अङ्गदाभिवादनम्
किष्किन्धाकाण्डः / अङ्गदाभिवादनम्
Script
Translation
Previous
वाल्यनुशासनम्
Next
सुग्रीवताराश्वासनम्
अथ श्रीमद्वाल्मीकीयरामायणे किष्किन्धाकाण्डे अङ्गदाभिवादनम् नाम त्रयोविंशः सर्गः ॥४-२३॥
ततः समुपजिघ्रन्ती कपिराजस्य तन्मुखम् ।
पतिं लोकश्रुता तारा मृतं वचनमब्रवीत् ॥४-२३-१॥
शेषे त्वं विषमे दुःखमकृत्वा वचनं मम ।
उपलोपचिते वीर सुदुःखे वसुधातले ॥४-२३-२॥
मत्तः प्रियतरा नूनं वानरेन्द्र मही तव ।
शेषे हि तां परिष्वज्य मां च न प्रतिभाषसे ॥४-२३-३॥
सुग्रीवस्य वशं प्राप्तो विधिरेष भवत्यहो ।
सुग्रीव एव विक्रान्तो वीर साहसिकप्रिय ॥४-२३-४॥
ऋक्षवानरमुख्यास्त्वां बलिनं पर्युपासते ।
तेषां विलपितं कृच्छ्रमङ्गदस्य च शोचतः ॥४-२३-५॥
मम चेमा गिरः श्रुत्वा किं त्वं न प्रतिबुध्यसे ।
इदं तद् वीरशयनं तत्र शेषे हतो युधि ॥४-२३-६॥
शायिता निहता यत्र त्वयैव रिपवः पुरा ।
विशुद्धसत्त्वाभिजन प्रिययुद्ध मम प्रिय ॥४-२३-७॥
मामनाथां विहायैकां गतस्त्वमसि मानद ।
शूराय न प्रदातव्या कन्या खलु विपश्चिता ॥४-२३-८॥
शूरभार्यां हतां पश्य सद्यो मां विधवां कृताम् ।
अवभग्नश्च मे मानो भग्ना मे शाश्वती गतिः ॥४-२३-९॥
अगाधे च निमग्नास्मि विपुले शोकसागरे ।
अश्मसारमयं नूनमिदं मे हृदयं दृढम् ॥४-२३-१०॥
भर्तारं निहतं दृष्ट्वा यन्नाद्य शतधा कृतम् ।
सुहृच्चैव च भर्ता च प्रकृत्या च मम प्रियः ॥४-२३-११॥
प्रहारे च पराक्रान्तः शूरः पञ्चत्वमागतः ।
पतिहीना तु या नारी कामं भवतु पुत्रिणी ॥४-२३-१२॥
धनधान्यसमृद्धापि विधवेत्युच्यते जनैः ।
स्वगात्रप्रभवे वीर शेषे रुधिरमण्डले ॥४-२३-१३॥
कृमिरागपरिस्तोमे स्वकीये शयने यथा ।
रेणुशोणितसंवीतं गात्रं तव समन्ततः ॥४-२३-१४॥
परिरब्धुं न शक्नोमि भुजाभ्यां प्लवगर्षभ ।
कृतकृत्योऽद्य सुग्रीवो वैरेऽस्मिन्नतिदारुणे ॥४-२३-१५॥
यस्य रामविमुक्तेन हृतमेकेषुणा भयम् ।
शरेण हृदि लग्नेन गात्रसंस्पर्शने तव ॥४-२३-१६॥
वार्यामि त्वां निरीक्षन्ती त्वयि पञ्चत्वमागते ।
उद्बबर्ह शरं नीलस्तस्य गात्रगतं तदा ॥४-२३-१७॥
गिरिगह्वरसंलीनं दीप्तमाशीविषं यथा ।
तस्य निष्कृष्यमाणस्य बाणस्यापि बभौ द्युतिः ॥४-२३-१८॥
अस्तमस्तकसंरुद्धरश्मेर्दिनकरादिव ।
पेतुः क्षतजधारास्तु व्रणेभ्यस्तस्य सर्वशः ॥४-२३-१९॥
ताम्रगैरिकसम्पृक्ता धारा इव धराधरात् ।
अवकीर्णं विमार्जन्ती भर्तारं रणरेणुना ॥४-२३-२०॥
अस्रैर्नयनजैः शूरं सिषेचास्त्रसमाहतम् ।
रुधिरोक्षितसर्वाङ्गं दृष्ट्वा विनिहतं पतिम् ॥४-२३-२१॥
उवाच तारा पिङ्गाक्षं पुत्रमङ्गदमङ्गना ।
अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम् ॥४-२३-२२॥
सम्प्रसक्तस्य वैरस्य गतोऽन्तः पापकर्मणा ।
बालसूर्योज्ज्वलतनुं प्रयातं यमसादनम् ॥४-२३-२३॥
अभिवादय राजानं पितरं पुत्र मानदम् ।
एवमुक्तः समुत्थाय जग्राह चरणौ पितुः ॥४-२३-२४॥
भुजाभ्यां पीनवृत्ताभ्यामङ्गदोऽहमिति ब्रुवन् ।
अभिवादयमानं त्वामङ्गदं त्वं यथा पुरा ॥४-२३-२५॥
दीर्घायुर्भव पुत्रेति किमर्थं नाभिभाषसे ।
अहं पुत्रसहाया त्वामुपासे गतचेतनम् ।
सिंहेन पातितं सद्यो गौः सवत्सेव गोवृषम् ॥४-२३-२६॥
इष्ट्वा संग्रामयज्ञेन रामप्रहरणाम्भसा ।
तस्मन्नवभृथे स्नातः कथं पत्न्या मया विना ॥४-२३-२७॥
या दत्ता देवराजेन तव तुष्टेन संयुगे ।
शातकौम्भीं प्रियां मालां तां ते पश्यामि नेह किम् ॥४-२३-२८॥
राज्यश्रीर्न जहाति त्वां गतासुमपि मानद ।
सूर्यस्यावर्तमानस्य शैलराजमिव प्रभा ॥४-२३-२९॥
न मे वचः पथ्यमिदं त्वया कृतं न चास्मि शक्ता हि निवारणे तव ।
हता सपुत्रास्मि हतेन संयुगे सह त्वया श्रीर्विजहाति मामपि ॥४-२३-३०॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे अङ्गदाभिवादनम् नाम त्रयोविंशः सर्गः ॥४-२३॥
Previous
वाल्यनुशासनम्
Next
सुग्रीवताराश्वासनम्