मधुवधवारणम्
उत्तरकाण्डः / मधुवधवारणम्
Script
Translation
Previous
खरशूर्पनखादण्डकानिवासादेशः
Next
नलकूबरशापः
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे मधुवधवारणम् नाम पञ्चविंशः सर्गः ॥७-२५॥
स तु दत्त्वा दशग्रीवो वनं घोरं स्वरस्य तत् ।
भगिनीं च समाश्वास्य हृष्टः स्वस्थतरोऽभवत् ॥७-२५-१॥
ततो निकुम्भिला नाम लङ्कोपवनमुत्तमम् ।
तद्राक्षसेन्द्रो बलवान्प्रविवेश सहानुगः ॥७-२५-२॥
ततो यूपशताकीर्णं सौम्यचैत्योपशोभितम् ।
ददर्श विष्ठितं यज्ञं श्रिया सम्प्रज्वलन्निव ॥७-२५-३॥
ततः कृष्णाजिनधरं कमण्डलुशिखाध्वजम् ।
ददर्श स्वसुतं तत्र मेघनादं भयावहम् ॥७-२५-४॥
तं समासाद्य लङ्केशः परिष्वज्वाथ बाहुभिः ।
अब्रवीत्किमिदं वत्स वर्तसे ब्रूहि तत्त्वतः ॥७-२५-५॥
उशना त्वब्रवीत्तत्र यज्ञसम्पत्समृद्धये ।
रावणं राक्षसश्रेष्ठं द्विजश्रेष्ठो महातपाः ॥७-२५-६॥
अहमाख्यामि ते राजञ्छ्रूयतां सर्वमेव तत् ।
यज्ञास्ते सप्त पुत्रेण प्राप्तास्सुबहुविस्तराः ॥७-२५-७॥
अग्निष्टोमोऽश्वमेधश्च यज्ञो बहुसुवर्णकः ।
राजसूयस्तथा यज्ञो गोमेधो वैष्णवस्तथा ॥७-२५-८॥
माहेश्वरे प्रवृत्ते तु यज्ञे पुम्भिः सुदुर्लभे ।
वरांस्ते लब्धवान्पुत्रः साक्षात्पशुपतेरिह ॥७-२५-९॥
कामगं स्यन्दनं दिव्यमन्तरिक्षचरं ध्रुवम् ।
मायां च तामसीं नाम यया सम्पद्यते तमः ॥७-२५-१०॥
एतया किल सङ्ग्रामे मायया राक्षसेश्वर ।
प्रयुक्तया गतिः शक्या नहि ज्ञातुं सुरासुरैः ॥७-२५-११॥
अक्षयाविषुधी बाणैश्चापं चापि सुदुर्जयम् ।
अस्त्रं च बलवद्राजञ्छत्रुविध्वंसनं रणे ॥७-२५-१२॥
एतान्सर्वान्वरांल्लब्ध्वा पुत्रस्तेऽयं दशानन ।
अद्य यज्ञसमाप्तौ च त्वां दिदृक्षुस्स्थितो ह्यहम् ॥७-२५-१३॥
ततोऽब्रवीदृशग्रीवो न शोभनमिदं कृतम् ।
पूजिताः शत्रवो यस्माद्द्रव्यैरिन्द्रपुरोगमाः ॥७-२५-१४॥
एहीदानीं कृतं विद्धि सुकृतं तन्न संशयः ।
आगच्छ सौम्य गच्छामः स्वमेव भवनं प्रति ॥७-२५-१५॥
ततो गत्वा दशग्रीवः सपुत्रः सविभीषणः ।
स्त्रियोऽवतारयामास सर्वास्ता बाष्पगद्गदाः ॥७-२५-१६॥
लक्षिण्यो रत्नभूताश्च देवदानवरक्षसाम् ।
तस्य तासु मतिं ज्ञात्वा धर्मत्मा वाक्यमब्रवीत् ॥७-२५-१७॥
ईदृशैस्त्वं समाचारैर्यशोर्थकुलनाशनैः ।
धर्षणं ज्ञातिनां ज्ञात्वा स्वमतेन विचेष्टसे ॥७-२५-१८॥
ज्ञातींस्तान्धर्षयित्वेमास्त्वयाऽऽनीता वराङ्गनाः ।
त्वामतिक्रम्य मधुना राजन्कुम्भीनसी हृता ॥७-२५-१९॥
रावणस्त्वब्रवीद्वाक्यं नावगच्छामि किं त्विदम् ।
कोऽयं यस्तु त्वयाऽऽख्यातो मधुरित्येव नामतः ॥७-२५-२०॥
विभीषणस्तु सङ्क्रुद्धो भ्रातरं वाक्यमब्रवीत् ।
श्रूयतामस्य पापस्य कर्मणः फलमागतम् ॥७-२५-२१॥
मातामहस्य यो भ्राता ज्येष्ठो भ्राता सुमालिनः ।
माल्यवानिति विख्यातो वृद्धः प्राज्ञो निशाचरः ॥७-२५-२२॥
पिता ज्येष्ठो जनन्या नो ह्यस्माकं चार्यकोऽभवत् ।
तस्य कुम्भीनसी नाम दुहितुर्दुहिताऽभवत् ॥७-२५-२३॥
मातृष्वसुरथास्माकं सा च कन्याऽनलोद्भवा ।
भवत्यस्माकमेवैषा भ्रातृणां धर्मतः स्वसा ॥७-२५-२४॥
सा हृता मधुना राजन्राक्षसेन बलीयसा ।
यज्ञप्रवृत्ते पुत्रे तु मयि चान्तर्जलोषिते ॥७-२५-२५॥
कुम्भकर्णे महाराज निद्रामनुभवत्यथ ।
निहत्य राक्षसश्रेष्ठानमात्यानिह सम्मतान् ॥७-२५-२६॥
धर्षयित्वा हृता सा तु सुप्ताप्यन्तःपुरे तव ।
श्रुत्वाऽपि तन्महाराज क्षान्तमेव हतो न सः ॥७-२५-२७॥
यस्मादवश्यं दातव्या कन्या भर्त्रे हि भ्रातृभिः ।
तदेतत्कर्मणो ह्यस्य फलं पापस्य दुर्मते ॥७-२५-२८॥
अस्मिन्नेवाभिसम्प्राप्तं लोके विदितमस्तु ते ।
विभीषणवचः श्रुत्वा राक्षसेन्द्रः स रावणः ।
दौरात्म्येनात्मनोद्धूतस्तप्ताम्भ इव सागरः ॥७-२५-२९॥
ततोऽब्रवीदृशग्रीवः क्रुद्धः संरक्तलोचनः ।
कल्प्यतां मे रथः शीघ्रं शूराः सज्जीभवन्तु नः ॥७-२५-३०॥
भ्राता मे कुम्भकर्णश्च ये च मुख्या निशाचराः ।
वाहनान्यधिरोहन्तु नानाप्रहरणायुधाः ॥७-२५-३१॥
अद्य तं समरे हत्वा मधुं रावणनिर्भयम् ।
सुरलोकं गमिष्यामि युद्धकाङ्क्षी सुहृद्वृतः ॥७-२५-३२॥
अक्षौहिणीसहस्राणि चत्वार्यग्र्याणि रक्षसाम् ।
नानाप्रहरणान्याशु निर्ययुर्युद्धकाङ्क्षिणाम् ॥७-२५-३३॥
इन्द्रजित्त्वग्रतः अग्रतः सैन्यात्सैनिकान्परिगृह्य च ।
जगाम रावणो मध्ये कुम्भकर्णश्च पृष्ठतः ॥७-२५-३४॥
विभीषणश्च धर्मात्मा लङ्कायां धर्मामाचरत् ।
शोषाः सर्वे महाभागा ययुर्मधुपुरं प्रति ॥७-२५-३५॥
खरैरुष्ट्रैर्हयैर्दीप्तैः शिंशुमारैर्महोरगैः ।
राक्षसाः प्रययुः सर्वे कृत्वाऽऽकाशं निरन्तरम् ॥७-२५-३६॥
दैत्याश्च शतशस्तत्र कृतवैराश्च दैवतैः ।
रावणं प्रेक्ष्य गच्छन्तमन्वगच्छन्हि पृष्ठतः ॥७-२५-३७॥
स तु गत्वा मधुपुरं प्रविश्य च दशाननः ।
न ददर्श मधुं तत्र भगिनीं तत्र दृष्टवान् ॥७-२५-३८॥
सा च प्रह्वाञ्जलिर्भूत्वा शिरसा चरणौ गता ॥७-२५-३९॥
तस्य राक्षसराजस्य त्रस्ता कुम्भीनसी तदा ।
तां समुत्थापयामास न भेतव्यमिति ब्रुवन् ॥७-२५-४०॥
रावणो राक्षसश्रेष्ठः किं चापि करवाणि ते ।
साब्रवीद्यदि मे राजन्प्रसन्नस्त्वं महाभुज ।
भर्तारं न ममेहाद्य हन्तुर्महसि मानद ॥७-२५-४१॥
न हीदृशं भयं किञ्चित्कुलस्त्रीणामिहोच्यते ।
भयानामपि सर्वेषां वैधव्यं व्यसनं महत् ॥७-२५-४२॥
सत्यवाग्भव राजेन्द्र मामवेक्षस्व याचतीम् ।
त्वयाप्युक्तं महाराज न भेतव्यमिति स्वयम् ॥७-२५-४३॥
रावणस्त्वब्रवीद्धृष्टः स्वसारं तत्र संस्थिताम् ।
क्व चासौ तव भर्ता वै मम शीघ्रं निवेद्यताम् ॥७-२५-४४॥
सह तेन गमिष्यामि सुरलोकं जयावहे ।
तव कारुण्यसौहार्दान्निवृत्तोऽस्मि मधोर्वधात् ॥७-२५-४५॥
इत्युक्ता सा समुत्थाप्य प्रसुप्तं तं निशाचरम् ।
अब्रवीत्सम्प्रहृष्टेव राक्षसी सा पतिं वचः ॥७-२५-४६॥
एष प्राप्तो दशग्रीवो मम भ्राता महाबलः ।
सुरलोकजयाकाङ्क्षी साहाय्ये त्वां वृणोति च ॥७-२५-४७॥
तदस्य त्वं सहायार्थं सबन्धुर्गच्छ राक्षस ।
स्निग्धस्य भजमानस्य युक्तमर्थाय कल्पितुम् ॥७-२५-४८॥
तस्यास्तद्वचनं श्रुत्वा तथेत्याह मधुर्वचः ॥७-२५-४९॥
ददर्श राक्षसश्रेष्ठं यथान्यायमुपेत्य सः ।
पूजयमास धर्मेण रावणं राक्षसाधिपम् ॥७-२५-५०॥
प्राप्य पूजां दशग्रीवो मधुवेश्मानि वीर्यवान् ।
तत्र चैकां निशामुष्य गमनायोपचक्रमे ॥७-२५-५१॥
ततः कैलासमासाद्य शैलं वैश्रवणालयम् ।
राक्षसेन्द्रो महेन्द्राभः सेनामुपनिवेशयत् ॥७-२५-५२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे मधुवधवारणम् नाम पञ्चविंशः सर्गः ॥७-२५॥
Previous
खरशूर्पनखादण्डकानिवासादेशः
Next
नलकूबरशापः