पितामहवाक्यकथनम्

उत्तरकाण्डः / पितामहवाक्यकथनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे उत्तरकाण्डे पितामहवाक्यकथनम् नाम चतुरधिकशततमः सर्गः ॥७-१०४॥
शृणु राजन्महासत्व यदर्थमहमागतः । पितामहेन देवेन प्रेषितोऽस्मि महाबल ॥७-१०४-१॥
तवाहं पूर्वसद्भावे पुत्रः परपुरञ्जय । मायासम्भावितो वीर कालः सर्वसमाहरः ॥७-१०४-२॥
पितामहश्च भगवानाह लोकपतिः प्रभुः । समयस्ते कृतः सौम्य लोकान्सम्परिरक्षितुम् ॥७-१०४-३॥
सङ्क्षिप्य हि पुरा लोकान्मायया स्वयमेव हि । महार्णवे शयानोऽप्सु मां त्वं पूर्वमजीजनः ॥७-१०४-४॥
भोगवन्तं ततो नागमनन्तमुदकेशयम् । मायया जनयित्वा त्वं द्वौ च सत्त्वौ महाबलौ ॥७-१०४-५॥
मधुं च कैटभं चैव ययोरस्थिचयैर्वृता । इयं पर्वतसम्बाधा मेदिनी चाभवन्मही ॥७-१०४-६॥
पद्मे दिव्येऽर्कसङ्काशे नाभ्यामुत्पाद्य मामपि । प्राजापत्यं त्वया कर्म मयि सर्वं निवेशितम् ॥७-१०४-७॥
सोऽहं सन्न्यस्तभारो हि त्वामुपासे जगत्पतिम् । रक्षां विधत्स्व भूतेषु मम तेजस्करो भवान् ॥७-१०४-८॥
ततस्त्वमपि दुर्धर्षात्तस्माद्भावात्सनातनात् । रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ॥७-१०४-९॥
अदित्यां वीर्यवान्पुत्रो भ्रातऽणां वीर्यवर्धनः । समुत्पन्नेषु कृत्येषु तेषां साह्याय कल्पसे ॥७-१०४-१०॥
स त्वं वित्रास्यमानासु प्रजासु जगतां वर । रावणस्य वधाकाङ्क्षी मानुषेषु मनोऽदधाः ॥७-१०४-११॥
दश वर्षसहस्राणि दश वर्षशतानि च । कृत्वा वासस्य नियतिं स्वयमेवात्मना पुरा ॥७-१०४-१२॥
स त्वं मनोमयः पुत्रः पूर्णायुर्मानुषेष्विह । कालोऽयं ते नरश्रेष्ठ समीपमुपवर्तितुम् ॥७-१०४-१३॥
यदि भूयो महाराज प्रजा इच्छस्युपासितुम् । वस वा वीर भद्रं त एवमाह पितामहः ॥७-१०४-१४॥
अथ वा विजिगीषा ते सुरलोकाय राघव । सनाथा विष्णुना देवा भवन्तु विगतज्वराः ॥७-१०४-१५॥
श्रुत्वा पितामहेनोक्तं वाक्यं कालसमीरितम् । राघवः प्रहसन्वाक्यं सर्वसंहारमब्रवीत् ॥७-१०४-१६॥
श्रुत्वा मे देवदेवस्य वाक्यं परममद्भुतम् । प्रीतिर्हि महती जाता तवागमनसम्भवा ॥७-१०४-१७॥
त्रयाणामपि लोकानां कार्यार्थं मम सम्भवः । भद्रं तेऽस्तु गमिष्यामि यत एवाहमागतः ॥७-१०४-१८॥
हद्गतो ह्यसि सम्प्राप्तो न मे तत्र विचारणा । मया हि सर्वकृत्येषु देवानां वशवर्तिनाम् । स्थातव्यं सर्वसंहार यथा ह्याह पितामहः ॥७-१०४-१९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पितामहवाक्यकथनम् नाम चतुरधिकशततमः सर्गः ॥७-१०४॥