लक्ष्मणक्रोधः

किष्किन्धाकाण्डः / लक्ष्मणक्रोधः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे लक्ष्मणक्रोधः नाम एकत्रिंशः सर्गः ॥४-३१॥
स कामिनं दीनमदीनसत्त्वं शोकाभिपन्नं समुदीर्णकोपम् । नरेन्द्रसूनुर्नरदेवपुत्रं रामानुजः पूर्वजमित्युवाच ॥४-३१-१॥
न वानरः स्थास्यति साधुवृत्ते न मन्यते कर्मफलानुषङ्गान् । न भोक्ष्यते वानरराज्यलक्ष्मीं तथा हि नातिक्रमतेऽस्य बुद्धिः ॥४-३१-२॥
मतिक्षयाद् ग्राम्यसुखेषु सक्तस्तव प्रसादात् प्रतिकारबुद्धिः । हतोऽग्रजं पश्यतु वीरवालिनं न राज्यमेवं विगुणस्य देयम् ॥४-३१-३॥
न धारये कोपमुदीर्णवेगं निहन्मि सुग्रीवमसत्यमद्य । हरिप्रवीरैः सह वालिपुत्रो नरेन्द्रपुत्र्या विचयं करोतु ॥४-३१-४॥
तमात्तबाणासनमुत्पतन्तं निवेदितार्थं रणचण्डकोपम् । उवाच रामः परवीरहन्ता स्ववीक्षितं सानुनयं च वाक्यम् ॥४-३१-५॥
नहि वै त्वद्विधो लोके पापमेवं समाचरेत् । कोपमार्येण यो हन्ति स वीरः पुरुषोत्तमः ॥४-३१-६॥
नेदमत्र त्वया ग्राह्यं साधुवृत्तेन लक्ष्मण । तां प्रीतिमनुवर्तस्व पूर्ववृत्तं च संगतम् ॥४-३१-७॥
सामोपहितया वाचा रूक्षाणि परिवर्जयन् । वक्तुमर्हसि सुग्रीवं व्यतीतं कालपर्यये ॥४-३१-८॥
सोऽग्रजेनानुशिष्टार्थो यथावत् पुरुषर्षभः । प्रविवेश पुरीं वीरो लक्ष्मणः परवीरहा ॥४-३१-९॥
ततः शुभमतिः प्राज्ञो भ्रातुः प्रियहिते रतः । लक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपेः ॥४-३१-१०॥
शक्रबाणासनप्रख्यं धनुः कालान्तकोपमम् । प्रगृह्य गिरिशृङ्गाभं मन्दरः सानुमानिव ॥४-३१-११॥
यथोक्तकारी वचनमुत्तरं चैव सोत्तरम् । बृहस्पतिसमो बुद्ध्या मत्वा रामानुजस्तदा ॥४-३१-१२॥
कामक्रोधसमुत्थेन भ्रातुः क्रोधाग्निना वृतः । प्रभञ्जन इवाप्रीतः प्रययौ लक्ष्मणस्ततः ॥४-३१-१३॥
सालतालाश्वकर्णांश्च तरसा पातयन् बलात् । पर्यस्यन् गिरिकूटानि द्रुमानन्यांश्च वेगितः ॥४-३१-१४॥
शिलाश्च शकलीकुर्वन् पद्भ्यां गज इवाशुगः । दूरमेकपदं त्यक्त्वा ययौ कार्यवशाद् द्रुतम् ॥४-३१-१५॥
तामपश्यद् बलाकीर्णां हरिराजमहापुरीम् । दुर्गामिक्ष्वाकुशार्दूलः किष्किन्धां गिरिसंकटे ॥४-३१-१६॥
रोषात् प्रस्फुरमाणोष्ठः सुग्रीवं प्रति लक्ष्मणः । ददर्श वानरान् भीमान् किष्किन्धायां बहिश्चरान् ॥४-३१-१७॥
तं दृष्ट्वा वानराः सर्वे लक्ष्मणं पुरुषर्षभम् । शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान् । जगृहुः कुञ्जरप्रख्या वानराः पर्वतान्तरे ॥४-३१-१८॥
तान् गृहीतप्रहरणान् सर्वान् दृष्ट्वा तु लक्ष्मणः । बभूव द्विगुणं क्रुद्धो बह्विन्धन इवानलः ॥४-३१-१९॥
तं ते भयपरीताङ्गा क्षुब्धं दृष्ट्वा प्लवंगमाः । कालमृत्युयुगान्ताभं शतशो विद्रुता दिशः ॥४-३१-२०॥
ततः सुग्रीवभवनं प्रविश्य हरिपुंगवाः । क्रोधमागमनं चैव लक्ष्मणस्य न्यवेदयन् ॥४-३१-२१॥
तारया सहितः कामी सक्तः कपिवृषस्तदा । न तेषां कपिसिंहानां शुश्राव वचनं तदा ॥४-३१-२२॥
ततः सचिवसंदिष्टा हरयो रोमहर्षणाः । गिरिकुञ्जरमेघाभा नगरान्निर्ययुस्तदा ॥४-३१-२३॥
नखदंष्ट्रायुधाः सर्वे वीरा विकृतदर्शनाः । सर्वे शार्दूलदंष्ट्राश्च सर्वे विवृतदर्शनाः ॥४-३१-२४॥
दशनागबलाः केचित् केचिद् दशगुणोत्तराः । केचिन्नागसहस्रस्य बभूवुस्तुल्यवर्चसः ॥४-३१-२५॥
ततस्तैः कपिभिर्व्याप्तां द्रुमहस्तैर्महाबलैः । अपश्यल्लक्ष्मणः क्रुद्धः किष्किन्धां तां दुरासदाम् ॥४-३१-२६॥
ततस्ते हरयः सर्वे प्राकारपरिखान्तरात् । निष्क्रम्योदग्रसत्त्वास्तु तस्थुराविष्कृतं तदा ॥४-३१-२७॥
सुग्रीवस्य प्रमादं च पूर्वजस्यार्थमात्मवान् । दृष्ट्वा क्रोधवशं वीरः पुनरेव जगाम सः ॥४-३१-२८॥
स दीर्घोष्णमहोच्छ्वासः कोपसंरक्तलोचनः । बभूव नरशार्दूलः सधूम इव पावकः ॥४-३१-२९॥
बाणशल्यस्फुरज्जिह्वः सायकासनभोगवान् । स्वतेजोविषसम्भूतः पञ्चास्य इव पन्नगः ॥४-३१-३०॥
तं दीप्तमिव कालाग्निं नागेन्द्रमिव कोपितम् । समासाद्याङ्गदस्त्रासाद् विषादमगमत् परम् ॥४-३१-३१॥
सोऽङ्गदं रोषताम्राक्षः संदिदेश महायशाः । सुग्रीवः कथ्यतां वत्स ममागमनमित्युत ॥४-३१-३२॥
एष रामानुजः प्राप्तस्त्वत्सकाशमरिंदम । भ्रातुर्व्यसनसंतप्तो द्वारि तिष्ठति लक्ष्मणः ॥४-३१-३३॥
तस्य वाक्यं यदि रुचिः क्रियतां साधु वानर । इत्युक्त्वा शीघ्रमागच्छ वत्स वाक्यमरिंदम ॥४-३१-३४॥
लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टोऽङ्गदोऽब्रवीत् । पितुः समीपमागम्य सौमित्रिरयमागतः ॥४-३१-३५॥
अथाङ्गदस्तस्य सुतीव्रवाचा सम्भ्रान्तभावः परिदीनवक्त्रः । निर्गत्य पूर्वं नृपतेस्तरस्वी ततो रुमायाश्चरणौ ववन्दे ॥४-३१-३६॥
संगृह्य पादौ पितुरुग्रतेजा जग्राह मातुः पुनरेव पादौ । पादौ रुमायाश्च निपीडयित्वा निवेदयामास ततस्तदर्थम् ॥४-३१-३७॥
स निद्राक्लान्तसंवीतो वानरो न विबुद्धवान् । बभूव मदमत्तश्च मदनेन च मोहितः ॥४-३१-३८॥
ततः किलकिलां चक्रुर्लक्ष्मणं प्रेक्ष्य वानराः । प्रसादयन्तस्तं क्रुद्धं भयमोहितचेतसः ॥४-३१-३९॥
ते महौघनिभं दृष्ट्वा वज्राशनिसमस्वनम् । सिंहनादं समं चक्रुर्लक्ष्मणस्य समीपतः ॥४-३१-४०॥
तेन शब्देन महता प्रत्यबुध्यत वानरः । मदविह्वलताम्राक्षो व्याकुलः स्रग्विभूषणः ॥४-३१-४१॥
अथाङ्गदवचः श्रुत्वा तेनैव च समागतौ । मन्त्रिणौ वानरेन्द्रस्य सम्मतोदारदर्शनौ ॥४-३१-४२॥
प्लक्षश्चैव प्रभावश्च मन्त्रिणावर्थधर्मयोः । वक्तुमुच्चावचं प्राप्तं लक्ष्मणं तौ शशंसतुः ॥४-३१-४३॥
प्रसादयित्वा सुग्रीवं वचनैः सार्थनिश्चितैः । आसीनं पर्युपासीनौ यथा शक्रं मरुत्पतिम् ॥४-३१-४४॥
सत्यसंधौ महाभागौ भ्रातरौ रामलक्ष्मणौ । मनुष्यभावं सम्प्राप्तौ राज्यार्हौ राज्यदायिनौ ॥४-३१-४५॥
तयोरेको धनुष्पाणिर्द्वारि तिष्ठति लक्ष्मणः । यस्य भीताः प्रवेपन्तो नादान् मुञ्चन्ति वानराः ॥४-३१-४६॥
स एष राघवभ्राता लक्ष्मणो वाक्यसारथिः । व्यवसायरथः प्राप्तस्तस्य रामस्य शासनात् ॥४-३१-४७॥
अयं च तनयो राजंस्ताराया दयितोऽङ्गदः । लक्ष्मणेन सकाशं ते प्रेषितस्त्वरयानघ ॥४-३१-४८॥
सोऽयं रोषपरीताक्षो द्वारि तिष्ठति वीर्यवान् । वानरान् वानरपते चक्षुषा निर्दहन्निव ॥४-३१-४९॥
तस्य मूर्ध्ना प्रणामं त्वं सपुत्रः सहबान्धवः । गच्छ शीघ्रं महाराज रोषो ह्यद्योपशाम्यताम् ॥४-३१-५०॥
यथा हि रामो धर्मात्मा तत्कुरुष्व समाहितः । राजंस्तिष्ठ स्वसमये भव सत्यप्रतिश्रवः ॥४-३१-५१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे लक्ष्मणक्रोधः नाम एकत्रिंशः सर्गः ॥४-३१॥