दुर्वासोऽभिगमः
उत्तरकाण्डः / दुर्वासोऽभिगमः
Script
Translation
Previous
पितामहवाक्यकथनम्
Next
लक्ष्मणपरित्यागः
अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे दुर्वासोऽभिगमः नाम पञ्चाधिकशततमः सर्गः ॥७-१०५॥
तथा तयोः संवदतोर्दुर्वासा भगवानृषिः ।
रामस्य दर्शनाकाङ्क्षी राजद्वारमुपागमत् ॥७-१०५-१॥
सोऽभिगम्य तु सौमित्रिमुवाच ऋषिसत्तमः ।
रामं दर्शय मे शीघ्रं पुरा मेऽर्थोऽतिवर्तते ॥७-१०५-२॥
मुनेस्तु भाषितं श्रुत्वा लक्ष्मणः परवीरहा ।
अभिवाद्य महात्मानं वाक्यमेतदुवाच ह ॥७-१०५-३॥
किं कार्यं ब्रूहि भगवन्को वाऽर्थः किं करोम्यहम् ।
व्यग्रो हि राघवो ब्रह्मन्मुहूर्तं प्रतिपाल्यताम् ॥७-१०५-४॥
तच्छ्रुत्वा ऋषिशार्दूलः क्रोधेन कलुषीकृतः ।
उवाच लक्ष्मणं वाक्यं निर्दहन्निव चक्षुषा ॥७-१०५-५॥
अस्मिन्क्षणे मां सौमित्रे रामाय प्रतिवेदय ।
अस्मिन्क्षणे मां सौमित्रे न निवेदयसे यदि ॥७-१०५-६॥
विषयं त्वां पुरं चैव शपिष्ये राघवं तथा ।
भरतं चैव सौमित्रे युष्माकं या च सन्ततिः ॥७-१०५-७॥
न हि शक्ष्याम्यहं भूयो मन्युं धारयितुं हृदि ।
तच्छ्रुत्वा घोरसङ्काशं वाक्यं तस्य महात्मनः ।
चिन्तयामास मनसा तस्य वाक्यस्य निश्चयम् ॥७-१०५-८॥
एकस्य मरणं मेऽस्तु मा भूत्सर्वविनाशनम् ।
इति बुद्ध्या विनिश्चित्य राघवाय न्यवेदयत् ॥७-१०५-९॥
लक्ष्मणस्य वचः श्रुत्वा रामः कालं विसृज्य च ।
निस्सृत्य त्वरितं राजा अत्रेः पुत्रं ददर्श ह ॥७-१०५-१०॥
सोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।
किं कार्यमिति काकुत्स्थः कृताञ्जलिरभाषत ॥७-१०५-११॥
तद्वाक्यं राघवेणोक्तं श्रुत्वा मुनिवरः प्रभुम् ।
प्रत्याह रामं दुर्वासाः श्रूयतां धर्मवत्सल ॥७-१०५-१२॥
अद्य वर्षसहस्रस्य समाप्तिस्तपसो मम ।
सोऽहं भोजनमिच्छामि यथासिद्धं तवानघ ॥७-१०५-१३॥
तच्छ्रुत्वा वचनं राजा राघवः प्रीतमानसः ।
भोजनं मुनिमुख्याय यथासिद्धमुपाहरत् ॥७-१०५-१४॥
स तु भुक्त्वा मुनिश्रेष्ठस्तदन्नममृतोपमम् ।
साधु रामेति सम्भाष्य स्वमाश्रममुपागमत् ॥७-१०५-१५॥
तस्मिन् गते मुनिवरे स्वाश्रमं लक्ष्मणाग्रजः ।
संस्मृत्य कालवाक्यानि ततो दुःखमुपागमत् ॥७-१०५-१६॥
दुःखेन च सुसन्तप्तः स्मृत्वा तद्घोरदर्शनम् ।
अवाङ्मुखो दीनमना व्याहर्तुं न शशाक ह ॥७-१०५-१७॥
ततो बुद्ध्या विनिश्चित्य कालवाक्यानि राघवः ।
नैतदस्तीति निश्चित्य तूष्णीमासीन्महायशाः ॥७-१०५-१८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे दुर्वासोऽभिगमः नाम पञ्चाधिकशततमः सर्गः ॥७-१०५॥
Previous
पितामहवाक्यकथनम्
Next
लक्ष्मणपरित्यागः