पौलस्योत्पत्तिः
उत्तरकाण्डः / पौलस्योत्पत्तिः
Script
Translation
Previous
रामप्रश्नः
Next
वैश्रवणलोकपालपदलङ्कादिप्राप्तिः
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे पौलस्योत्पत्तिः नाम द्वितीयः सर्गः ॥७-२॥
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।
कुम्भयोनिर्मिहातेजा राममेतदुवाच ह ॥७-२-१॥
शृणु राम कथावृत्तं तस्य तेजोबलं महत् ।
जघान शत्रून्येनासौ न च वध्यः स शत्रुभिः ॥७-२-२॥
तावत्ते रावणस्येदं कुलं जन्म च राघव ।
वरप्रदानं च तथा तस्मै दत्तं ब्रवीमि ते ॥७-२-३॥
पुरा कृतयुगे राम प्रजापतिसुतः प्रभुः ।
पुलस्त्यो नाम ब्रह्मर्षिः साक्षादिव पितामहः ॥७-२-४॥
नानुकीर्त्या गुणास्तस्य धर्मतः शीलतस्तथा ।
प्रजापतेः पुत्र इति वक्तुं शक्यं हि नामतः ॥७-२-५॥
प्रजापतिसुतत्वेन देवानां वल्लभो हि सः ।
हृष्टः सर्वस्य लोकस्य गुणैः शुभ्रैर्महामतिः ॥७-२-६॥
स तु धर्मप्रसङ्गेन मेरोः पार्श्वे महागिरेः ।
तृणविन्द्वाश्रमं गत्वा न्यवसन्मुनिपुङ्गवः ॥७-२-७॥
तपस्तेपे स धर्मात्मा स्वाध्यायनियतेन्द्रियः ।
गत्वाश्रमपदं तस्य विघ्नं कुर्वन्ति कन्यकाः ॥७-२-८॥
देवपन्नगकन्याश्च राजर्षितनयाश्च याः ।
क्रीडन्त्योऽप्सरसश्चैव तं देशमुपपेदिरे ॥७-२-९॥
सर्वर्तुषृपभोग्यत्वाद्रम्यत्वात्काननस्य च ।
नित्यशस्तास्तु तं देशं गत्वा क्रीडन्ति कन्यकाः ॥७-२-१०॥
देशस्य रमणीयत्वात्पुलस्त्यो यत्र स द्विजः ।
गायन्त्यो वादयन्त्यश्च लासयन्त्यस्तथैव च ।
मुनेस्तपस्विनस्तस्य विघ्नं चक्रुरनिन्दिताः ॥७-२-११॥
अथ क्रुद्धो महातेजा व्याजहार महामुनिः ।
या मे दर्शनमागच्छेत्सा गर्भं धारयिष्यति ॥७-२-१२॥
तास्तु सर्वाः प्रतिश्रुत्य तस्य वाक्यं महात्मनः ।
ब्रह्मशापभयाद्भीतास्तं देशं नोपचक्रमुः ॥७-२-१३॥
तृणबिन्दोस्तु राजर्षेस्तनया न शृणोति तत् ॥७-२-१४॥
गत्वाश्रमपदं तत्र विचचार सुनिर्भया ।
न सापश्यत्स्थिता तत्र काञ्चिदभ्यागतां सखीम् ॥७-२-१५॥
तस्मिन्काले महातेजाः प्राजापत्यो महानृषिः ।
स्वाध्यायमकरोत्तत्र तपसा भावितः स्वयम् ॥७-२-१६॥
सा तु वेदश्रुतिं श्रुत्वा दृष्ट्वा वै तपसो निधिम् ।
अभवत्पाण्डुदेहा सा सुव्यञ्जितशरीरजा ॥७-२-१७॥
वभूव च समुद्विग्ना दृष्ट्वा तद्दोषमात्मनः ।
इदं मे किन्त्विति ज्ञात्वा पितुर्गत्वाऽऽश्रमे स्थिता ॥७-२-१८॥
तां तु दृष्ट्वा तथाभूतां तृणविन्दुरथाब्रवीत् ।
किं त्वमेतत्त्वसदृशं धारयस्यात्मनो वपुः ॥७-२-१९॥
सा तु कृत्वाञ्जलिं दीना कन्योवाच तपोधनम् ।
न जाने कारणं तात येन मे रूपमीदृशम् ॥७-२-२०॥
किं तु पूर्वं गतास्म्येका महर्षेर्भावितात्मनः ।
पुलस्त्यस्याश्रमं दिव्यमन्वेष्टुं स्वसखीजनम् ॥७-२-२१॥
न च पश्याम्यहं तत्र काञ्चिदभ्यागतां सखीम् ।
रूपस्य तु विपर्यासं दृष्ट्वा त्रासादिहागता ॥७-२-२२॥
तृणबिन्दुस्तु राजर्षिस्तपसा द्योतितप्रभः ।
ध्यानं विवेश तच्चापि ह्यपश्यदृषिकर्मजम् ॥७-२-२३॥
स तु विज्ञाय तं शापं महर्षेर्भावितात्मनः ।
गृहीत्वा तनयां गत्वा पुलस्त्यमिदमब्रवीत् ॥७-२-२४॥
भगवंस्तनयां मे त्वं गुणैः स्वैरेव भूषिताम् ।
भिक्षां प्रतिगृहाणेमां महर्षे स्वयमुद्यताम् ॥७-२-२५॥
तपश्चरणयुक्तस्य श्रम्यमाणेन्द्रियस्य ते ।
शुश्रूषणपरा नित्यं भविष्यति न संशयः ॥७-२-२६॥
तं ब्रुवाणं तु तद्वाक्यं राजर्षिं धार्मिकं तदा ।
जिघृक्षुरब्रवीत्कन्यां बाढमित्येव स द्विजः ॥७-२-२७॥
दत्त्वा स तु यथान्यायं स्वमाश्रमपदं गतः ।
सापि तत्रावसत्कन्या तोषयन्ती पतिं गुणैः ॥७-२-२८॥
तस्यास्तु शीलवृत्ताभ्यां तुतोष मुनिपुङ्गवः ।
प्रीतः स तु महातेजा वाक्यमेतदुवाच ह ॥७-२-२९॥
परितुष्टोऽस्मि सुश्रोणि गुणानां सम्पदा भृशम् ।
तस्माद्देवि ददाम्यद्य पुत्रमात्मसमं तव ॥७-२-३०॥
उभयोर्वंशकर्तारं पौलस्त्य इति विश्रुतम् ।
यस्मात्तु विश्रुतो वेदस्त्वयैषोऽध्ययतो मम ॥७-२-३१॥
तस्मात्स विश्रवा नाम भविष्यति न संशयः ।
एवमुक्ता तु सा देवी प्रहृष्टेनान्तरात्मना ॥७-२-३२॥
अचिरेणैव कालेनासूत विश्रवसं सुतम् ।
त्रिषु लोकेषु विख्यातं यशोधर्मसमन्वितम् ॥७-२-३३॥
श्रुतिमान्समदर्शी च व्रताचाररतस्तथा ।
पितेव तपसा युक्तो ह्यभवद्विश्रवा मुनिः ॥७-२-३४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पौलस्योत्पत्तिः नाम द्वितीयः सर्गः ॥७-२॥
Previous
रामप्रश्नः
Next
वैश्रवणलोकपालपदलङ्कादिप्राप्तिः