रामप्रश्नः
उत्तरकाण्डः / रामप्रश्नः
Script
Translation
Next
पौलस्योत्पत्तिः
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे रामप्रश्नः नाम प्रथमः सर्गः ॥७-१॥
प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते ।
आजग्मुर्ऋषयः सर्वे राघवं प्रतिनन्दितुम् ॥७-१-१॥
कौशिकोऽथ यवक्रीतो गार्ग्यो गालव एव च ।
कण्वो मेधातिथेः पुत्रः पूर्वस्यां दिशि ये श्रिताः ॥७-१-२॥
स्वस्त्यात्रेयोऽथ भगवान्नमुचिः प्रमुचिस्तथा ।
आजग्मुस्ते सहागस्त्या ये श्रिता दक्षिणां दिशम् ॥७-१-३॥
नृषद्गुः कवषो धौम्यो रौद्रेयश्च महानृषिः ।
तेऽप्याजग्मुः सशिष्या वै ये श्रिताः पश्चिमां दिशम् ॥७-१-४॥
वसिष्ठः कश्यपोऽथात्रिर्विश्वामित्रः सगौतमः ।
जमदग्निर्भरद्वाजस्तेऽपि सप्तर्षयस्तथा ॥७-१-५॥
उदीच्यां दिशि सप्तैते नित्यमेव निवासिनः ॥७-१-६॥
सम्प्राप्य ते महात्मानो राघवस्य निवेशनम् ।
विष्टिताः प्रतिहारार्थं हुताशनसमप्रभाः ।
वेदवेदाङ्गविदुषो नानाशास्त्रविशारदाः ॥७-१-७॥
द्वाःस्थं प्रोवाच धर्मात्मा अगस्त्यो मुनिसत्तमः ।
निवेद्यतां दाशरथेर्ऋषीनस्मान्समागतान् ॥७-१-८॥
प्रतीहारस्ततस्तूर्णमगस्त्यवचनाद्द्रुतम् ।
समीपं राघवस्याशु प्रविवेश महात्मनः ॥७-१-९॥
नयेङ्गितज्ञः सद्वृत्तो दक्षो धैर्यसमन्वितः ।
स रामं दृश्य सहसा पूर्णचन्द्रसमप्रभम् ॥७-१-१०॥
अगस्त्यं कथयामास सम्प्राप्तमृषिभिः सह ॥७-१-११॥
श्रुत्वा प्राप्तान्मुनींस्तांस्तु बालसूर्यसमप्रभान् ।
प्रत्युवाच ततो द्वास्स्थं प्रवेशय यथासुखम् ॥७-१-१२॥
तान् सम्प्राप्तान् मुनीन् दृष्ट्वा प्रत्युत्थाय कृताञ्जलिः ।
पाद्यार्घ्यादिभिरानर्च गां निवेद्य च सादरम् ॥७-१-१३॥
रामोऽभिवाद्य प्रयत आसनान्यादिदेश ह ।
तेषु काञ्चनचित्रेषु महत्सु च वरेषु च ॥७-१-१४॥
कुशान्तर्धानदत्तेषु मृगचर्मयुतेषु च ।
यथार्हमुपविष्टास्ते आसनेष्वृषिपुङ्गवाः ॥७-१-१५॥
रामेण कुशलं पृष्टाः सशिष्याः सपुरोगमाः ।
महर्षयो वेदविदो रामं वचनमब्रुवन् ॥७-१-१६॥
कुशलं नो महाबाहो सर्वत्र रघुनन्दन ।
त्वां तु दिष्ट्या कुशलिनं पश्यामो हतशात्रवम् ॥७-१-१७॥
दिष्ट्या त्वया हतो राजन्रावणो लोकरावणः ।
न हि भारः स ते राम रावणः पुत्रपौत्रवान् ॥७-१-१८॥
सधनुस्त्वं हि लोकांस्त्रीन्विजयेथा न संशयः ।
दिष्ट्या त्वया हतो राम रावणो राक्षसेश्वरः ॥७-१-१९॥
दिष्ट्या विजयिनं त्वाद्य पश्यामः सह सीतया ।
लक्ष्मणेन च धर्मात्मन्भ्रात्रा त्वद्धितकारिणा ॥७-१-२०॥
मातृभिर्भ्रातृसहितं पश्यामोऽद्य वयं नृप ।
दिष्ट्या प्रहस्तो विकटो विरूपाक्षो महोदरः ।
अकम्पनश्च दुर्धर्षो निहतास्ते निशाचराः ॥७-१-२१॥
यस्य प्रमाणाद्विपुलं प्रमाणं नेह विद्यते ।
दिष्ट्या ते समरे राम कुम्भकर्णो निपातितः ॥७-१-२२॥
त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ ।
दिष्ट्या ते निहता राम महावीर्या निशाचराः ॥७-१-२३॥
कुम्भश्चैव निकुम्भश्च राक्षसौ भीमदर्शनौ ।
दिष्ट्या तौ निहतौ राम कुम्भकर्णसुतौ मृधे ॥७-१-२४॥
युद्धोन्मत्तश्च मत्तश्च कालान्तकयमोपमौ ।
यज्ञकोपश्च बलवान्धूम्राक्षो नाम राक्षसः ॥७-१-२५॥
कुर्वन्तः कदनं घोरमेते शस्त्रास्त्रपारगाः ।
अन्तकप्रतिमैर्बाणैर्दिष्ट्या विनिहतास्त्वया ॥७-१-२६॥
दिष्ट्या त्वं राक्षसेन्द्रेण द्वन्द्वयुद्धमुपागतः ।
देवतानामवध्येन विजयं प्राप्तवानसि ॥७-१-२७॥
सङ्ख्ये तस्य न किञ्चित्तु रावणस्य पराभवः ।
द्वन्द्वयुद्धमनुप्राप्तो दिष्ट्या ते रावणिर्हतः ॥७-१-२८॥
दिष्ट्या तस्य महाबाहो कालस्येवाभिधावतः ।
मुक्तः सुररिपोर्वीर प्राप्तश्च विजयस्त्वया ॥७-१-२९॥
अभिनन्दाम ते सर्वे संश्रुत्येन्द्रजितो वधम् ।
सोऽवध्यः सर्वभूतानां महामायाधरो युधि ॥७-१-३०॥
विस्मयस्त्वेष चास्माकं तच्छ्रुत्वेन्द्रजितं हतम् ॥७-१-३१॥
एते चान्ये च बहवो राक्षसाः कामरूपिणः ।
दिष्ट्या त्वया हता वीरा रघूणां कुलवर्द्धन ॥७-१-३२॥
दत्त्वा पुण्यामिमां वीर सौम्यामभयदक्षिणाम् दिष्ट्या वर्धसि काकुत्स्थ जयेनामित्रकर्शन ॥७-१-३३॥
श्रुत्वा तु तेषां वचनमृषीणां भावितात्मनाम् ।
विस्मयं परमं गत्वा रामः प्राञ्जलिरब्रवीत् ॥७-१-३४॥
भगवन्तः कुम्भकर्णं रावणं च निशाचरम् ।
अतिक्रम्य महावीर्यौ किं प्रशंसथ रावणिम् ॥७-१-३५॥
महोदरं प्रहस्तं च विरूपाक्षं च राक्षसम् ।
मत्तोन्मत्तौ च दुर्धर्षौ देवान्तकनरान्तकौ अतिक्रम्य महावीर्यान् किं प्रशंसथ रावणिम् ॥७-१-३६॥
अतिकायं त्रिशिरसं धूम्राक्षं च निशाचरम् ।
अतिक्रम्य महावीर्यान्किं प्रशंसथ रावणिम् ॥७-१-३७॥
कीदृशो वै प्रभावोऽस्य किं बलं कः पराक्रमः ।
केन वा कारणेनैष रावणादतिरिच्यते ॥७-१-३८॥
शक्यं यदि मया श्रोतुं न खल्वाज्ञापयामि वः ।
यदि गुह्यं न चेद्वक्तुं श्रोतुमिच्छामि कथ्यताम् ॥७-१-३९॥
शक्रोऽपि विजितस्तेन कथं लब्धवरश्च सः ।
कथं च बलवानन्पुत्रो न पिता तस्य रावणः ॥७-१-४०॥
कथं पितुश्चाभ्यधिको महाहवे शक्रस्य जेता हि कथं स राक्षसः ।
वराश्च लब्धाः कथयस्व मेऽद्य तत्पृच्छतश्चास्य मुनीन्द्र सर्वम् ॥७-१-४१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे रामप्रश्नः नाम प्रथमः सर्गः ॥७-१॥
Next
पौलस्योत्पत्तिः