श्रीराममहाप्रस्थानम्
उत्तरकाण्डः / श्रीराममहाप्रस्थानम्
Script
Translation
Previous
विभीषणाद्यादेशः
Next
सहानुगश्रीरामस्वर्गारोहः
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे श्रीराममहाप्रस्थानम् नाम नवाधिकशततमः सर्गः ॥७-१०९॥
प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः ।
रामः कमलपत्राक्षः पुरोधसमथाब्रवीत् ॥७-१०९-१॥
अग्निहोत्रं व्रजत्वग्रे दीप्यमानं सह द्विजैः ।
वाजपेयातपत्रं च शोभमानं महापथे ॥७-१०९-२॥
ततो वसिष्ठस्तेजस्वी सर्वं निरवशेषतः ।
चकार विधिवद्धर्मं महाप्रास्थानिकं विधिम् ॥७-१०९-३॥
ततः सूक्ष्माम्बरधरो ब्रह्ममावर्तयन्परम् ।
कुशान्गृहीत्वा पाणिभ्यां प्रसज्य प्रययावथ ॥७-१०९-४॥
अव्याहरन्क्वचित्किञ्चिन्निश्चेष्टो निःसुखः पथि ।
निर्जगाम गृहात्तस्माद्दीप्यमान इवांशुमान् ॥७-१०९-५॥
रामस्य दक्षिणे पार्श्वे सपद्मा श्रीरपाश्रिता ।
सव्ये तु ह्रीर्महादेवी व्यवसायस्तथाग्रतः ॥७-१०९-६॥
शरा नानाविधाश्चापि धनुरायतमुत्तमम् ।
तथाऽऽयुधानि ते सर्वे ययुः पुरुषविग्रहाः ॥७-१०९-७॥
वेदा ब्राह्मणरूपेण गायत्री सर्वरक्षिणी ।
ओङ्कारोऽथ वषट्कारः सर्वे राममनुव्रताः ॥७-१०९-८॥
ऋषयश्च महात्मानः सर्व एव महीसुराः ।
अन्वगच्छन्महात्मानं स्वर्गद्वारमपावृतम् ॥७-१०९-९॥
तं यान्तमनुगच्छन्ति ह्यन्तःपुरचराः स्त्रियः ।
सवृद्धबालदासीकाः सवर्षवरकिङ्कराः ॥७-१०९-१०॥
सान्तःपुरश्च भरतः शत्रुघ्नसहितो ययौ ।
रामं गतिमुपागम्य साग्निहोत्रमनुव्रतः ॥७-१०९-११॥
ते च सर्वे महात्मानः साग्निहोत्राः समागताः ।
सपुत्रदाराः काकुत्स्थमनुजग्मुर्महामतिम् ॥७-१०९-१२॥
मन्त्रिणो भृत्यवर्गाश्च सपुत्रपशुबान्धवाः ।
सर्वे सहानुगा राममन्वगच्छन्प्रहृष्टवत् ॥७-१०९-१३॥
ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताः ।
गच्छन्तमन्वगछंस्तं राघवं गुणरञ्जिताः ॥७-१०९-१४॥
ततः सस्त्रीपुमांसस्ते सपक्षिपशुवाहनाः ।
राघवस्यानुगाः सर्वे हृष्टा विगतकल्मषाः ॥७-१०९-१५॥
स्नाताः प्रमुदिताः सर्वे हृष्टाः पुष्टाश्च वानराः ।
दृढं किलकिलाशब्दैः सर्वं राममनुव्रतम् ॥७-१०९-१६॥
न तत्र कश्चिद्दीनो वा व्रीडितो वाऽपि दुःखितः ।
हृष्टं समुदितं सर्वं बभूव परमाद्भुतम् ॥७-१०९-१७॥
द्रष्टुकामोऽथ निर्यान्तं रामं जानपदो जनः ।
यः प्राप्तः सोऽपि दृष्ट्वैव स्वर्गायानुगतो मुदा ॥७-१०९-१८॥
ऋक्षवानररक्षांसि जनाश्च पुरवासिनः ।
आगच्छन्परया भक्त्या पृष्ठतः सुसमाहिताः ॥७-१०९-१९॥
यानि भूतानि नगरेऽप्यन्तर्धानगतानि च ।
राघवं तान्यनुययुः स्वर्गाय समुपस्थितम् ॥७-१०९-२०॥
यानि पश्यन्ति काकुत्स्थं स्थावराणि चराणि च ।
सर्वाणि रामगमने ह्यनुजग्मुर्हि तान्यपि ॥७-१०९-२१॥
नोच्छ्वसत्तदयोध्यायां सुसूक्ष्ममपि दृश्यते ।
तिर्यग्योनिगताश्चापि सर्वे राममनुव्रताः ॥७-१०९-२२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे श्रीराममहाप्रस्थानम् नाम नवाधिकशततमः सर्गः ॥७-१०९॥
Previous
विभीषणाद्यादेशः
Next
सहानुगश्रीरामस्वर्गारोहः