हनुमन्मन्त्रः
किष्किन्धाकाण्डः / हनुमन्मन्त्रः
Script
Translation
Previous
लक्ष्मणक्रोधः
Next
तारासान्त्ववचनम्
अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे हनुमन्मन्त्रः नाम द्वात्रिंशः सर्गः ॥४-३२॥
अङ्गदस्य वचः श्रुत्वा सुग्रीवः सचिवैः सह ।
लक्ष्मणं कुपितं श्रुत्वा मुमोचासनमात्मवान् ॥४-३२-१॥
स च तानब्रवीद् वाक्यं निश्चित्य गुरुलाघवम् ।
मन्त्रज्ञान् मन्त्रकुशलो मन्त्रेषु परिनिष्ठितः ॥४-३२-२॥
न मे दुर्व्याहृतं किंचिन्नापि मे दुरनुष्ठितम् ।
लक्ष्मणो राघवभ्राता क्रुद्धः किमिति चिन्तये ॥४-३२-३॥
असुहृद्भिर्ममामित्रैर्नित्यमन्तरदर्शिभिः ।
मम दोषानसम्भूतान् श्रावितो राघवानुजः ॥४-३२-४॥
अत्र तावद् यथाबुद्धिः सर्वैरेव यथाविधि ।
भावस्य निश्चयस्तावद् विज्ञेयो निपुणं शनैः ॥४-३२-५॥
न खल्वस्ति मम त्रासो लक्ष्मणान्नापि राघवात् ।
मित्रं स्वस्थानकुपितं जनयत्येव सम्भ्रमम् ॥४-३२-६॥
सर्वथा सुकरं मित्रं दुष्करं प्रतिपालनम् ।
अनित्यत्वात् तु चित्तानां प्रीतिरल्पेऽपि भिद्यते ॥४-३२-७॥
अतो निमित्तं त्रस्तोऽहं रामेण तु महात्मना ।
यन्ममोपकृतं शक्यं प्रतिकर्तुं न तन्मया ॥४-३२-८॥
सुग्रीवेणैवमुक्ते तु हनूमान् हरिपुंगवः ।
उवाच स्वेन तर्केण मध्ये वानरमन्त्रिणाम् ॥४-३२-९॥
सर्वथा नैतदाश्चर्यं यत् त्वं हरिगणेश्वर ।
न विस्मरसि सुस्निग्धमुपकारं कृतं शुभम् ॥४-३२-१०॥
राघवेण तु वीरेण भयमुत्सृज्य दूरतः ।
त्वत्प्रियार्थं हतो वाली शक्रतुल्यपराक्रमः ॥४-३२-११॥
सर्वथा प्रणयात् क्रुद्धो राघवो नात्र संशयः ।
भ्रातरं सम्प्रहितवाँल्लक्ष्मणं लक्ष्मिवर्धनम् ॥४-३२-१२॥
त्वं प्रमत्तो न जानीषे कालं कालविदां वर ।
फुल्लसप्तच्छदश्यामा प्रवृत्ता तु शरच्छुभा ॥४-३२-१३॥
निर्मलग्रहनक्षत्रा द्यौः प्रणष्टबलाहका ।
प्रसन्नाश्च दिशः सर्वाः सरितश्च सरांसि च ॥४-३२-१४॥
प्राप्तमुद्योगकालं तु नावैषि हरिपुंगव ।
त्वं प्रमत्त इति व्यक्तं लक्ष्मणोऽयमिहागतः ॥४-३२-१५॥
आर्तस्य हृतदारस्य परुषं पुरुषान्तरात् ।
वचनं मर्षणीयं ते राघवस्य महात्मनः ॥४-३२-१६॥
कृतापराधस्य हि ते नान्यत् पश्याम्यहं क्षमम् ।
अन्तरेणाञ्जलिं बद्ध्वा लक्ष्मणस्य प्रसादनात् ॥४-३२-१७॥
नियुक्तैर्मन्त्रिभिर्वाच्यो ह्यवश्यं पार्थिवो हितम् ।
इत एव भयं त्यक्त्वा ब्रवीम्यवधृतं वचः ॥४-३२-१८॥
अभिक्रुद्धः समर्थो हि चापमुद्यम्य राघवः ।
सदेवासुरगन्धर्वं वशे स्थापयितुं जगत् ॥४-३२-१९॥
न स क्षमः कोपयितुं यः प्रसाद्यः पुनर्भवेत् ।
पूर्वोपकारं स्मरता कृतज्ञेन विशेषतः ॥४-३२-२०॥
तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः ससुहृज्जनः ।
राजंस्तिष्ठ स्वसमये भर्तुर्भार्येव तद्वशे ॥४-३२-२१॥
न रामरामानुजशासनं त्वया कपीन्द्र युक्तं मनसाप्यपोहितुम् ।
मनो हि ते ज्ञास्यति मानुषं बलं सराघवस्यास्य सुरेन्द्रवर्चसः ॥४-३२-२२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे हनुमन्मन्त्रः नाम द्वात्रिंशः सर्गः ॥४-३२॥
Previous
लक्ष्मणक्रोधः
Next
तारासान्त्ववचनम्