्त्याद्यास्तु तच्छ्रुत्वा ऋषयः संशितव्रताः ॥७-३६-६०॥
एवमस्त्विति तं चोक्त्वा प्रयातुमुपचक्रमुः ॥७-३६-६१॥
एवमुक्त्वा गताः सर्वे ऋषयस्ते यथागतम् । राघवश्च तमेवार्थं चिन्तयामास विस्मितः ॥७-३६-६२॥
ततोऽस्तं भास्करे याते विसृज्य नृपवानरान् । सन्ध्यामुपास्य विधिवत्तदा नरवरोत्तमः । प्रवृत्तायां रजन्यां तु सोऽन्तःपुरचरोऽभवत् ॥७-३६-६३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे हनूमद्वरप्राप्त्यादि नाम षड्त्रिंशः सर्गः ॥७-३६॥