हनूमदुत्पत्तिः
उत्तरकाण्डः / हनूमदुत्पत्तिः
Script
Translation
Previous
वालिरावणसख्यम्
Next
हनूमद्वरप्राप्त्यादि
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे हनूमदुत्पत्तिः नाम पञ्चत्रिंशः सर्गः ॥७-३५॥
अपृच्छत तदा रामो दक्षिणाशाश्रमं मुनिम् ।
प्राञ्जलिर्विनयोपेत इदमाह वचोऽर्थवत् ॥७-३५-१॥
अतुलं बलमेतद्वै वालिनो रावणस्य च ।
न त्वेताभ्यां हनुमता समं त्विति मतिर्मम ॥७-३५-२॥
शौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम् ।
विक्रमश्च प्रभावश्च हनूमति कृतालयाः ॥७-३५-३॥
दृष्ट्वैव सागरं वीक्ष्य सीदन्तीं कपिवाहिनीम् ।
समाश्वास्य महाबाहुर्योजनानां शतं प्लुतः ॥७-३५-४॥
धर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तदा ।
दृष्ट्वा सम्भाषिता चापि सीता ह्याश्वासिता तथा ॥७-३५-५॥
सेनाग्रगा मन्त्रिसुताः किङ्करा रावणात्मजः ।
एते हनुमता तत्र ह्येकेन वितिपातिताः ॥७-३५-६॥
भूयो बन्धाद्विमुक्तेन भाषयित्वा दशाननम् ।
लङ्का भस्मीकृता येन पावकेनेव मेदिनी ॥७-३५-७॥
न कालस्य न शक्रस्य न विष्णोर्वित्तपस्य च ।
कर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः ॥७-३५-८॥
एतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः ।
प्राप्ता मया जयश्चैव राज्यं मित्राणि बान्धवाः ॥७-३५-९॥
हनूमान्यदि मे नः स्याद्वानराधिपतेः सखा ।
प्रवृत्तिमपि को वेत्तुं जानक्याः शक्तिमान्भवेत् ॥७-३५-१०॥
किमर्थं वाल्यनेनैव सुग्रीवप्रियकाम्यया ।
तदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा ॥७-३५-११॥
नहि वेदितवान्मन्ये हनूमानात्मनो बलम् ।
यद्दृष्टवाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम् ॥७-३५-१२॥
एतन्मे भगवन्सर्वं हनूमति महामतौ ।
विस्तरेण यथातत्त्वं कथयामरपूजित ॥७-३५-१३॥
राघवस्य वचः श्रुत्वा हेतुयुक्तमृषिस्तदा ।
हनूमतः समक्षं तमिदं वचनमब्रवीत् ॥७-३५-१४॥
सत्यमेतद्रघुश्रेष्ठ यद्ब्रवीषि हनूमतः ।
न बले विद्यते तुल्यो न गतौ न मतौ परः ॥७-३५-१५॥
अमोघशापैः शप्तस्तु दत्तोऽस्य मुनिभिः पुरा ।
न वेत्ता हि बलं येन बली सन्निरिमर्दनः ॥७-३५-१६॥
बाल्येऽप्येतेन यत्कर्म कृतं राम महाबल ।
तन्न वर्णयितुं शक्यमिति बालतयाऽऽस्यते ॥७-३५-१७॥
यदि वाऽस्ति त्वभिप्रायस्तच्छ्रोतुं तव राघव ।
समाधाय मतिं राम निशामय वदाम्यहम् ॥७-३५-१८॥
सूर्यदत्तवरस्वर्णः सुमेरुर्नाम पर्वतः ।
यत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता ॥७-३५-१९॥
तस्य भार्या बभूवैषा ह्यञ्जनेति परिश्रुता ।
जनयामास तस्यां वै वायुरात्मजमुत्तमम् ॥७-३५-२०॥
शालिशूकनिभाभासं प्रासूतामुं तदाऽञ्जना ।
फलान्याहर्तुकामा वै निष्क्रान्ता गहनेचरा ॥७-३५-२१॥
एष मातुर्वियोगाच्च क्षुधया च भृशार्दितः ।
रुरोद शिशुरत्यर्थं शिशुः शरवणे यथा ॥७-३५-२२॥
तदोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम् ।
ददर्श फललोभाच्च ह्युत्पपात रविं प्रति ॥७-३५-२३॥
बालार्काभिमुखो बालो बालार्क इव मूर्तिमान् ।
ग्रहीतुकामो बालार्कं प्लवतेऽम्बरमध्यगः ॥७-३५-२४॥
एतस्मिन्प्लवमाने तु शिशुभावे हनूमति ।
देवदानवयक्षाणां विस्मयः सुमहानभूत् ॥७-३५-२५॥
नाप्येवं वेगवान्वायुर्गरुडो वा मनस्तथा ।
यथाऽयं वायुपुत्रस्तु क्रमतेऽम्बरमुत्तमम् ॥७-३५-२६॥
यदि तावच्छिशोरस्य त्वीदृशो गतिविक्रमः ।
यौवनं बलमासाद्य कथं वेगो भविष्यति ॥७-३५-२७॥
तमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः ।
सूर्यदाहभयाद्रक्षंस्तुषारचयशीतलः ॥७-३५-२८॥
बहुयोजनसाहस्रं क्रमत्येष गतोम्बरम् ।
पितुर्बलाच्च बाल्याच्च भास्कराभ्याशमागतः ॥७-३५-२९॥
शिशुरेष त्वदोषज्ञ इति मत्वा दिवाकरः ।
कार्यं चात्र समायत्तमित्येवं न ददाह सः ॥७-३५-३०॥
यमेव दिवसं ह्येष ग्रहीतुं भास्करं प्लुतः ।
तमेव दिवसं राहुर्जिघृक्षति दिवाकरम् ॥७-३५-३१॥
अनेन स परामृष्टो राम सूर्यरथोपरि ।
अपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः ॥७-३५-३२॥
स इन्द्रभवनं गत्वा सरोषः सिंहिकासुतः ।
अब्रवीद्भ्रुकुटिं कृत्वा देवं देवगणैर्वृतम् ॥७-३५-३३॥
बुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव ।
किमिदं तत्त्वया दत्तमन्यस्य बलवृत्रहन् ॥७-३५-३४॥
अद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः ।
अथान्यो राहुरासाद्य जग्राह सहसा रविम् ॥७-३५-३५॥
स राहोर्वचनं श्रुत्वा वासवः सम्भ्रमान्वितः ।
उत्पपातासनं हित्वा चोद्वहन्काञ्चनीं स्रजम् ॥७-३५-३६॥
ततः कैलासकूटाभं चतुर्दन्तं मदस्रवम् ।
शृङ्गारधारिणं प्रांशुं स्वर्णघण्टाट्टहासिनम् ॥७-३५-३७॥
इन्द्रः करीन्द्रमारुह्य राहुं कृत्वा पुरःसरम् ।
प्रायाद्यत्राभवत्सूर्यः सहानेन हनूमता ॥७-३५-३८॥
अथातिरभसेनागाद्राहुरुत्सृज्य वासवम् ।
अनेन च स वै दृष्टः प्रधावञ्छैलकूटवत् ॥७-३५-३९॥
ततः सूर्यं समुत्सृज्य राहुं फलमवेक्ष्य च ।
उत्पपात पुनर्व्योम ग्रहीतुं सिंहिकासुतम् ॥७-३५-४०॥
उत्सृज्यार्कमिमं राम प्रधावन्तं प्लवङ्गमम् ।
अवेक्ष्यैवं परावृत्त्य मुखशेषः पराङ्मुखः ॥७-३५-४१॥
इन्द्रमाशंसमानस्तु त्रातारं सिंहिकासुतः ।
इन्द्र इन्द्रेति संत्रासान्मुहुर्महुरभाषत ॥७-३५-४२॥
राहोर्विक्रोशमानस्य प्रागेवालक्षितं स्वरम् ।
श्रुत्वेन्द्रोवाच मा भैषीरहमेनं निषूदये ॥७-३५-४३॥
ऐरावतं ततो दृष्ट्वा महत्तदिदमित्यपि ।
फलं मत्वा हस्तिराजमभिदुद्राव मारुतिः ॥७-३५-४४॥
तथास्य धावतो रूपमैरावतजिघृक्षया ।
मुहूर्तमभवद्घोरमिन्द्राग्न्योरिव भास्वरम् ॥७-३५-४५॥
एवमाधावमानं तु नातिक्रुद्धः शचीपतिः ।
हस्तान्तादतिमुक्तेन कुलिशेनाभ्यताडयत् ॥७-३५-४६॥
ततो गिरौ पपातैष इन्द्रवज्राभिताडितः ।
पतमानस्य चैतस्य वामो हनुरभज्यत ॥७-३५-४७॥
तस्मिंस्तु पतिते बाले वज्रताडनविह्वले ।
चुक्रोधेन्द्राय पवनः प्रजानामहिताय सः ॥७-३५-४८॥
प्रचारं स तु सङ्गृह्य प्रजास्वन्तर्गतः प्रभुः ।
गुहां प्रविष्टः स्वसुतं शिशुमादाय मारुतः ॥७-३५-४९॥
विण्मूत्राशयमावृत्य प्रजानां परमार्तिकृत् ।
रुरोध सर्वभूतानि यथा वर्षाणि वासवः ॥७-३५-५०॥
वायुप्रकोपाद्भूतानि निरुच्छ्वासानि सर्वतः ।
सन्धिभिर्भिद्यमानैश्च काष्ठभूतानि जज्ञिरे ॥७-३५-५१॥
निःस्वाध्यायवषट्कारं निष्क्रियं धर्मवर्जितम् ।
वायुप्रकोपात्त्रैलोक्यं निरयस्थमिवाभवत् ॥७-३५-५२॥
ततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः ।
प्रजापतिं समाधावन्दुःखिताश्च सुखेच्छया ॥७-३५-५३॥
ऊचुः प्राञ्जलयो देवा महोदरनिभोदराः ।
त्वया नु भगवन्सृष्टाः प्रजानाथ चतुर्विधाः ॥७-३५-५४॥
त्वया दत्तोऽयमस्माकमायुषः पवनः पतिः ।
सोऽस्मान्प्राणेश्वरो भूत्वा कस्मादेषोऽद्य सत्तम ॥७-३५-५५॥
रुरोध दुःखं जनयन्नन्तःपुर इव स्त्रियः ।
तस्मात्त्वां शरणं प्राप्ता वायुनोहता वयम् ॥७-३५-५६॥
एतत्प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः ।
कारणादिति चोक्त्वासौ प्रजाः पुनरभाषत ॥७-३५-५७॥
यस्मिंश्च कारणे वायुश्चुक्रोध च रुरोध च ।
प्रजाः शृणुध्वं तत्सर्वं श्रोतव्यं चात्मनः क्षमम् ॥७-३५-५८॥
पुत्रस्तस्यामरेशेन इन्द्रेणाद्य निपातितः ।
राहोर्वचनमास्थाय ततः स कुपितोऽनिलः ॥७-३५-५९॥
अशरीरः शरीरेषु वायुश्चरति पालयन् ।
शरीरं हि विना वायुं समतां याति दारुभिः ॥७-३५-६०॥
वायुः प्राणः सुखं वायुर्वायुः सर्वमिदं जगत् ।
वायुना सम्परित्यक्तं न सुखं विन्दते जगत् ॥७-३५-६१॥
अद्यैव च परित्यक्तं वायुना जगदायुषा ।
अद्यैव ते निरुच्छ्वासाः काष्ठकुड्योपमाः स्थिताः ॥७-३५-६२॥
तद्यामस्तत्र यत्रास्ते मारुतो रुक्प्रदो हि नः ।
मा विनाशं गमिष्याम अप्रसाद्यादितेः सुताः ॥७-३५-६३॥
ततः प्रजाभिः सहितः प्रजापतिः सदेवगन्धर्वभुजङ्गगुह्यकैः ।
जगाम तत्रास्यति यत्र मारुतः सुतं सुरेन्द्राभिहतं प्रगृह्य सः ॥७-३५-६४॥
ततोऽर्कवैश्वानरकाञ्चनप्रभं सुतं तदोत्सङ्गगतं सदागतेः ।
चतुर्मुखो वीक्ष्य कृपामथाकरोत्सदेवगन्धर्वर्षियक्षराक्षसैः ॥७-३५-६५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे हनूमदुत्पत्तिः नाम पञ्चत्रिंशः सर्गः ॥७-३५॥
Previous
वालिरावणसख्यम्
Next
हनूमद्वरप्राप्त्यादि