विभीषणाद्यादेशः

उत्तरकाण्डः / विभीषणाद्यादेशः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे विभीषणाद्यादेशः नाम अष्टाधिकशततमः सर्गः ॥७-१०८॥
ते दूता रामवाक्येन चोदिता लघुविक्रमाः । प्रजग्मुर्मधुरां शीघ्रं चक्रुर्वासं न चाध्वनि ॥७-१०८-१॥
ते तु त्रिभिरहोरात्रैः सम्प्राप्य मधुरामथ । शत्रुघ्नाय यथातत्त्वमाचख्युः सर्वमेव तत् ॥७-१०८-२॥
लक्ष्मणस्य परित्यागं प्रतिज्ञां राघवस्य च । पुत्रयोरभिषेकं च पौरानुगमनं तथा ॥७-१०८-३॥
कुशस्य नगरी रम्या विन्ध्यपर्वतरोधसि । कुशावतीति नाम्ना सा कृता रामेण धीमता । श्रावस्तीति पुरी रम्या श्राविता च लवस्य ह ॥७-१०८-४॥
अयोध्यां विजनां कृत्वा राघवो भरतस्तथा । स्वर्गस्य गमनोद्योगं कृतवन्तौ महारथौ ॥७-१०८-५॥
एवं सर्वं निवेद्याशु शत्रुघ्नाय महात्मने । विरेमुस्ते ततो दूतास्त्वर राजेति चाब्रुवन् ॥७-१०८-६॥
तच्छ्रुत्वा घोरसङ्काशं कुलक्षयमुपस्थितम् । प्रकृतीस्तु समानीय काञ्चनं च पुरोधसम् ॥७-१०८-७॥
तेषां सर्वं यथावृत्तमब्रवीद्रघनन्दनः । आत्मनश्च विपर्यासं भविष्यं भ्रातृभिः सह ॥७-१०८-८॥
ततः पुत्रद्वयं वीरः सोऽभ्यषिञ्चन्नराधिपः । सुबाहुर्मधुरां लेभे शत्रुघाती च वैदिशम् ॥७-१०८-९॥
द्विधा कृत्वा तु तां सेनां माधुरीं पुत्रयोर्द्वयोः । धनं च युक्तं कृत्वा वै स्थापयामास पार्थिवः ॥७-१०८-१०॥
सुबाहुं मधुरायां च वैदेशे शत्रुघातिनम् । ययौ स्थाप्य तदाऽयोध्यां रथेनैकेन राघवः ॥७-१०८-११॥
स ददर्श महात्मानं ज्वलन्तमिव पावकम् । सूक्ष्मक्षौमाम्बरधरं मुनिभिः सार्धमक्षयैः ॥७-१०८-१२॥
सोऽभिवाद्य ततो रामं प्राञ्जलिः प्रयतेन्द्रियः । उवाच वाक्यं धर्मज्ञं धर्ममेवानुचिन्तयन् ॥७-१०८-१३॥
कृत्वाभिषेकं सुतयोर्द्वयो राघवनन्दन । तवानुगमने राजन्विद्धि मां कृतनिश्चयम् ॥७-१०८-१४॥
न चान्यदपि वक्तव्यमतो वीर न शासनम् । विलोक्यमानमिच्छामि मद्विधेन विशेषतः ॥७-१०८-१५॥
तस्य तां बुद्धिमक्लीबां विज्ञाय रघुनन्दनः । बाढमित्येव शत्रुघ्नं रामो वाक्यमुवाच ह ॥७-१०८-१६॥
तस्य वाक्यस्य वाक्यान्ते वानराः कामरूपिणः । ऋक्षराक्षससङ्घाश्च समापेतुरनेकशः ॥७-१०८-१७॥
सुग्रीवं ते पुरस्कृत्य सर्व एव समागताः । तं रामं द्रष्टुमनसः स्वर्गायाभिमुखं स्थितम् ॥७-१०८-१८॥
देवपुत्रा ऋषिसुता गन्धर्वाणां सुतास्तथा । रामक्षयं विदित्वा ते सर्व एव समागताः ॥७-१०८-१९॥
ते राममभिवाद्योचुः सर्वे वानरराक्षसाः । तवानुगमने राजन्सम्प्राप्ताः कृतनिश्चयाः ॥७-१०८-२०॥
यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषोत्तम । यमदण्डमिवोद्यम्य त्वया स्म विनिपातिताः ॥७-१०८-२१॥
तैरेवमुक्तः काकुत्स्थो बाढमित्यब्रवीत् स्मयन् ॥७-१०८-२२॥
एतस्मिन्नन्तरे रामं सुग्रीवोऽपि महाबलः । प्रणम्य विधिवद्वीरं विज्ञापयितुमुद्यतः ॥७-१०८-२३॥
अभिषिच्याङ्गदं वीरमागतोऽस्मि नरेश्वर । तवानुगमने राजन्विद्धि मां कृतनिश्चयम् ॥७-१०८-२४॥
तस्य तद्वचनं श्रुत्वा रामो रमयतां वरः । वानरेन्द्रमथोवाचं मैत्रं तस्यानुचिन्तयन् ॥७-१०८-२५॥
सखे शृणुष्व सुग्रीव न त्वयाऽहं विनाकृतः । गच्छेयं देवलोकं वा परमं वा पदं महत् ॥७-१०८-२६॥
बिभीषणमथोवाच राक्षसेन्द्रं महायशाः । यावत्प्रजा धरिष्यन्ति तावत्त्वं वै बिभीषण । राक्षसेन्द्र महावीर्य लङ्कास्थस्त्वं धरिष्यसि ॥७-१०८-२७॥
यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी । यावच्च मत्कथा लोके तावद्राज्यं तवास्त्विह ॥७-१०८-२८॥
शासितस्त्वं सखित्वेन कार्यं ते मम शासनम् । प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुमर्हसि ॥७-१०८-२९॥
किञ्चान्यद्वक्तुमिच्छामि राक्षसेन्द्र महामते ॥७-१०८-३०॥
आराधय जगन्नाथमिक्ष्वाकुकुलदैवतम् । आराधनीयमनिशं सर्वैर्दैवैः सवासवैः ॥७-१०८-३१॥
तथेति प्रतिजग्राह रामवाक्यं विभीषणः । राजा राक्षसमुख्यानां राघवाज्ञामनुस्मरन् ॥७-१०८-३२॥
तमेवमुक्त्वा काकुत्स्थो हनूमन्तमथाब्रवीत् । जीविते कृतबुद्धिस्त्वं मा प्रतिज्ञां विलोपय ॥७-१०८-३३॥
मत्कथाः प्रचरिष्यन्ति यावल्लोके हरीश्वर । तावद्रमस्व सुप्रीतो मद्वाक्यमनुपालयन् ॥७-१०८-३४॥
एवमुक्तस्तु हनुमान्राघवेण महात्मना । वाक्यं विज्ञापयामास परं हर्षमवाप्य च ॥७-१०८-३५॥
यावत्तव कथा लोके विचरिष्यति पावनी । तावत्स्थास्यामि मेदिन्यां तवाज्ञामनुपालयन् ॥७-१०८-३६॥
जाम्बवन्तं तथोक्त्वा तु वृद्धं ब्रह्मसुतं तथा । मैन्दं च द्विविदं चैव पञ्च जाम्बवता सह । यावत्कलिश्च सम्प्राप्तस्तावज्जीवत सर्वदा ॥७-१०८-३७॥
तानेवमुक्त्वा काकुत्स्थः सर्वांस्तानृक्षवानरान् । उवाच बाढं गच्छध्वं मया सार्धं यथेप्सितम् ॥७-१०८-३८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे विभीषणाद्यादेशः नाम अष्टाधिकशततमः सर्गः ॥७-१०८॥