नलकूबरशापः

उत्तरकाण्डः / नलकूबरशापः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे नलकूबरशापः नाम षड्विंशः सर्गः ॥७-२६॥
स तु तत्र दशग्रीवः सह सैन्येन वीर्यवान् । अस्तं प्राप्ते दिनकरे निवासं समरोचयत् ॥७-२६-१॥
उदिते विमले चन्द्रे तुल्यपर्वतवर्चसि । प्रसुप्तं सुमहत्सैन्यं नानाप्रहरणायुधम् ॥७-२६-२॥
रावणस्तु महावीर्यो निषण्णः शैलमूर्धनि । स ददर्श गुणांस्तत्र चन्द्रपादपशोभितान् ॥७-२६-३॥
कर्णिकारवनैर्दीप्तैः कदम्बगहनैस्तथा । पद्मिनीभिश्च फुल्लाभिर्मन्दाकिन्या जलैरपि ॥७-२६-४॥
चम्पकाशोकपुन्नागमन्दारतरुभिस्तथा । चूतपाटललोध्रैश्च प्रियङ्ग्वर्जुनकेतकैः । तगरैर्नारिकैलैश्च प्रियालपनसैस्तथा ॥७-२६-५॥
आरग्वधैस्तमालैश्च प्रियालवकुलैरपि । एतैरन्यैश्च तरुभिरुद्भासितवनान्तरे । किन्नरा मदनेनार्ता रक्ता मधुरकण्ठिनः ॥७-२६-६॥
समं सम्प्रजगुर्यत्र मनस्तुष्टिविवर्धनम् ॥७-२६-७॥
भिरुद्भासितवनान्तरे । विद्याधरा मदक्षीबा मदरक्तान्तलोचनाः । योषिद्भिः सह सङ्क्रान्ताश्चिक्रीडुर्जहृषुश्च वै ॥७-२६-८॥
घण्टानामिव सन्नादः शुश्रुवे मधुरस्वरः । अप्सरोगणसङ्घानां गायतां धनदालये ॥७-२६-९॥
पुष्पवर्षाणि मुञ्चन्तो नगाः पवनताडिताः । शैलं तं वासयन्तीव मधुमाधवगन्धिनः ॥७-२६-१०॥
मधुपुष्परजःपृक्तं गन्धमादाय पुष्कलम् । प्रववौ वर्धयन्कामं रावणस्य सुखोऽनिलः ॥७-२६-११॥
गेयात्पुष्पसमृद्ध्या च शैत्याद्वायोर्गिरेर्गुणात् । प्रवृत्तायां रजन्यां च चन्द्रस्योदयनेन च ॥७-२६-१२॥
रावणस्तु महावीर्यः कामस्य वशमागतः । विनिःश्वस्य विनिःश्वस्य शशिनं समवैक्षत ॥७-२६-१३॥
एतस्मिन्नन्तरे तत्र दिव्याभरणभूषिता । सर्वाप्सरोवरा रम्भा दिव्यपुष्पविभूषिता ॥७-२६-१४॥
दिव्यचन्दनलिप्ताङ्गी मन्दारकृतमूर्धजा । दिव्योत्सवकृतारम्भा पूर्णचन्द्रनिभानना ॥७-२६-१५॥
चक्षुर्मनोहरं पीनं मेखलादामभूषितम् । समुद्वहन्ती जघनं रतिप्राभृतमुत्तमम् ॥७-२६-१६॥
कृतैर्विशेषकैरार्द्रैः षडर्तुकुसुमोद्भवैः ॥७-२६-१७॥
बभावन्यतमेव श्रीकान्तिद्युतिमतिह्रियाम् । नीलं सतोयमेघाभं वस्त्रं समवकुण्ठिता ॥७-२६-१८॥
यस्या वक्त्रं शशिनिभं भ्रुवौ चापनिभे शुभे । ऊरू करिकराकारौ करौ पल्लवकोमलौ । सैन्यमध्येन गच्छन्ती रावणेनोपवीक्षिता ॥७-२६-१९॥
तां समुत्थाय गच्छन्तीं कामबाणवशं गतः । करे गृहीत्वा लज्जन्तीं स्मयमानोऽभ्यभाषत ॥७-२६-२०॥
क्व गच्छसि वरारोहे कां सिद्धिं भजसे स्वयम् । कस्याभ्युदयकालोऽयं यस्त्वां समुपभोक्ष्यते ॥७-२६-२१॥
त्वदाननरसस्याद्य पद्मोत्पलसुगन्धिनः । सुधामृतरसस्येव कोऽद्य तृप्तिं गमिष्यति ॥७-२६-२२॥
स्वर्णकुम्भनिभौ पीनौ शुभौ भीरु निरन्तरौ । कस्योरस्थलसंस्पर्शं दास्यतस्ते कुचाविमौ ॥७-२६-२३॥
सुवर्णचक्रप्रतिमं स्वर्णदामचितं पृथु । अध्यारोहति कस्तेऽद्य जघनं स्वर्गरूपिणम् ॥७-२६-२४॥
मद्विशिष्टः पुमान्कोऽद्य शक्रो विष्णुरथाश्विनौ । मामतीत्य हि यं च त्वं यासि भीरु न शोभनम् ॥७-२६-२५॥
विश्रम त्वं पृथुश्रोणि शिलातलमिदं शुभम् ॥७-२६-२६॥
त्रैलोक्ये यः प्रभुश्चैव मदन्यो नैव विद्यते ॥७-२६-२७॥
तदेवं प्राञ्जलिः प्रह्वो याचते त्वां दशाननः । भर्तुर्भर्ता विधाता च त्रैलोक्यस्य भजस्व माम् ॥७-२६-२८॥
एवमुक्ताऽब्रवीद्रम्भा वेपमाना कृताञ्जलिः । प्रसीद नार्हसे वक्तुमीदृशं त्वं हि मे गुरुः ॥७-२६-२९॥
अन्येभ्यो हि त्वया रक्ष्या प्राप्नुयां धर्षणं यदि । तद्धर्मतः स्नुषा तेऽहं तत्त्वमेव ब्रवीमि ते ॥७-२६-३०॥
अथाब्रवीद्दशग्रीवश्चरणाधोमुखीं स्थिताम् । रोमहर्षमनुप्राप्तां दृष्टमात्रेण तां तदा ॥७-२६-३१॥
सुतस्य यदि मे भार्या ततस्त्वं हि स्नुषा भवेः । बाढमित्येव सा रम्भा प्राह रावणमुत्तरम् ॥७-२६-३२॥
धर्मतस्ते सुतस्याहं भार्या राक्षसपुङ्गव । पुत्रः प्रियतरः प्राणैर्भ्रातुर्वैश्रवणस्य ते । विख्यातस्त्रिषु लोकेषु नलकूबर इत्ययम् ॥७-२६-३३॥
धर्मतो यो भवेद्विप्रः क्षत्रियो वीर्यतो भवेत् । क्रोधाद्यश्च भवेदग्निः क्षान्त्या च वसुधासमः ॥७-२६-३४॥
तस्यास्मि कृतसङ्केता लोकपालसुतस्य वै । तमुद्दिश्य तु मे सर्वं विभूषणमिदं कृतम् ॥७-२६-३५॥
तथा तस्य हि नान्यस्य भावो मां प्रति तिष्ठति ॥७-२६-३६॥
तेन सत्येन मां राजन्मोक्तुमर्हस्यरिन्दम ॥७-२६-३७॥
स हि तिष्ठति धर्मात्मा मां प्रतीक्ष्य समुत्सुकः । तत्र विघ्नं सुतस्येह कर्तुं नार्हसि मुञ्च माम् ॥७-२६-३८॥
सद्भिराचरितं मार्गं गच्छ राक्षसुपुङ्गव । माननीयो मम त्वं हि पालनीया तथाऽस्मि ते ॥७-२६-३९॥
एवमुक्तो दशग्रीवः प्रत्युवाच विनीतवत् । स्नुषाऽस्मि यदवोचस्त्वमेकपत्नीष्वयं क्रमः । देवलोकस्थितिरियं सुराणां शाश्वती मता ॥७-२६-४०॥
पतिरप्सरसां नास्ति न चैकस्त्रीपरिग्रहः ॥७-२६-४१॥
स्मि यदवोचस्त्वमेकपत्नीष्वयं क्रमः । एवमुक्त्वा स तां रक्षो निवेश्य च शिलातले । कामभोगाभिसंसक्तो मैथुनायोपचक्रमे ॥७-२६-४२॥
सा विमुक्ता ततो रम्भा भ्रष्टमाल्यविभूषणा । गजेन्द्राक्रीडमथिता नदीवाकुलतां गता ॥७-२६-४३॥
लुलिताकुलकेशान्ता करवेपितपल्लवा । पवनेनावधूतेव लता कुसुमशालिनी ॥७-२६-४४॥
सा वेपमाना लज्जन्ती भीता करकृताञ्जलिः । नलकूबरमासाद्य पादयोर्निपपात ह ॥७-२६-४५॥
तदवस्थां च तां दृष्ट्वा महात्मा नलकूबरः । अब्रवीत्किमिदं भद्रे पादयोः पतिताऽसि मे ॥७-२६-४६॥
सा वै निःश्वसमाना तु वेपमाना कृताञ्जलिः । तस्मै सर्वं यथातत्त्वमाख्यातुमुपचक्रमे ॥७-२६-४७॥
एष देव दशग्रीवः प्राप्तो गन्तुं त्रिविष्टपम् । तेन सैन्यसहायेन निशेयं परिणामिता ॥७-२६-४८॥
आयन्ती तेन दृष्टाऽस्मि त्वत्सकाशमरिन्दम । गृहीता तेन पृष्टाऽस्मि कस्य त्वमिति रक्षसा ॥७-२६-४९॥
मया तु सर्वं यत्सत्यं तस्मै सर्वं निवेदितम् । काममोहाभिभूतात्मा नाश्रौषीत्तद्वचो मम ॥७-२६-५०॥
याच्यमानो मया देव स्नुषा तेऽहमिति प्रभो । तत्सर्वं पृष्ठतः कृत्वा बलात्तेनास्मि धर्षिता ॥७-२६-५१॥
एवं त्वमपराधं मे क्षन्तुमर्हसि सुव्रत । न हि तुल्यं बलं सौम्य स्त्रियाश्च पुरुषस्य च ॥७-२६-५२॥
एतछुत्वा तु सङ्क्रुद्धस्तदा वैश्रवणात्मजः । धर्षणां तां परां श्रुत्वा ध्यानं सम्प्रविवेश ह ॥७-२६-५३॥
तस्य तत्कर्म विज्ञाय तदा वैश्रवणात्मजः । मुहूर्तात्क्रोधताम्राक्षस्तोयं जग्राह पाणिना ॥७-२६-५४॥
गृहीत्वा सलिलं सर्वमुपस्पृश्य यथाविधि । उत्ससर्ज यथा शापं राक्षसेन्द्राय दारुणम् ॥७-२६-५५॥
अकामा तेन यस्मात्त्वं बलाद्भद्रे प्रधर्षिता । तस्मात्स युवतीमन्यां नाकामामुपयास्यति ॥७-२६-५६॥
यदा ह्यकामां कामार्तो धर्षयिष्यति योषितम् । मूर्धा तु सप्तधा तस्य शकलीभविता तदा ॥७-२६-५७॥
तस्मिन्नुदाहृते शापे ज्वलिताग्निसमप्रभे । देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता । पितामहमुखाश्चैव सर्वे देवाः प्रहर्षिताः ॥७-२६-५८॥
ज्ञात्वा लोकगतिं सर्वां तस्य मृत्युं च रक्षसः । ऋषयः पितरश्चैव प्रीतिमापुरनुत्तमाम् ॥७-२६-५९॥
श्रुत्वा तु स दशग्रीवस्तं शापं रोमहर्षणम् । नारीषु मैथुने भावं नाकामास्वभ्यरोचयत् ॥७-२६-६०॥
तेन नीताः स्त्रियः प्रीतिमापुः सर्वाः पतिव्रताः । नलकूबरनिर्मुक्तं शापं श्रुत्वा मनःप्रियम् ॥७-२६-६१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे नलकूबरशापः नाम षड्विंशः सर्गः ॥७-२६॥